vidhi alankara(विधि)
1. Dandin: Kavyadarsa, Paricchedas 1 & 2 (6th-7th century)
2. Bhamaha: Kavyalamkara (7th century)
3. Udbhata: Kavyalamkarasarasamgraha (c. 776-807 AD) and 4. Induraja’s Laghuvrtti
5. Anandavardhana: Dhvanyaloka (820-890)
ध्व्_३.१०१४ः
विभावभावानुभावसञ्चार्यौचित्यचारुणः ।
विधिः कथाशरीरस्य वृत्तस्योत्प्रेक्षितस्य वा । । ध्व्क्_३.१० । ।
इतिवृत्तवशायातां त्यक्त्वाननुगुणां स्थितिं ।
उत्प्रेक्ष्याप्यन्तराभीष्टरसोचितकथोन्नयः । । ध्व्क्_३.११ । ।
सन्धिसन्ध्यङ्गघटनं रसाभिव्यक्त्यपेक्षया ।
न तु केवलया शास्त्रस्थितिसम्पादनेच्छया । । ध्व्क्_३.१२ । ।
उद्दीपनप्रशमने यथावसरं अन्तरा ।
रसस्यारब्धविश्रान्तेरनुसन्धानं अङ्गिनः । । ध्व्क्_३.१३ । ।
अलङ्कृतीनां शक्तावप्यानुरूप्येण योजनं ।
प्रबन्धस्य रसादीनां व्यञ्जकत्वे निबन्धनम् । । ध्व्क्_३.१४ । ।
प्रबन्धोऽपि रसादीनां व्यञ्जक इत्युक्तं तस्य व्यञ्जकत्वे निबन्धनं । प्रथमं तावद्विभावभावानुभावसञ्चार्यौचित्यचारुणः कथाशरीरस्य विधिर्यथायथं प्रतिपिपादयिषितरसभावाद्यपेक्षया य उचितो विभावो भावोऽनुभावः सञ्चारी वा तदौचित्यचारुणः कथाशरीरस्य विधिर्व्यञ्जकत्वे निबन्धनं एकं । तत्र विभावौचित्यं तावत्प्रसिद्धं । भावौचित्यं तु प्रकृत्यौचित्यात् । प्रकृतिर्ह्युत्तममध्यमाधमभावेन दिव्यमानुषादिभावेन च विभेदिनी । तां यथायथं अनुसृत्यासङ्कीर्णः स्थायी भाव उपनिबध्यमान औचित्यभाग्भवति । अन्यथा तु केवलमानुषाश्रयेण दिव्यस्य केवलदिव्याश्रयेण वा केवलमानुषस्योत्साहादय उपनिबध्यमाना अनुचिता भवन्ति । तथा च केवलमानुषस्य राजादेर्वर्णने सप्तार्णवलङ्घनादिलक्षणा व्यापारा उपनिबध्यमाना सौष्ठवभृतोऽपि नीरसा एव नियमेन भवन्ति, तत्र त्वनौचित्यं एव हेतुः ।
ननु नागलोकगमनादयः सातवाहनप्रभृतीनां श्रूयन्ते, तदलोकसामान्यप्रभावातिशयवर्णने किं अनौचित्यं सर्वोर्वीभरणक्षमाणां क्षमाभुजां इति । न तदस्ति ; न वयं ब्रूमो यत्प्रभावातिशयवर्णनं अनुचितं राज्ञाम्, किं तु केवलमानुषाश्रयेण योत्पाद्यवस्तुकथा क्रियते तस्यां दिव्यं औचित्यं न योजनीयं । दिव्यमानुष्यायां तु कथायां उभयौचित्ययोजनं अविरुद्धं एव । यथा पाण्ड्वादिकथायां । सातवाहनादिषु तु येषु यावदपदानं श्रूयते तेषु तावन्मात्रं अनुगम्यमानं अनुगुणत्वेन प्रतिभासते । व्यतिरिक्तं तु तेषां एवोपनिबध्यमानं अनुचितं ।
तदयं अत्र परमार्थः
अनौचित्यादृते नान्यद्रसभन्गस्य कारणं ।
प्रसिद्धौचित्यबन्धस्तु रसस्योपनिषत्परा । ।
अत एव च भरते प्रख्यातवस्तुविषयत्वं प्रख्यातोदात्तनायकत्वं च नाटकस्यावश्यकर्तव्यतयोपन्यस्तं । तेन हि नायकौचित्यानौचित्यविषये कविर्न व्यामुह्यति । यस्तूत्पाद्यवस्तु नाटकादि कुर्यात्तस्याप्रसिद्धानुचितनायकस्वभाववर्णने महान्प्रमादः ।
ननु यद्युत्साहादिभाववर्णने कथञ्चिद्दिव्यमानुष्याद्यौचित्यपरीक्षा क्रियते तत्क्रियताम्, रत्यादौ तु किं तया प्रयोजनं ? रतिर्हि भारतवर्षोचितेनैव व्यवहारेण दिव्यानां अपि वर्णनीयेति स्थितिः । नैवं । तत्रौचित्यातिक्रमेण सुतरां दोषः । तथा ह्यधमप्रकृत्यौचित्येनोत्तमप्रकृतेः शृङ्गारोपनिबन्धने का भवेन्नोपहास्यता ।
त्रिविधं प्रकृत्यौचित्यं भारते वर्षेऽप्यस्ति शृङ्गारविषयं ।
यत्तु दिव्यं औचित्यं तत्तत्रानुपकारकं एवेति चेत्न वयं दिव्यं औचित्यं शृङ्गारविषयं अन्यत्किंचिद्ब्रूमः । किं तर्हि ? भारतवर्षविषये यथोत्तमनायकेषु राजादिषु शृङ्गारोपनिबन्धस्तथा दिव्याश्रयोऽपि शोभते । न च राजादिषु प्रसिद्धग्राम्यशृङ्गारोपनिबन्धनं प्रसिद्धं नाटकादौ, तथैव देवेषु तत्परिहर्तव्यं ।
नाटकादेरभिनेयार्थत्वादभिनयस्य च सम्भोगशृङ्गारविषयस्यासभ्यत्वात्तत्र परिहार इति चेत्न; यद्यभिनयस्यैवंविषयस्यासभ्यता तत्काव्यस्यैवंविषयस्य सा केन निवार्यते ? तस्मादभिनेयार्थेऽनभिनेयार्थे वा काव्ये यदुत्तमप्रकृते राजादेरुत्तमप्रकृतिभिर्नायिकाभिः सह ग्राम्यसम्भोगवर्णनं तत्पित्रोः सम्भोगवर्णनं इव सुतरां असभ्यं । तथैवोत्तमदेवतादिविषयं ।
न च सम्भोगशृङ्गारस्य सुरतलक्षण एवैकः प्रकारः, यावदन्येऽपि प्रभेदाः परस्परप्रेमदर्शनादयः सम्भवन्ति, ते कस्मादुत्तमप्रकृतिविषये न वर्ण्यन्ते ? तस्मादुत्साहवद्रतावपि प्रकृत्यौचित्यं अनुसर्तव्यं । तथैव विस्मयादिषु । यत्त्वेवंविधे विषये महाकवीनां अप्यसमीक्ष्यकारिता लक्ष्ये दृश्यते स दोष एव । स तु शक्तितिरस्कृतत्वात्तेषां न लक्ष्यत इत्युक्तं एव । अनुभावौचित्यं तु भरतादौ प्रसिद्धं एव ।
इयत्तूच्यतेभरतादिविरचितां स्थितिं चानुवर्तमानेन महाकविप्रबन्धांश्च पर्यालोचयता स्वप्रतिभां चानुसरता कविनावहितचेतसा भूत्वा विभावाद्यौचित्यभ्रंशपरित्यागे परः प्रयत्नो विधेयः । औचित्यवतः कथाशरीरस्य वृत्तस्योत्प्रेक्षितस्य वा ग्रहो व्यञ्जक इत्यनेनैतत्प्रतिपादयतियदितिहासादिषु कथासु रसवतीषु विविधासु सतीष्वपि यत्तत्र विभावाद्यौचित्यवत्कथाशरीरं तदेव ग्राह्यं नेतरत् । वृत्तादपि च कथाशरीरादुत्प्रेक्षिते विशेषतः प्रयत्नवता भवितव्यं । तत्र ह्यनवधानात्स्खलतः कवेरव्युत्पत्तिसम्भावना महती भवति ।
परिकरश्लोकश्चात्र
कथाशरीरं उत्पाद्यवस्तु कार्यं तथा तथा ।
यथा रसमयं सर्वं एव तत्प्रतिभासते । ।
तत्र चाभ्युपायः सम्यग्विभावाद्यौचित्यानुसरणं । तच्च दर्शितं एव । किं च
सन्ति सिद्धरसप्रख्या ये च रामायणादयः ।
कथाश्रया न तैर्योज्या स्वेच्छा रसविरोधिनी । ।
तेषु हि कथाश्रयेषु तावत्स्वेच्छैव न योज्या । यदुक्तम्”कथामार्गे न चातिक्रमः” ।
स्वेच्छापि यदि योज्या तद्रसविरोधिनी न योज्या ।
