vakrokti
1. Dandin: Kavyadarsa, Paricchedas 1 & 2 (6th-7th century)
श्लेषः सर्वासु पुष्णाति प्रायो वक्रोक्तिषु श्रियम्
भिन्नं द्विधा स्वभावोक्तिर्वक्रोक्तिश्चेति वाङ्मयं । ।इति संसृष्तिः । । । । २.३६३ । ।
2. Bhamaha: Kavyalamkara (7th century)
सैष सर्वैव वक्रोक्तिरनयार्थो विभाव्यते ।
यत्नोऽस्यां कविना कार्यः कोऽलङ्कारोऽनया विना । । २.८५ । ।
हेतुश्च सूक्ष्मो लेशोऽथ नालंकारतया मतः ।
समुदायाभिधानस्य वक्रोक्त्यनभिधानतः । । २.८६ । ।
गतोऽस्तमर्को भातीन्दुर्यान्ति वासाय पक्षिणः ।
इत्येवमादि किं काव्यं वार्तामेनां प्रचक्षते । । २.८७ । ।
3. Udbhata: Kavyalamkarasarasamgraha (c. 776-807 AD) and 4. Induraja’s Laghuvrtti
5. Anandavardhana: Dhvanyaloka (820-890)
ध्व्_३.३६ः
वाच्यालङ्कारवर्गोऽयं व्यङ्ग्यांशानुगमे सति ।
प्रायेणैव परां छायां बिभ्रल्लक्ष्ये निरीक्ष्यते । । ध्व्क्_३.३६ । ।
वाच्यालङ्कारवर्गोऽयं व्यङ्ग्यांशस्यालङ्कारस्य वस्तुमात्रस्य वा यथायोगं अनुगमे सति च्छायातिशयं बिभ्रल्लक्षणकारैरेकदेशेन दर्शितः । स तु तथारूपः प्रायेण सर्व एव परीक्ष्यमाणो लक्ष्ये निरीक्ष्यते । तथा हिदीपकसमासोक्त्यादिवदन्येऽप्यलङ्काराः प्रायेण व्यङ्ग्यालङ्कारान्तरवस्त्वन्तरसंस्पर्शिनो दृश्यन्ते । यतः प्रथमं तावदतिशयोक्तिगर्भता सर्वालङ्कारेषु शक्यक्रिया । कृतैव च सा महाकविभिः कां अपि काव्यच्छविं पुष्यति, कथं ह्यतिशययोगिता स्वविषयौचित्येन क्रियमाणा सती काव्ये नोत्कर्षं आवहेत् ।
भामहेनाप्यतिशयोक्तिलक्षणे यदुक्तम्
सैषा सर्वैव वक्रोक्तिरनयार्थो विभाव्यते ।
यत्नोऽस्यां कविना कार्यः कोऽलङ्कारोऽनया विना । ।इति ।
तत्रातिशयोक्तिर्यं अलङ्कारं अधितिष्ठति कविप्रतिभावशात्तस्य चारुत्वातिशययोगोऽन्यस्य त्वलङ्कारमात्रतैवेति सर्वालङ्कारशरीरस्वीकरणयोग्यत्वेनाभेदोपचारात्सैव सर्वालङ्काररूपेत्ययं एवार्थोऽवगन्तव्यः । तस्याश्चालङ्कारान्तरसंकीर्णत्वं कदाचिद्वाच्यत्वेन कदचिद्व्यङ्ग्यत्वेन । व्यङ्ग्यत्वं अपि कदाचित्प्राधान्येन कदाचिद्गुणभावेन । तत्राद्ये पक्षे वाच्यालङ्कारमार्गः । द्वितीये तु ध्वनावन्तर्भावः । तृतीये तु गुणीभूतव्यङ्ग्यरूपता ।
अयं च प्रकारोऽन्येषां अप्यलङ्काराणां अस्ति, तेषां तु न सर्वविषयः । अतिशयोक्तेस्तु सर्वालङ्कारविषयोऽपि सम्भवतीत्ययं विशेषः । येषु चालङ्कारेषु सादृश्यमुखेन तत्त्वप्रतिलम्भः यथा रूपकोपमातुल्ययोगितानिदर्शनादिषु तेषु गम्यमानधर्ममुखेनैव यत्सादृश्यं तदेव शोभातिशयशालि भवतीति ते सर्वेऽपि चारुत्वातिशययोगिनः सन्तो गुणीभूतव्यङ्ग्यस्यैव विषयाः । समासोक्त्याक्षेपपर्यायोक्त्यादिषु तु गम्यमानांशाविनाभावेनैव तत्त्वव्यवस्थानाद्गुणीभूतव्यङ्ग्यता निर्विवादैव ।