इदं अपरं प्रबन्धस्य रसाभिव्यञ्जकत्वे निबन्धनं । इतिवृत्तवशायातां कथञ्चिद्रसाननुगुणां स्थितिं त्यक्त्वा पुनरुत्प्रेक्ष्याप्यन्तराभीष्टरसोचितकथोन्नयो विधेयः यथा कालिदासप्रबन्धेषु । यथा च सर्वसेनविरचिते हरिविजये । यथा च मदीय एवार्जुनचरिते महाकाव्ये । कविना काव्यं उपनिबध्नता सर्वात्मना रसपरतन्त्रेण भवितव्यं । तत्रेतिवृत्ते यदि रसाननुगुणां स्थितिं पश्येत्तदेमां भङ्क्त्वापि स्वतन्त्रतया रसानुगुणं कथान्तरं उत्पादयेत् । न हि कवेरितिवृत्तमात्रनिर्वहणेन किंचित्प्रयोजनम्, इतिहासादेव तत्सिद्धेः ।
रसादिव्यञ्जकत्वे प्रबन्धस्य चेदं अन्यन्मुख्यं निबन्धनम्, यत्सन्धीनां मुखप्रतिमुखगर्भावमर्शनिर्वहणाख्यानां तदङ्गानां चोपक्षेपादीनां घटनं रसाभिव्यक्त्यपेक्षया, यथा रत्नावल्यां । न तु केवलं शास्त्रस्थितिसम्पादनेच्छया । यथा वेणीसंहारे विलासाख्यस्य प्रतिमुखसन्ध्यङ्गस्य प्रकृतरसनिबन्धाननुगुणं अपि द्वितीयेऽङ्के भरतमतानुसरणमात्रेच्छया घटनं ।
इदं चापरं प्रबन्धस्य रसव्यञ्जकत्वे निमित्तं यदुद्दीपनप्रशमने यथावसरं अन्तरा रसस्य, यथा रत्नावल्यां एव । पुनरारब्धविश्रान्ते रसस्याङ्गिनोऽनुसन्धिश्च, यथा तापसवत्सराजे ।
प्रबन्धविशेषस्य नाटकादे रसव्यक्तिनिमित्तं इदं चापरं अवगन्तव्यं यदलङ्कृतीनां शक्तावप्यानुरूप्येण योजनं । शक्तो हि कविः कदाचिदलङ्कारनिबन्धने तदाक्षिप्ततयैवानपेक्षितरसबन्धः प्रबन्धं आरभते तदुपदेशार्थं इदं उक्तं । दृश्यन्ते च कवयोऽलङ्कारनिबन्धनैकरसा अनपेक्षितरसाः प्रबन्धेषु ।
6. Abhinavagupta’s Locana (950 – 1020) and 7. Ramasaraka’s Balapriya (modern published in 1940)
विभावभावानुभावसञ्जार्यौचित्यचारुणः ।
विधिः कथाशरीरस्य वृत्तस्योत्प्रेक्षितस्य वा । । १० । ।
इतिवृत्तवशायातां त्यक्त्वाननुगुणां स्थितिं ।
उत्प्रेक्ष्याप्यन्तराभीष्टरसोचितकथोन्नयः । । ११ । ।
सन्धिसन्ध्यङ्गघटनं रसाभिव्यक्त्यपेक्षया ।
न तु केवलया शास्त्रस्थितिसम्पादनेच्छया । । १२ । ।
उद्दीपनप्रशमने यथावसरमन्तरा ।
रसस्यारब्धविश्रान्तेरनुसन्धानमङ्गिनः । । १३ । ।
अलङ्कृतीनां शक्तावप्यानुरूप्येण योजनं ।
प्रबन्धस्य रसादीनां व्यञ्जकत्वे निबन्धनम् । । १४ । ।
प्रबन्धोऽपि रसादीनां व्यञ्जक इत्युक्तं तस्य व्यञ्जकत्वे निबन्धनं ।
प्रथमं तावद्विभावभावानुभावसञ्चार्योचित्यचारुणः कथाशरीरस्य विधिर्यथायथं प्रतिपिपादयिषितरसभावाद्यपेक्षया य उचतो विभावो भावोऽनु भावः सञ्जारी वा तदौचित्यचारुणः कथाशरीरस्य विधिर्व्यञ्जकत्वे निबन्धनमेकं ।
<<लोचनं>> रसं प्रति जागरणम्, तदुचितविभावादिवर्णनेऽलङ्कारौचित्यमिति ।
तत्क्रमेण पञ्जकं व्याचष्टे—विभावेत्यादिना ।
तदौचित्येति ।
शृङ्गारवर्णनेच्छुना तादृशी कथा संश्रयणीया यस्यामृतुमाल्यादेर्विभावस्य लीलादेरनुभावस्य <<बालप्रिया>> शेषः ।
तत्पञ्जकमिति ।
आद्यञ्चतुष्टयं श्लोकचतुष्टयेन क्रमान्नर्दिष्टं, पञ्चमन्त्वर्धश्लोकेनेति बोध्यं ।
विभावाद्यौचित्यचारुणः कथाशरोरस्य विधिरित्येतद्रसविशेषमुपादाय विवृणोति–शृङ्गारवर्णने चुम्बनेत्यादि ।
वृत्तौऽप्रकृतिऽरित्यादि ।
प्रकृतिः स्वभावः ।
ऽदिव्येऽत्यादि ।
दिव्या मानुषी दिव्यमानुषी पातालीयेत्यादिर्बहुविधेत्यर्थः ।
तत्र दिव्या प्रकृतिरमर्त्यैकरूपत्वं यथा श्रीमहेश्वरादेः ।
मानुषी मर्त्यैकरूपत्वं यथा माधवादेः ।
दिव्यमानुषी पाण्डवादेरिति बोध्यं ।
ऽताम्ऽ इति ।
प्रकृतिमित्यर्थः ।
ऽअसङ्कीर्णःऽ स्थाय्यन्तरासङ्कीर्णः ।
ऽऔचित्यभागिति च पाठः ।
क्वचिद्ग्रन्थे भवतीत्यनन्तरं नान्यथेति च पाठः ।
ऽअन्यथेऽत्यादि ।
अन्यथा उक्तप्रकारातिक्रमणेन ।
दिव्यस्य उत्साहादयः केवलमानुषाश्रयेम केवलमानुषस्योत्साहादयः केवलदिव्याश्रयेण वा उपनिबध्यमाना इत्यन्वयः ।
ऽतथाचेऽति ।
तथाहीत्यर्थः ।
लोचने—तद्विषयेति ।
व्यापारविषयकेत्यर्थः ।
एतदिति ।
व्यापारपदमित्यर्थः ।
कुत इत्यत आह–स्थायीत्यादि ।
वृत्तौऽभान्तीऽतिऽभवन्तीऽति च पाठः ।
अत एव च भरते प्रख्यातवस्तुविषयत्वं प्रख्यातोदात्तनायकत्वं च नाटकस्यावश्यकर्तव्यतयोपन्यस्तं ।
तेन हि नायकौचित्यानौचित्यविषये कविर्न व्यामुह्यति ।
यस्तूत्पाद्यवस्तु नाटकादि कुर्यात्तस्याप्रसिद्धानुचितनायकस्वभाववर्णने महान्प्रमादः ।
<<लोचनं>> एतदुक्तं भवति—यत्र विनेयानां प्रतीतिखण्डना न जायते तादृग्वर्णनीयं ।
तत्र केवलमानुषस्य एकपदे सप्तार्णवलङ्घनमसम्भाव्यमानतयानृतमिति हृदये स्फुरदुपदेश्यस्य चतुर्वर्गोपायस्याप्यलीकतां बुद्धौ निवेशयति ।
रामदेस्तु तथाविधमपि चरितं पूर्वप्रसिद्धिपरम्परोपचितसम्प्रत्ययोपारूढमसत्यतया न चकास्ति ।
अत एव तस्यापि यदा प्रभावान्तरमुत्प्रेक्ष्यते तदा तादृशमेव ।
न त्वसम्भावनापदं वर्णनीयमिति ।
तेन हीति ।
प्रख्यातोदात्तनायकवस्तुत्वेन ।
व्यामुह्यतीति किं वर्णयेयमिति ।
यस्त्विति कवः ।
महान्प्रमाद इति ।
तेनोत्पाद्यवस्तु नाटकादि न <<बालप्रिया>> शङ्कते—ऽनन्विऽत्यादि ।
ऽनागलोकेऽति ।
नाकलोकेति च पाठः ।
ऽतदिऽति ।
तस्मादित्यर्थः ।
क्षमाभुजामित्यस्य वर्णने इत्यनेन सम्बन्धः ।
किमिति प्रश्ने निषेधे वा ।
परिहरत—ऽनैतदिऽत्यादि ।
नैतदस्ति एतच्चोद्यं न भवति ।
कुत इत्यत्राह—ऽनेऽत्यादि ।
राज्ञां प्रभावातिशयवर्णनं यद्द्वयं तदनुचितं न ब्रूम इति सम्बन्धः ।
व्यतिरिक्तन्त्वित्यादिग्रन्थस्य सारार्थमाह लोचने—एतदुक्तमित्यादि ।
यत्रेति ।
वर्ण्यमाने यस्मिंश्चरित इत्यर्थः ।
प्रतीतिखण्डना प्रतीतेरप्रतिष्ठा ।
केवलमानुषस्येति ।
वर्ण्यमानमिति शेषः ।
सप्तार्णवलङ्घनं कर्तृ निवेशयतीति सम्बन्धः ।
अनुतमितीति ।
अलीकतामिति ।
असत्यतामित्यर्थः ।
विशेषमाह—रामादेस्त्विति ।
तथाविधमिति ।
अर्णवलघङ्नादिरूपमित्यर्थः ।
पूर्वप्रसिद्धीति ।
पूर्वा पुरातनी या प्रसिद्धिपरम्परा तया उपचितो यः सम्प्रत्ययो विश्वासः तमुपारूढमिति हेतुगर्भं ।
तस्यापि रामादेरपि ।
उत्प्रेक्ष्यते कल्पनापूर्वकं वर्ण्यते ।
तादृशमेव असत्यतया स्फुरेदेव ।
परमतात्पर्यमाह—न त्वित्यादि ।
असम्भावनापदमिति ।
असम्भाव्यत्वबुद्धिविषयभूतमित्यर्थः ।
व्यामोहाकारमाह–किमित्यादि ।
मुनिना नाटकादेरुत्पाद्यवस्तुत्वस्यानिरूपितत्वादुत्पाद्यवस्तुनाटकादीति यथाश्रुतार्थस्यासङ्गत्या यो नाटकादि उत्पाद्यवस्तु सत्कुर्यात्तस्य महान्प्रमादस्स्यादिति योजनाम्मनसि कृत्य तात्पर्यं विवृणोति—तेनेत्यादि ।
तेन कवेर्महतः प्रमादस्य प्रसङ्गेन हेतुना ।
मुनिना नाटकादि ननु यद्युत्साहादिभाववर्णने कथञ्चिद्दिव्यमानुष्याद्यौचित्यपरीक्षा क्रियते तत्क्रियताम्, रत्यादौ तु किं तया प्रयोजनम्? रतिर्हि भारतवर्षेचितेनैव व्यवहारेम दिव्यानामपि वर्णनीयेति स्थितिः ।
नैवं ; तत्रौचित्यातिक्रमेण सुरां दोषः ।
तथा ह्यधमप्रकृत्यौचित्येनोत्तमप्रकृतेः शृङ्गारोपनिबन्धने का भवेन्नोपहास्याता ।
त्रिविधं प्रकृत्यौचत्यं भारते वर्षेऽप्यस्ति शृङ्गारविषयं ।
यत्तु दिव्यमौचित्यं तत्तत्रानुपकारकमेवेति चेत्—न वयं दिव्यमौचित्यं शृङ्गारनिषयमन्यत्किञ्चिद्ब्रूमः ।
किं तर्हि? भारतवर्षविषये यथोत्तमनायकेषु राजादिषु शृङ्गारोपनिबन्धस्तथा दिव्याश्रयोऽपि शोभते ।
न च राजादिषु प्रसिद्धिषु प्रसिद्धग्राम्यशृङ्गारोपनिबन्धनं प्रसिद्धं नाटकादौ, तथैव देवेषु तत्परिहर्तव्यं ।
नाटकादेरमिनेयार्थत्वादभिनयस्य च सम्भोगशृङ्गारविषयस्यासभ्यत्वात्तत्र परिहार इति चेत्- न; यद्यभिनयस्यैवंविषयस्यासभ्यता तत्काव्यस्यैवंविषयस्य सा केन निवार्यते? तस्मादभिनेयार्थेऽनभिनेयार्थे वा काव्ये यदुत्तमप्रकृते राजादेरुत्तमप्रकृतिभिर्नायिकाभिः सह ग्राम्यसम्भोगवर्णनं तत्पित्रोः सम्भोगवर्णनमिव सुतरामसभ्यं ।
तथैवोत्तमदेवतादिविषयं ।
<<लोचनं>> निरूपितं मुनिनेति न कर्तव्यमिति तात्पर्यं ।
आदिशब्दः प्रकारे, हिमादेः प्रसिद्धदेवचरितस्य सङ्ग्रहार्ऽथः ।
<<बालप्रिया>> उत्पाद्यवस्तु सत्न निरूपितमिति सम्बन्धः ।
इतीति हेतौ ।
न कर्तव्यमिति ।
कविना नाटकादि उत्पाद्यवस्तु सन्न निबद्धव्यमित्यर्थः ।
ऽनाटकादीऽत्यत्रादिशब्दं विवृणोति—प्रकार इत्यादि ।
प्रकारे सादृश्ये, तच्च प्रख्यातवस्तुत्वेन बोध्यं ।
ऽडिमादेऽरित्यादिपदेन व्यायोगो ग्राह्यः ।
“प्रख्यातवस्तुविषयः प्रख्यातोदात्तनायकश्चे”त्यादि डिमलक्षणं ।
व्यायोगस्तु विधिज्ञैः कर्यः प्रख्यातनायकशरीर इत्यादिव्यायोगलक्षणञ्ज नाट्यशास्त्रादावुक्तं ।
नाटकादीत्यत्र नाटकमादिः यस्येति व्युत्पत्त्या नाटकादिपदेनातद्गुणसंविज्ञानबहुव्रीहिणा प्रकारणं विवक्षितमतो न यथाश्रुतार्थानुपपत्तिरिति कश्चिदाह, तन्मतमाह—अन्यस्त्वित्यादि ।
न च सम्भोगशृङ्गारस्य सुरतलक्षण एवैकः प्रकारः, यावदन्येऽपि प्रभेदाः परस्परप्रेमदर्शनादयः सम्भवन्ति, ते कस्मादुत्तमप्रकृतिविषये न वर्ण्यन्ते ? तस्मादुत्साहवद्रतावपि प्रकृत्यौचित्यमनुसर्तव्यं ।
तथैव विस्मयादिषु ।
यत्त्वेवंविधे विषये महाकवीनाप्यसमीक्ष्यकारिता लक्ष्ये दृश्यते स दोष एव ।
स तु शक्तितिरस्कृतत्वात्तेषां न लक्ष्यत इत्युक्तमेव ।
अनुभावौचित्यं तु भरतादौ प्रसिद्धमेव ।
<<लोचनं>> अन्यस्तु–ऽउपलक्षणमुक्तो बहुव्रीहिरिति प्रकरणमत्रोक्तम्ऽ इत्याह ।
ऽनाटिकादिऽ इति वा पाठः ।
तत्रा दिग्रहणं प्रकारसूचकम्, तेन मुनिनिरूपिते नाटिकालक्षणेऽप्रकरणनाटकयोगादुत्पाद्यं वस्तु नायको नृपतिःऽ इत्यत्र यथासंख्येन प्रख्यातोदात्तनृपतिनायक्त्वं बोद्धव्यमिति भावः ।
कथं तर्हि सम्भोगशृङ्गारः कविना निबध्यतामित्याशङ्क्याह—न चेति ।
तथैवेति ।
मुनिनाप स्थाने स्थाने प्रकृत्यौचित्यमेव विभावानुभावादिषु बहुतरं प्रमाणीकृतंऽस्थैर्येणोत्तममध्यमाधमानां नीचानां सम्भ्रमेणऽ इत्यादि वदता ।
<<बालप्रिया>> उक्तो बहुव्रीहिरुपलक्षणमिति ।
नाटकादीति बहुव्रीहिरन्योपलक्षक इत्यर्थः ।
इतीति हेतौ ।
प्रकारान्तरेणाह–नाटिकादीत्यादि ।
प्रकारसूचकं सादृश्यबोधकं ।
सादृश्यमुत्पाद्यवस्तुत्वेन बोध्यम्, प्रकरणादिकमादिपदेन ग्राह्ममिति भावः ।
तेनेति नाटिकादेरुत्पाद्यवस्तुत्वकथनेनेत्यर्थः ।
वस्तुन एवोत्पाद्यत्वोकस्येति यावत् ।
बोद्धव्यमिति ।
नायके उत्पाद्यत्वस्यान्वयो नेति भावः ।
वृत्तौऽनन्विऽत्यादि ।
ऽदिव्येऽति ।
दिव्यं मानष्यञ्ज तदादि यदौचित्यं तस्य परीक्षा ।
यदि क्रियत इति सम्बन्धः ।
ऽतत्ऽ तर्हि ।
ऽतयाऽ दिव्यमानुष्याद्यौचित्यपरीक्षया ।
ऽतत्रेऽति ।
रत्यादावित्यर्थः ।
पुनश्शङ्कते—ऽयत्त्विऽत्यादि ।
परिहरति—ऽनेऽत्यादि ।
ऽदिव्याश्रयोऽपीति ।
शृङ्गारोपनिबन्ध इत्यनुषङ्गः ।
ऽन चेऽति ।
नाटकादौ राजादिषु न च प्रसिद्धमित्यन्वयः ।
ऽप्रसिद्धेऽति ।
अधमपात्रगतत्वेन प्रसिद्धेत्यर्थः ।
ऽतदिऽति ।
ग्राम्यशृङ्गारोपनिबन्धनमित्यर्थः ।
शङ्कते—ऽनाटकादेरिऽति ।
ऽतत्रेऽति ।
नाटकादावत्यर्थः ।
ऽएवं विषयस्यासभ्यतेऽति ।
सम्भोगशृङ्गारविषयस्यासभ्यतेत्यर्थः ।
ऽसेऽति ।
असभ्यतेत्यर्थः ।
न च सम्भोगशृङ्गारस्येत्यादिग्रन्थमवतारयति लोचने—कथन्तर्हीत्यादि ।
तथैव विस्मयादिष्वित्यत्र प्रमाणमाह—मुनिनापीत्यादि ।
स्थैयंणेति ।
इयत्तूच्यते–भरतादिविरचितां स्थितिं चानुवर्तमानेन महाकविप्रबन्धांश्च पर्यालोचयता स्वप्रतिभां चानुसरता कविनावहतचेतसा भूत्वा विभावा द्यौचित्यभ्रंशपरित्यागे परः प्रयत्नो विधेयः ।
औचित्यवतः कथाशरीरस्य वृत्तस्योत्प्रेक्षितस्य वा ग्रहो व्यञ्जक इत्यनेनैतत्प्रतिपादयति—यदितिहासादिषु कथासु रसवतीषु विविधासु सतीष्वप यत्तत्र विभावाद्यौचित्यवत्कथाशरीरं तदेव ग्राह्यंनेतरत् ।
वृत्तादपि च कथाशरीरादुत्प्रेक्षिते विशेषतः प्रयत्नवता भवितव्यं ।
तत्र ह्यनवधानात्स्खलतः कवेरव्युत्पत्तिसम्भावना महती भवति ।
परिकरश्लोकश्चात्र— कथाशरीरमुत्पाद्यवस्तु कार्यं तथातथा ।
यथा रसमयं सर्वमेव तत्प्रतभासते । ।
<<लोचनं>> इत्यत्त्विति ।
लक्ष्णज्ञत्वं लक्ष्यपरिशीलनमदृष्टप्रसादोदितस्वप्रतिभाशालित्वं चानुसर्तव्यमिति संक्षेपः ।
रसवतीष्वित्यनादरे सप्तमी ।
रसवत्त्वं चाविवेचकजनाभिमानाभिप्रायेण मन्तव्यं ।
विभावाद्यौचित्येन हि विना का रसवत्ता ।
कवेरिति ।
<<बालप्रिया>> “स्त्रीनीचप्रकृतिष्विष शोको व्यसनसम्भवः ।
धैर्येणोत्तममध्यानां नीचानां रुदितेन च” । ।
इति भावाध्याये पाठः ।
अत्राभिनेय इत्यस्यानुषङ्गः ।
ऽभरतादिविरचतां स्थितिञ्चानुवर्तमानेनेऽत्यादितृतीयान्तपदत्रयलब्धमर्थमाह—लक्षणज्ञत्वमित्यादि ।
अदृष्टेति ।
अदृष्टं सुकृतं प्रसादो देवतादिप्रसादः ताभ्यामुदिता या स्वप्रतिभा तच्छालित्वमित्यर्थः ।
अनादरे सप्तमीति ।
इतिहासादिषु विविधासु रसवतीषु कथासु सतीष्वपि ताः कथा अनादृत्य तत्र तासाम्मध्ये यत्कथाशरीरमौचित्यवत्तदेव कविना ग्राह्यं, नेतरद्विभावाद्यौचित्यशून्यं कथाशरीरं रसवदपि न ग्राह्यमिति वृत्त्यर्थ इति भावः ।
ननु विभावाद्यौचित्याभावे कथं रसवत्वमित्यत आह–रसवत्वञ्चेति ।
अविवेचकेत्यादि ।
कविवेचकजनानां योऽभिमानः रसवत्वाभिमानः तदभिप्रायेण ज्ञातव्यमित्यर्थः ।
अत्र हेतुमाह—विभावाद्यौचित्येनेत्यादि ।
महती अव्युत्पत्तिसम्भावना भवतीत्युक्तं विवृणोति—न हीत्यादि ।
तत्रेति ।
स्वयमुत्प्रेक्षिते कथाशरीर इत्यर्थः ।
जात्युत्तरमिति ।
असमीचीनमुत्तरमित्यर्थः ।
तत्र इति जात्युत्तरमपि न सम्भवतीति सम्बन्धः ।
सन्तीत्यादिकं विवृणोति–सिद्ध इत्यादि ।
आस्वादेति ।
आस्वादमात्रं तत्र चाभ्युपायः सम्यग्विभावाद्यौचित्यानुसरणं ।
तच्च दर्शितमेव ।
किञ्च—- सन्ति सिद्धरसप्रख्या ये च रामायणादयः ।
कथाश्रया न तैर्योज्या स्वेच्छा रसविरोधिनी । ।
तेषु हि कथाश्रयेषु तावत्स्वेच्छैव न योज्य ।
यदुक्तम्—ऽकथामार्गे न चाल्पोऽप्यतक्रमःऽ ।
स्वेच्छापि यदि योज्या तद्रसविरोधिनी न योज्या ।
इदमपरं प्रबन्धस्य रसाभिव्यञ्जकत्वे निबन्धनं ।
इतिवृत्तवशायातां कथञ्चिद्रसाननुगुणां स्थितिं त्यक्त्वा पुनरुत्प्रेक्ष्याप्यन्तराभीष्टरसोचितकथोन्नयो विधेयः यता कालिदासप्रबन्धेषु ।
यथा च सर्वसेनविरचिते <<लोचनं>> न हि तत्रेतिहासवशादेव मया निबद्धमिति जात्युत्तरमपि सम्भवति ।
तत्र चेति ।
रसमयत्वसम्पादने ।
सिद्धेति ।
सिद्धः आस्वादमात्रशेषो न तु भावनीयो रसो येषु ।
कथानामाश्रया इतिहासाः, तैरितिहासार्थैः तैस्सह स्वेच्छा न योज्या ।
सहार्तश्चात्र विषयविषयिभाव इति व्याचष्टे—तेष्विति सप्तम्या ।
स्वेच्छा तेषु न योज्या, कथञ्चिद्वा यदि योज्यते तत्तत्प्रसिद्धरसविरुद्धा न योज्या ।
यथा रामस्य धीरललितत्वयोजनेन नाटिकानायकत्वं कश्चित्कुर्यादिति त्वत्यन्तासमञ्जसं ।
यदुक्तमिति ।
रामाभ्युदये यशोवर्मणा—ऽस्थितमिति यथा शय्याम्ऽ ।
कालिदासेति ।
रघुवंशेऽजादीनां राज्ञां विवाहादवर्णनं नेतिहासेषु निरूपितं ।
हरिविजये कान्तानुनयनाङ्गत्वेन पारिजातहरणादिनिरूपितमितिहासेष्वदृष्टचमपि ।
तथार्जुनचरितेऽर्जुनस्य पातालविजयादि <<बालप्रिया>> सहृदयास्वाद एव शेषः शिष्टांशो यस्य सः ।
मात्रपदव्यवच्छेद्यमाह—न त्वित्यादि ।
भावनीयः वर्णनया सम्पादनीयः ।
सिद्धरसाः प्रख्याः प्रख्याताश्च सिद्धरसप्रख्या ये रामायणादयः कथाश्रयास्सन्तीति सम्बन्धः ।
तत्र कथाश्रयपदं व्याचष्टे – कथानामित्यादि ।
तैरित्येतद्व्याचष्टे – इतिसाहासार्थैरिति ।
न तैरित्यादिकं वाक्यद्वये पर्यवसन्नमित्याशयेन तेष्वित्यादि व्याख्यातं वृत्तौ, तत्र तैरित्यनेन तेष्वित्यर्थः ।
कथं लब्धं इत्यतस्तद्ग्रन्थमवतारयति—तैरित्यादि ।
तेष्विति सप्तम्येत ।
सप्तमीयं वैषयिकाधिकरण इति भावः ।
स्वेच्छेति ।
स्वेच्छानिर्मिता अर्था इत्यर्थः ।
तेष्विति ।
सिद्धरसप्रख्येषु कथाश्रयेष्वित्यर्थः ।
यथा रामस्येति ।
रामायणप्रसिद्धस्तदीयो रसो हि वीर इति भावः ।
वृत्तौ—ऽन चाल्पोऽप्यतिक्रमऽ इति ।
अल्पोऽप्यतिक्रमो न कार्यं इत्यर्थः ।
ऽइति वृत्तेऽत्यादि ।
कथञ्चिद्रसाननुगुणां कयापि विधया हरिविजये ।
यथा च मदीय एवार्जुनचरिते महाकाव्ये ।
कविना काव्यमुपनिबन्धता सर्वात्मना रसपरतन्त्रेण भवितव्यं ।
तत्रेतिवृते यदि रसाननुगुणां स्थितिं पश्येत्तदेमां भङ्क्त्वापि स्वतन्त्रतया रसानुगुणं कथान्तरमुत्पादयेत् ।
न हि कवेरितिवृत्तमात्रनिर्वहणेन किञ्चित्प्रयोजनम्, इतिहासादेव तत्सिद्धेः ।
रसादिव्यञ्जकत्वे प्रबन्धस्य चेदमन्यन्मुख्यं निबन्धनं, यत्सन्धीनां मुखप्रतिमुखगर्भावमर्शनिर्वहणाख्यानां तदङ्गानां चोपक्षेपादीनां घटनं <<लोचनं>> वर्णितमिथासाप्रसिद्धं ।
एतदेव युक्तमित्याह—कविनेति ।
सन्धीनामिति ।
इह प्रभुसम्मितेभ्यः श्रुतिस्मृतिप्रभृतिभ्यः कर्तव्यमिदमित्याज्ञामात्रपरमार्थेभ्यः शास्त्रेभ्यो ये न व्युत्पन्नाः, न चाप्यस्येदं वृत्तममुष्मात्कर्मण इत्येवं युक्तियुक्तकर्मफलसम्बन्धप्रकटनकारिभ्यो मित्र्रसम्मितेभ्य इतिहासशास्त्रेभ्यो लब्धव्युत्पत्तयः, अथ चावश्यं व्युत्पाद्याः प्रजार्थसम्पादनयोग्यताक्रान्ता राजपुत्रप्रायास्तेषां हृदयानुप्रवेशमुखेन चतुर्वर्गोपायव्युत्पत्तिराधेया ।
हृदयानुप्रवेशश्च रसास्वादमय एव ।
स च रसश्चतुर्वर्गोपायव्युत्पत्तिनान्तरीयकविभावादिसंयोगप्रसादोपनत इत्येवं रसोचितविभावाद्युपनिबन्धे रसास्वादवैवश्यमेव स्वरसभाविन्यां व्युत्पत्तौ प्रयोजकमिति प्रीतिरेव व्युत्पत्तेः प्रयोजिका ।
प्रीत्यात्मा च रसस्तदेव नाट्यं नाट्यमेव वेद इत्यस्मदुपाध्यायः ।
न चैते प्रीतिव्युत्पत्ती भिन्नरूपे एव, द्वयोरप्येकविषयत्वात् ।
विभावाद्यौचित्यमेव <<बालप्रिया>> रसानुगुण्यरहितां ।
ऽउत्प्रेक्ष्यऽ आलोच्य ।
ऽअन्तराऽ मध्ये ।
ऽअभीष्टेऽति ।
अभीष्टस्य रसस्य उचितायाः कथाया उन्नयः घटनं ।
उक्तमेवार्थंस्फुटं विवृणोति–ऽकविनेऽत्यादि ।
ऽप्रबन्धम्ऽ इतिऽकाव्यम्ऽ इति च पाठः ।
लोचनेऽसन्धीनाम्ऽ इत्यादिग्रन्थार्थं विवृणोति–इह प्रभुसम्मितेभ्य इत्यादि ।
कर्तव्यमिदमिति उपलक्षणमेतदिदं न कर्तव्य मित्यस्य ।
शास्त्रेभ्य इति हेतौ पञ्चमी ।
न चापीति ।
लब्धव्युत्पत्तय इत्यनेनास्य सम्बन्धः ।
अस्येति नायकविशेषस्य निर्देशः ।
इदं वृत्तमिति ।
एतत्फलं जातमित्यर्थः ।
शास्त्रीति ।
शास्त्रमितिहासात्मकानि शास्त्राणि इतिहासशास्त्राणि तेभ्यः ।
अथ चावश्यं व्युत्पाद्या इत्यत्र हेतुमाह—प्रजार्थेति ।
प्रजानामर्थपम्पादने परिपालने या योग्यता राजकुलप्रसूतत्वादिरूपा तया आक्रान्ता आश्रिता इत्यर्थः ।
चतुरिति ।
चतुर्वर्गोपायव्युत्पत्तिः नान्तरीयकमानुषङ्गिकफलं यस्य तथाविधो यो विभावादिसंयोगः तत्प्रसादोपनतः तेनोत्पादित इत्यर्थं ।
इत्येवमिति ।
उक्तप्रकारेणेत्यर्थः ।
प्रीतिरेवेति ।
रसास्वादानन्द एवेत्यर्थः ।
भिन्निरूपे इति ।
विभिन्नविषयके इत्यर्थः ।
<<लोचनं>> सत्यतः प्रीतेर्निदानमित्यसकृदवोचाम ।
विभावादीनां तद्रसोचतानां यथास्वरूपवेदनं फलपर्यन्तीभूततया व्युत्पत्तिरित्युच्यते ।
फलं च नाम यददृष्टवशाद्दवता प्रसादादान्यतो वा जायते ।
न च तदुपदेश्यम्, तत उपाये व्युतत्पत्ययोगात् ।
तेनोपायक्रमेण प्रवृत्तस्य सिद्धिः अनुपायद्वारेण प्रवृत्तस्य नाश इत्येवं नायकप्रतिनायकगतत्वेनार्थानर्थेपायव्युत्पत्तिः कार्या ।
उपायश्च कर्त्राश्रीयमाणः पञ्चवस्था भजते ।
तद्यथास्वरूपं, स्वरूपात्किञ्चिदुच्छूनतां, कार्यसम्पादनयोग्यतां, प्रतबन्धोपनिपातेनाशङ्क्यमानतां, निवृत्तप्रतिपक्षतायां बाधकबाधनेन सुदृढफलपर्यन्ततां ।
एवमार्तिसहिण्णूनां विप्रलम्भभीरूणां प्रेक्षापूर्वकारिणां तावदेवं कारणोपादानं ।
ता एवंविधाः पञ्चावस्था ; कारणगता मुनिनोक्तः— संसाध्ये फलयोगे तु व्यापारः कारणस्य यः ।
<<बालप्रिया>> फलपर्यन्तीभूततयेति ।
स्वरूपसंवेदनमित्यनेन सम्बन्धः ।
तदिति ।
अदृष्टादिजन्यं फमित्यर्थः ।
ततः तथाविधफलोपदेशेन ।
उपाये व्युत्पत्त्ययोगादिति ।
तत्तत्फलोपायविषयकव्युत्पत्यनुदयादित्यर्थः ।
तेनेति ।
उक्तहेतुनेत्यर्थः ।
सिद्धिरिति ।
फलसिद्धिरित्यर्थः ।
अनुपायेति ।
अनुपायशब्देनाहेतुरनिष्टहेतुश्च विवक्षितः ।
नाश इति ।
फलासिद्धिरनिष्टसिद्धिश्चेत्यर्थः ।
नायकप्रतिनायकगतत्वेनेति ।
अर्थानर्थेत्यनेन सम्बन्धः ।
यथासङ्ख्यं नायकप्रतिनायकगतौ यावर्थानर्थौ तदुपायस्य व्युत्पत्तिरित्यर्थः ।
कार्येति ।
कविना सम्पादनीयेत्यर्थः ।
कर्त्रेति ।
नायकादिनेत्यर्थः ।
स्वरूपमित्यादिद्वितीयान्तानां पञ्चावस्था इत्यनेन पूर्वस्थेन सम्बन्धः ।
स्वरूपमिति ।
उपायस्यानुष्ठीयमानत्वस्वरूपमित्यर्थः ।
किञ्चिदुच्छूनतामिति ।
किञ्चित्पोषमित्यर्थः ।
तद्रूपां कार्यसम्पादनयोग्यतामिति द्वितीयावस्था ।
प्रतिबन्धकेत्यादि ।
प्रतिबन्धकोपनिपातेनाशङ्क्यमानकार्यसिद्धिकत्वमित्यर्थः ।
निवृत्तप्रतिपक्षतायामिति ।
प्रतिवन्धकनिवृत्तमित्यर्थः ।
प्रतिबन्धकनिवृत्त्या निश्चीयमानकार्यकत्वमिति यावत् ।
प्रतापरुद्रीयव्याख्यायान्तु – प्रथमावस्थास्वरूपात्किञ्चिदुच्छूनत्वं, द्वितीया तु कार्यसम्पादनयोग्यता, तृतीया तु प्रतिबन्धकोपनिपातेन कार्यस्य शङ्क्यमानत्वं, चतुर्थी तु प्रतिबन्धकनिवृत्त्या कार्यस्य निश्चयः, पञ्चमी तु बाधबाधनेन फलपर्यन्ततादार्ढ्यमित्युक्तम्, तदनुरोधे तु स्वरूपात्किञ्चिदुच्छूनतामित्यस्य स्वरूपमित्यनेनान्वयो बोध्यः ।
आर्तिसहिण्णुनामिति ।
श्रमसहिण्णूनमित्यर्थः ।
यथोक्तम्—”विध्नैर्मुहुर्मुहुरपि प्रतिहन्यमाना” इत्यादि ।
विप्रलम्भेति ।
कार्यासिद्धीत्यर्थः ।
संसाध्य इति ।
कारणस्येति ।
नायकादेरित्यर्थः ।
प्रारम्भादीनाम्मुखादिसन्धीनां <<लोचनं>> तस्यानुपूर्व्या विर्ज्ञयाः पञ्चावस्थाः प्रयोक्तृभिः । ।
प्रारम्भश्च प्रयत्नश्च तथा प्राप्तेश्च सम्भवः ।
नियता च फलप्राप्तिः फलयोगश्च पञ्चमः । ।
इति ।
एवं या एताः कारणस्यावस्थास्तत्सम्पादकं यत्कर्तुरितवृत्तं पञ्चधा विभक्तं ।
त एव मुखप्रतिमुखगर्भावमर्शनिर्वहणाख्या अन्वर्थनामानः पञ्च सन्धय इतिवृत्तखणडाः, <<लोचनं>> सन्धीयन्त इति कृत्वा ।
तेषामपि सन्धीनां स्वनिर्वाह्यं प्रति तथा क्रमदर्शनादवान्तरभिन्ना इतितवृत्तभागाः ।
सन्ध्यङ्गानि–ऽउपक्षेपः परिकरः परिन्यसो विलोभनम्ऽ इत्यदीनि ।
अर्थप्रकृतयोऽत्रैवान्तर्भूताः ।
तथा हि स्वायत्तसिद्धेर्बीजं बिन्दुः कार्यमिति तिस्रः ।
बीजेन सर्वव्यापाराः बिन्दुनानुसन्धानं कार्येण निर्वाहः सन्दर्शनप्रार्थनाव्यवसायरूपा ह्येतास्तिस्रोऽर्थसम्पाद्ये कर्तुः प्रकृतयः स्वभाववशेषाः ।
सचिवायत्तसिद्धित्वे तु सचिवस्य तदर्थमेव वा स्वार्थमेव वा स्वार्थमपि वा प्रवृत्त्त्वेन प्रकीर्णपताकाशब्दाभ्यामुक्त इति ।
एवं प्रस्तुतफलनिर्वाहणान्तस्याधिकारिकस्य वृत्तस्य पञ्चसन्धित्वं पूर्णसन्ध्यङ्गता च सर्वजनव्युत्पत्तिदायिनी निबन्धनीया ।
प्रासङ्गिके त्वितिवृत्ते नायं नियम इत्युक्तम्-ऽप्रासङ्गिके पराथत्वान्न ह्येष नियमो भवेत्ऽ इति मुनिना ।
एवं स्थिते रत्नावल्यां धीरललितस्य नायकस्य धर्माविरुद्धसम्भोगसेवायामनौचित्याभावात्प्रत्युत न निस्सुखः स्यादिति श्लाध्यत्वात्पृथ्वीराज्यमहाफलान्तरानुबन्धिकन्यालाभफलोद्देशेन <<बालप्रिया>> तदङ्गानामुपक्षेपादीनाञ्च लक्षणानि दशरूपकादिषु द्रष्टव्यानि ।
स्वनिर्वाह्यमिति ।
स्वनिर्वाह्यं फलमित्यर्थः ।
अर्थप्रकृतयोऽत्रैवेति ।
ताः “बीजबिन्दुपताकाख्यप्रकरीकार्यलक्षणा” इत्युक्ता बोध्याः ।
स्वायत्तसिद्धेरिति ।
नायकस्त्रिविधः—स्वायत्तसिद्धिस्सचिवायत्तसिद्धिरुभयायत्तसिद्धिश्चेति ।
बीजेन सर्वव्यापारा इति ।
विवक्षिता इति शेषः ।
एवमुत्तरवाक्ययोरपि बोध्यं ।
अनुसन्धानमिति ।
अवान्तरार्थैर्मुख्यप्रयोजनस्य विच्छेदे तत्सन्धानकरणमित्यर्थः ।
सन्दर्शनेत्यादि ।
तत्ततप्रयोजनं मनसि कृत्य तात्सिद्धिं सम्प्रार्थ्य तदर्थो व्यवसायो भवतीति सन्दर्शनादिजन्यत्वाद्बीजादयस्तत्स्वरूपा इत्यर्थः ।
अर्थे इत्यादि ।
अनेनार्थप्रकृतय इत्यस्यावयवार्थो दर्शितः ।
अथ प्रकरीपताकापदार्थौ दर्शयिष्यन्नाह—सचिवेत्यादि ।
तदर्थं नायकार्थं ।
प्रकरीपताकापदाभ्यां व्यपदेशे क्रमेम हेतुः प्रकीर्णत्वप्रसिद्धत्वाभ्यामिति ।
इति मुनिना इत्युक्तमिति सम्बन्धः ।
इतीत्यस्य इति वदता इत्यर्थः ।
लक्ष्यं दर्शयति—एवमित्यादि ।
एवं स्थिते रत्नावल्यां दर्शिता एवेत्यन्वयः ।
इति श्लाध्यत्वादिति ।
इति वचनेन धर्माविरुद्धसम्भोगसेवायाः रसाभिव्यक्त्यपेक्षया, यथा रत्नावल्यां ; न तु केवलं शास्त्रस्थितिसम्पादनेच्छया ।
यथा वेणीसंहारे विलासाख्यस्य प्रतिमुखसन्ध्यङ्गस्य प्रकृतरसनिबन्धाननुगुणमपि द्वितीयेऽङ्के भरतमतानुसरणमात्रेच्छया घटनं ।
<<लोचनं>> प्रस्तावनोपक्रमे पञ्चापि सन्धयोऽवस्थापञ्चकसहिताः समुचितसन्ध्यङ्गपरिपूर्णा अर्थप्रकृतियुक्ता दर्शिता एव ।
ऽप्रारम्भेऽस्मिन्स्वामिनो वृद्धिहेतौऽ इति हे बीजादेव प्रभृतिऽविश्रान्तविग्रहकथःऽ इतिऽराज्यं निर्जितशत्रुऽ इति च वचोभिःऽउपभोगसेवावसरोऽयम्ऽ इत्युपक्षेपात्प्रभृति हि निरूपितं ।
एतत्तु समस्तसन्ध्यङ्गस्वरूपं तत्पाठपृष्ठे प्रदर्श्यमानमतितमां ग्रन्थगौरवमावहति ।
प्रत्येकेन तु प्रदर्श्यमानं पूर्वापरानुसन्धानवन्ध्यतया केवलं संमोहदायि भवतीति न विततं ।
अस्यार्थस्य यत्नावधेयत्वेनेष्टत्वात्स्वकण्ठेन यो व्यतिरेक उक्तोऽन तु केवलयाऽ इति तस्योदाहरणमाह—न त्विति ।
केवलशब्दमिच्छाशब्दं च प्रयुञ्चानस्यायमाशयः—भरतमुनिना सन्ध्यङ्गनां रसाङ्गभूतमितिवृत्तप्राशस्त्योत्पादनमेव प्रयोजनमुक्तं ।
न तु पूर्वरङ्गाङ्गवददृष्टसम्पादनं विध्नादिवारणं वा ।
यथोक्तम्— इष्टस्यार्थस्य रचना वृत्तान्तस्यानपक्षयः ।
रागप्राप्तिः प्रयोगस्य गुह्यानां चैव गूहनं । ।
आश्चर्यवदभिख्यानं प्रकाश्यानां प्रकाशनं ।
अङ्गानां षड्विधं ह्येतद्दृष्टं शास्त्रे प्रयोजनं । ।
इति ।
ततश्च— समीहा रतिभोगार्था विलासः परिकीर्तितः ।
<<बालप्रिया>> श्लाघनीयत्वादित्यर्थः ।
तत्पाठपृष्ठे प्रदर्श्यमानमिति ।
रत्नालीस्थतत्तद्वाक्यानि सर्वाण्युदाहृत्य प्रदर्श्यमानमित्यर्थः ।
प्रत्येकेनेति ।
पूर्वापरवाक्यं विना उदाहरणमात्रमित्यर्थः ।
न विततमिति ।
सविस्तरं सोदाहरणं वृत्तौ नोक्तमित्यर्थः ।
अस्यार्थस्येति ।
सन्धिसन्ध्यङ्गघटनं रसादिव्यक्त्यपेक्षयेत्युक्तस्यार्थस्येत्यर्थः ।
इति यो व्यतिरेक इति सम्बन्धः ।
न त्वितीति ।
न त्वित्यादिग्रन्धेनेत्यर्थः ।
प्रयुञ्जानस्येति ।
कारिकाकर्तुरिति शेषः ।
अयमिति ।
नाधिगतार्थ इत्यन्तेन ग्रन्थेन वक्ष्यमाण इत्यर्थः ।
सन्ध्यङ्गानामिति प्रयोजनमित्यनेन सम्बध्नाति ।
इष्टस्येति रचनाप्रतिपादनं ।
प्रयोगस्य रागप्राप्तिः अभिनयरागसमृद्धिः ।
अभिनयदर्शनेन सामाजिकमनोरञ्जनसमृद्धिरिति यावत् ।
आश्चर्यवदिति ।
चमत्कारकारीत्यर्थः ।
ततश्चेति ।
उक्तेन हेतुनेत्यर्थः ।
प्रयुक्त इत्यनेनास्य सम्बन्धः ।
समीहेति ।
इदं चापरं प्रबन्धस्य रसव्यञ्जकत्वे निमित्तं यदुद्दीपनप्रशमने यथावसरमन्तरा <<लोचनं>> इति प्रतिमुखसन्ध्यङ्गविलासलक्षणे ।
रतिभोगशब्द आधिकारिकरसस्थायिभावोपव्यञ्जकविभावाद्युपलक्षणार्थत्वेन प्रयुक्तः, यथा तत्त्वं नाधिगतार्थ इति, प्रकृतो ह्यत्र वीररसः ।
उद्दीपन इति ।
उद्दीपनं विभावादिपरिपूरणया ।
यथा—ऽअयं स राआ उदयणो त्तिऽ इत्यादि सागरिकायाः ।
प्रशमनं वासवदत्तातः पलायने ।
पुनरुद्दीपनं चित्रफलकोल्लेखे ।
प्रशमनं सुसङ्गताप्रवेशे इत्यादि ।
गाढं ह्यनवरतपरिमृदितो रसः सुकुमारमालतीकृसुमवज्झटित्येव म्लानिमवलम्बेत ।
विशेषतस्तु शृङ्गारः ।
यदाह मुनिः— यद्वामाभिनिवेशित्वं यतश्च विनिवार्यते ।
दुर्लभत्वं यतो नार्या कामिनः सा परा रतिः । ।
इति ।
वीररसादावपि यथावसरमुद्दीपनप्रशमनाभ्यां विना झटित्येवाद्भुतफलकल्पे साध्ये लब्धे प्रकटीचिकीर्षित उपायोपेयभावो न प्रदर्शित एवल स्यात् ।
पुनरिति ।
इतिवृत्तवशादारब्धाशङ्क्यमानप्राया <<बालप्रिया>> समीहा इच्छा ।
रतिभोगार्थेति ।
सुरतानुभवविषयिकेत्यर्थः ।
यद्वा—रतेः रत्याख्यस्थायिनः यो भुज्यत इति भोगो विषयः प्रमदादिः तदर्था तत्सम्भोगार्था इत्यर्थः ।
आधिकारिकेति ।
आधिकारिको यो रसो वर्ण्यमानः तस्य यः स्थायीभावस्तदुपव्यञ्जको यो विभावादिः तदुपलक्षमार्थत्वेन तदुपलक्षकत्वेनेत्यर्थः ।
न तु पूर्वेक्तवाच्यार्थमात्रपरत्वेनेति भावः ।
प्रयुक्त इति ।
मुनिनेति शेषः ।
यथेति ।
यथातत्त्वमधिगतो ज्ञातोऽर्थो मुन्यभिप्रेतार्थे यस्य तथाभूतो न, किन्तु तद्वाच्यार्थ एवाधिगत इति भावः ।
वेणीसंहारकृतेति शेषः ।
इतीत्यस्याशय इत्येननान्वयः ।
ननु वेणीसंहारे क आघिकारिको रस इत्यत्राह—प्रकृत इति ।
न तु शृङ्गार इति भावः ।
अन्यथा दोषं दर्शयति—गाढमित्यादि ।
अनवरतपरिमृदितः अविच्छेदेनास्वादितः ।
मालतीति ।
अनवरतमृदितमालतीत्यर्थः ।
यदिति ।
वामाभिनिवेशित्वं नार्याः प्रतिकूलाचरणाभिलाषः ।
यतश्च यच्च विनिवार्यते नार्या सम्भोग इति शेषः ।
यतः यत्सा एतत्र्रयम्, परा रतिः विध्नितसम्भोगाया नार्यास्सम्भोगः परमप्रीतिहेतुरित्यर्थः ।
न केवलं शृङ्गारे रसान्तरेऽप्युक्तं ग्राह्यमित्याह—वीरेत्यादि ।
अद्भुतफलेति ।
इन्द्रजालादिदर्शितफलेत्यर्थः ।
प्रकटीचिकीर्षितः कविना प्रकटीकर्तुमभिलषितः ।
उपायेति ।
नायकादितत्तद्य्वापारस्य चतुर्वर्गस्य च हेतुहेतुमद्भाव इत्यर्थः नैवेति योजना ।
आरब्धेत्यनेन प्रकृते विवक्षितमाह–आशङ्क्यमानप्रायेति ।
उपनता जाता ।
विश्रान्तिपदार्थमाह—विच्छेद इति ।
तथाच यत्र यत्रा ङ्गिनो रसस्य विच्छेदः प्राप्नुयात्तत्र रसस्य, यता रत्नावल्यामेव ।
पुमराब्धविश्रान्ते रसस्याङ्गिनोऽनसन्धिश्च ।
यथा तापसवत्सराजे ।
प्रबन्धविशेषस्य नाटकादे रसव्यक्तिनिमित्तमिदं चापरमवगन्तव्यं यदलङ्कृतीनां शक्तावप्यानुरूप्येण योजनं ।
शक्तो हि कविः कदाचिदलङ्कारनिबन्धने तदाक्षिप्ततयैवानपेक्षितरसबन्धः प्रबन्धमारभते तदुपदेशार्थमिदमुक्तं ।
दृश्यन्ते च कवयोऽलङ्कारनिबन्धनैकरसा अनपेक्षितरसाः प्रबन्धेषु ।
<<लोचनं>> न तु सर्वर्थवोपनता विश्रान्तिर्विच्छेदो यस्य स तथा ।
रसस्येति ।
रसाङ्गाभूतस्य कस्यापीति यावत् ।
तापसवत्सराजे हि वासवदत्ताविषयो जीवतसर्वस्वाभिमानात्मा प्रेमबन्धस्तद्विभावाद्यौचित्यात्करुणविप्रलम्भादिभूमिका गृह्णन्समस्तेतिवृत्तव्यापी ।
राज्यप्रत्यापत्त्या हि सचिवनीतिमहिमोपनतया तदङ्गभूतपझावतीलाभानुगतयानुप्राण्यमानरूपा परमामभिलषणीयतमतां प्राप्ता वासवदत्ताधिगतिरेव तत्र फलं ।
निर्वहणे हिऽप्राप्ता देवी भूतधात्री च भूयः संबन्धोऽभूद्दर्शकेनऽ इत्येवं देवीलाभप्राधान्यं निर्वाहितं ।
इयति चेतिवृत्तवैचित्र्यचित्रे भित्तिस्थानीयो वासवदत्ताप्रेमबन्धः प्रथममन्त्रारम्भात्प्रमृति पझावतीविवाहादौ, तस्यैव व्यापारात् ।
तेन स एव वासवदत्ताविषयः प्रेमबन्धः कथावशादाशङ्क्यमानविच्छेदोऽप्यनुसंहितः ।
तथाहि—प्रथमे <<बालप्रिया>> तत्र तदनुसन्धानं सम्पादयितव्यमित्यर्थः ।
अङ्गिनो रसस्येत्यत्र रसपदेन विवक्षितमाह – रसाङ्गभूतस्येति ।
कस्यापीति ।
विभावादेरित्यर्थः ।
ऽयथा तापसवत्सराजऽ इत्युक्तं विवृणोति – तापसवत्सराजे हीत्यादि ।
प्रेमबन्ध इति ।
वत्सराजगत इति शेषः ।
समस्तेति ।
वृत्तव्यापीत्यनेनास्य सम्बन्धः ।
करुणेति ।
क्रमोऽत्र बोध्यः ।
उक्तं दृढीकरोति – राच्येत्यादि ।
प्राप्तेत्यत्र हेतुः–राज्यप्रत्यापत्यानुप्रेयमालरूपेति ।
राज्यप्रत्यापत्तेः विशेषणद्वयम्–रचिवेत्यादि ।
उक्तमुपपादयति—निर्वहण इत्यादि ।
प्रात्पेति ।
दृष्टायूयं निर्जिता विद्विषश्च प्राप्ता देवी भूतधात्री च भूयः ।
सम्बन्धोऽभूद्दर्शकेनापि सार्धं किं ते दुःखं यत्ततश्शान्तमद्य । ।
इति सम्पूर्णश्लोकः ।
ऽरसस्यारब्धविश्रान्तेरि”त्याद्युक्तं सङ्गमयति-इयतीत्यादि ।
इतिवृत्तवैचित्र्यचित्र इति ।
आलेख्यतल्ये विचित्रेतिवृत्त इत्यर्थः ।
प्रभृतिभितिस्थानीय इत्यन्वयः ।
व्यापारादिति ।
व्यापरणादित्यथः व्याप्तेरिति यावतित्यादिनेति ।
“निशापि मन्मथकृतोत्साहैस्तदङ्गार्पणैः तां सम्प्रत्यपि मार्गदत्तनयनां <<लोचनं>> तावदङ्के स्फुटं स एवोपनिवद्धःऽतद्वक्रेन्दुविलोकनेन दिवसो नीतः प्रदोषस्तथा तद्गोष्ठ्यैवऽ इत्यादिना,ऽबद्धोत्कण्ठमिदं मनः किमथवा प्रेमासमाप्तोत्सवम्ऽ इत्यन्तेन ।
द्वितीयेऽपिऽदृष्टिर्नामृतवर्षिणी स्मितमधुप्रस्यन्दि वक्त्रं न किम्ऽ इत्यादिना स एव विच्छिन्नोऽप्यनुसंहितः ।
तृतीयेऽपि सर्वत्र ज्वलितेषु वेश्मसु भयादालीजने विद्गुते श्वासोत्कम्पविहस्तया प्रतिपदं देव्या पतन्त्या तथा ।
हा नाथेति मुहुः प्रलापपरया दग्धं वराक्या तया शान्तेनापि वयं तु तेन दहनेनाद्यापि दह्यामहे । ।
इत्यादिना ।
चतुर्थेऽपि देवीस्वीकृतमानसस्य नियतं स्वप्नायमानस्य मे तद्गोत्रग्रहणादियं सुवदना यायात्कथं न व्यथां ।
इत्थं यन्त्रणया कथङ्कथमपि क्षीणा निशा जाग्रते ।
<<बालप्रिया>> प्रष्टुं प्रवृत्तस्य मे” इत्यादिपदेन ग्राह्यं ।
तद्वक्त्रेति ।
तत्पदेनात्र तत्पदेनात्र सर्वत्र वासवदत्तायाः परामर्शः दिवसः अहस्ममयः ।
तया सह गोष्ठी सम्भाषणादिस्तद्गोष्ठी तया ।
निशापीत्यत्र नीतेति विपरिणामेन सम्बन्धः ।
मन्मथेति ।
मन्मथेन कृतः उत्पादितः उत्साहः येषां तैः किं कुतः बद्धोत्कण्ठं भवति ।
विमृश्याह–अथवेत्यादि ।
असमाप्तः उत्सवः वक्त्रेन्दुविलोकनादिरूपो यत्र ।
यद्वा–असमाप्तः असमापितः उत्सवः येन तत् ।
भवति इत्यन्तेनानुसंहित इति सम्बन्धः ।
दृष्टिरिति ।
नामृतधर्मिणीति च पाठः ।
आदिपदेन “नोर्ध्वार्द्रं हृदयं न चन्दनरसस्पर्शानि चाङ्गानि वा कस्मिन्लब्धपदेन ते कृतमिदं क्रूरेण पाताग्रिना ।
नूनं वज्रमयोऽन्य एव दहनस्तस्येदमाचेष्टितं । ।
इत्यस्य सङ्ग्रहः ।
ते दृष्टिः अमृतवर्षिणी न किममृतवर्षिण्येवेत्यर्थः ।
एवमुपर्यपि किशब्दो नञ्पदैर्योज्यः ।
ऊर्ध्वार्द्रमुपरिभागे आर्द्रताविशिष्टं ।
नो वार्द्रमिति वा पाठः ।
पूर्वार्द्धेन दृष्ट्याद्यङ्गेषु विरोघिसद्भावादग्नेः पदलाभो न भवतीति दर्शितमत एवाह—ऽकस्मिन्निऽत्यादि कस्मिन्कृताङ्गे इदं कृतमित्येतद्विवृणोति—ऽक्रूरेणेऽत्यादि त्वं क्रूरेणाग्निना पीता दग्धा इति यदिदमिति सम्बन्धः ।
शोकावेशवशादाह–ऽनूनम्ऽ इत्यादि ।
दहनः त्वद्दाहकोऽग्निः ।
वज्रमयोन्य एव ।
नूनं सम्भावयामि ।
सर्वत्रेति ।
वराक्या निर्भाग्यया तया देव्या तथा दग्धमिति सम्बन्धः ।
देवीति ।
देवीतायदिहेतुगर्म ।
देवी वासवदत्ता ।
नियतमिति सम्भावनायां ।
स्वप्ने सम्भाव्यमानात्तद्गात्रग्रहणादित्यर्थः ।
इयमिति ।
पझावतीत्यर्थः ।
इत्थं यन्त्रणया एवं <<लोचनं>> दाक्षिण्योपहतेन सा प्रियतमा स्वप्तेऽपि नासादिता । ।
इत्यादिना ।
पञ्चमेऽपि समागमप्रत्याशया करुणे निवृत्ते विप्रलम्भेऽङ्कुरिते तथाभूते तस्मिन्मुनिवचसि जातागसि मयि प्रयत्नान्तर्गूढां रुषमुपगता मे प्रियतमा ।
प्रसीदेति प्रोक्ता न खलु कुपितेत्युक्तिमधुरं समुद्भिना पीतैर्नयनसलिलैः स्थास्यति पुनः । ।
इत्यादिना ।
षष्टेऽपिऽत्वत्सम्प्राप्तिविलोभितेन सचिवैः प्राणा मया धारिताःऽ इत्यादिना ।
अलङ्कृतीनामिति योजनापेक्षया कर्मणि षष्ठी ।
दृश्यन्ते चेति ।
यथा स्वप्नवासवदत्ताख्ये नाटके—ऽस्वञ्चितपक्ष्मकपाटं नयनद्वारं स्वरूपताडेन ।
उद्धाट्य सा प्रविष्टा हृदयगृहं मे नृपतनूजा । ।
ऽइति । । १४ । ।
<<बालप्रिया>> चिन्तनरूपनिद्राप्रतिबन्धकेन जाग्रतो मे निशा क्षीणेति सम्बन्धः ।
निशा निद्रां विनैवातीतेत्यर्थः ।
अत आह–दाक्षिणेयेत्यादि ।
दाक्षिण्यमत्र पझावतीविषयकं बोध्यं ।
सा वासवदत्ता ।
अङ्कुरित इत्यादिना अनुसंहित इति सम्बन्धः ।
तथा भूत इति ।
मुनिवचसीति निमित्ते सप्तमी ।
स्थास्यतीत्यनेनास्यान्वयः ।
सा प्रियतमा तथा मम पुनःपश्चादपिपुर इतिवा पाठः ।
स्थास्यतीत्याशंसायां ल्ट् ।
प्रयत्नान्तर्गूढामिति ।
प्रयत्नैरन्तर्नियमितामित्यर्थः ।
उक्त्या मधुरं मनोहरं यथा तथा ।
समुद्भिन्न संमिश्रा, युक्तेति यावत्पीतैः अन्तःस्तम्भितैः समुद्भिन्नप्रीतिरिति पाठः ।
साधिष्ठः समुद्भिन्न प्रकाशिता प्रीतिः यया सेत्यर्थः ।
नयनसलिलोद्गमो हि कुपितानां स्त्रीणां प्रीतेरनुवः ।
त्वदिति ।
आदिपदेन “तन्मत्वा त्यजतश्सरीरकमिदं नैवास्ति निस्स्नेहता आसन्नोऽवसरस्तवानुगमने जाता धृतिः किन्त्वयं ।
खेदो यच्च तवानुगं न हृदयं तस्मिन्क्षणे दारुण । ।
इत्यस्य सङ्ग्रहः ।
सचिवैः प्रयोजकैः मया प्रयोज्येन ।
ऽतदिऽति ।
त्वत्सम्प्राप्तिमित्यर्थः ।
अत्यजत इति च्छेदः ।
इत्यादिनेति तृतीयान्तानामनुसंहित इत्यने नान्वयो बोध्यः ।
योजनापेक्षयेति ।
योजनमिति कृदन्तापेक्षयेत्यर्थः ।
स्वञ्चितेति ।
वत्सराजोक्तिरियं ।
स्वञ्तिते प्रवेशप्रतिबन्धाय सुष्टु मिथः सम्बद्धे पक्ष्मणी एव कवाटे यस्य तत् ।
नयनद्वारं नयनमेव द्वारं ।
स्वरूपताडेन स्वस्यरूपमाकृतिः तदेव ताडः ताडनक्रिया साधनमुद्गाढनकरणमिति यावत्तेन ।
स्वरूपतडितैवेति पाठेस्वरूपमेव तडिद्विद्युत्तया करणेनेति तदर्थः ।
सा नृपतनूजा वासवदत्ता ।
अत्र नयनद्वारमित्येतावदेव रूपणं शृङ्गारानुगुणतया सुन्दरं न त्वन्यदपीति भावः । ।१४ । ।
8. Kuntaka: Vakroktijivita, with auto-commentary (950-1050)
9. Mammata: Kavyaprakasa (11th century)
10. Mammata: Kavyaprakasa [Karikavali]
11. Vamanacarya Ramabhatta Jhalakikar’s Balabodhini commentary
12. Nagesh Bhatta: Udyota commentary on kavyaprakasha (18th century)
13. Govinda Thakkura: Pradipa commentary on kavyaprakasha (1400-1500)
14. Baidyanatha Tatsat: prabha commentary on kavyaprakasha
15. Bhimsena Dikshita – sudhasagar commentary on Kavyaprakasha
16. Rajasekhara: Kavyamimamsa (10th century)
17. Rudrabhatta: Srngaratilaka (1000 AD)
18. Ruyyaka [Rajanaka]: Alamkarasarvasva, Sutras 1-34 (1150)
19. Jayaratha’s Vimarsini ((1150-1200 AD)
20. Vidyacakravartin’s Samjivani
21. Jayadeva [alias Piyusavarsa]: Candraloka (1200 AD)
22. Visvanatha kaviraja: Sahityadarpana ) (1384 AD)
23. Mahesvarabhatta’s Vijnapriya and 24. Anantadasa’s Locana (1400)
25. Visvesvara Kavicandra: Camatkaracandrika (1400)
#<प्रभूतकारणालोकाद्यत्र संभाव्यते विधिः ।
निषेधो वा विशेषज्ञैस्स संभव इतीरितः । । ७.२१ । ।>#
अत्र विधिसंभवो यथा
रैचर्लीयक्षितिवर भवद्घोर नासीरघोटी- कोटीक्षुण्णक्षितितलरजस्यावृताशावकाशे ।
स्यात्संभाव्यं तनुयवनिकाथन्नदीपोपमानं पर्यन्तोद्यत्परिवृढ शिखा पद्मरागोपलानाम । । ७.*३८ । ।
अत्रैवंविधे रजसि सामन्तशिखामणीनां तादृशी दशा संभाव्येति विधेस्संभाव्यमानत्वादयं विधिसंभवः ।
निषेधसंभवो यथा
सोमोल्लासिनि पारशीकनृपतौ संधानुसंधायके कन्यारत्नसमर्पणाद्गजपतौ संबन्धगन्धस्पृशि ।
रैचर्लान्वयशार्ङिणं नरपतिं द्रष्टुं रणे साहसं संभाव्यं न हि गौतमीपरिसरक्षुद्रक्षमाभृद्गणे । । ७.*३९ । ।
एवंविधनायकसंरंभसहनसाहसं क्षुद्रक्षत्रियेषु न संभाव्यमिति निषेधान्निषेधसंभवः ।
26. Vidyadhara: ekavali (14th century) and 27. Mallinatha Suri: Tarala commentary on Vidyadhara’s Ekavali (1350-1450 CE.)
28. Simhabhupala: Rasarnavasudhakara (1400-1500)
29. Vamana: Kavyalamkarasutra, with Vrtti (1400-1500)
30. Rupa Gosvamin: Natakacandrika (1489–1564)
31. Rupa Gosvamin: Ujjvalanilamani (1489–1564)
32. Apayya dikshit: kuvalayananda (1535)
33. Kavi Karnapura: Alankarakaustubha (around 1550)
34. BAladeva VidyabhuShaNa: kavyakaustubha (around 1550)
35. Jagannatha Panditaraja: Rasagangadhara, Anana 1 (17th century)
36. Krishna brahmatantra Parakala Swami: Alankaramanihara (1917)
37. Vagbhatalankara
38. Alankarashekhara
39. Alankara adhyaya agni purana
40. Bharata – nATyashAstra
41. Bhatti – rAvaNavadham