तत्र च गुणीभूतव्यङ्ग्यतायां अलङ्काराणां केषाञ्चिदलङ्कारविशेषगर्भतायां नियमः । यथा व्याजस्तुतेः प्रेयोऽलङ्कारगर्भत्वे । केषाञ्चिदलङ्कारमात्रगर्भतायां नियमः । यथा सन्देहादीनां उपमागर्भत्वे । केषाञ्चिदलङ्काराणां परस्परगर्भतापि सम्भवति । यथा दीपकोपमयोः । तत्र दीपकं उपमागर्भत्वेन प्रसिद्धं । उपमापि कदाचिद्दीपकच्छायानुयायिनी । यथा मालोपमा । तथा हि “प्रभामहत्या शिखयेव दीपः” इत्यादौ स्फुटैव दीपकच्छाया लक्ष्यते ।
तदेवं व्यङ्ग्यांशसंस्पर्शे सति चारुत्वातिशययोगिनो रूपकादयोऽलङ्काराः सर्व एव गुणीभूतव्यङ्ग्यस्य मार्गः । गुणीभूतव्यङ्ग्यत्वं च तेषां तथाजातीयानां सर्वेषां एवोक्तानुक्तानां सामान्यं । तल्लक्षणे सर्व एवैते सुलक्षिता भवन्ति । एकैकस्य स्वरूपविशेषकथनेन तु सामान्यलक्षणरहितेन प्रतिपादपाठेनेव शब्दा न शक्यन्ते तत्त्वतो निर्ज्ञातुं आनन्त्यात् । अनन्ता हि वाग्विकल्पास्तत्प्रकारा एव चालङ्काराः । गुणीभूतव्यङ्ग्यस्य च प्रकारान्तरेणापि व्यङ्ग्यार्थानुगमलक्षणेन विषयत्वं अस्त्येव । तदयं ध्वनिनिष्यन्दरूपो द्वितीयोऽपि महाकविविषयोऽतिरमणीयो लक्षणीयः सहृदयैः ।
सर्वथा नास्त्येव सहृदयहृदयहारिणः काव्यस्य स प्रकारो यत्र न प्रतीयमानार्थसंस्पर्शेन सौभाग्यं । तदिदं काव्यरहस्यं परं इति सूरिभिर्भावनीयं ।
ध्व्_३.३८ः
प्रभेदस्यास्य विषयो यश्च युक्त्या प्रतीयते ।
विधातव्या सहृदयैर्न तत्र ध्वनियोजना । । ध्व्क्_३.३८ । ।
सङ्कीर्णो हि कश्चिद्ध्वनेर्गुणीभूतव्यङ्ग्यस्य च लक्ष्ये दृश्यते मार्गः । तत्र यस्य युक्तिसहायता तत्र तेन व्यपदेशः कर्तव्यः । न सर्वत्र ध्वनिरागिणा भवितव्यं । यथा
पत्युः शिरश्चन्द्रकलां अनेन
स्पृशेति सख्या परिहासपूर्वं ।
सा रञ्जयित्वा चरणौ कृताशीर्
माल्येन तां निर्वचनं जघान । ।
यथा च
प्रयच्छतोच्चैः कुसुमानि मानिनी
विपक्षगोत्रं दयितेन लम्भिता ।
न किंचिदूचे चरणेन केवलं
लिलेख बाष्पाकुललोचना भुवं । ।
इत्यत्र “निर्वचनं जघान” “न किंचिदूचे” इति प्रतिषेधमुखेन व्यङ्ग्यस्यार्थस्योक्त्या किंचिद्विषयीकृतत्वाद्गुणीभाव एव शोभते । यदा वक्रोक्तिं विना व्यङ्ग्योऽर्थस्तात्पर्येण प्रतीयते तदा तस्य प्राधान्यं । यथा “एवं वादिनि देवर्षौ” इत्यादौ । इह पुनरुक्तिर्भङ्ग्यास्तीति वाच्यस्यापि प्राधान्यं । तस्मान्नात्रानुरणनरूपव्यङ्ग्यध्वनिव्यपदेशो विधेयः । । ध्वा_३.३९ । ।
यस्मिन्नस्ति न वस्तु किंचन मनःप्रह्लादि सालंकृति
व्युत्पन्नै रचितं च नैव वचनैर्वक्रोक्तिशून्यं च यत् ।
काव्यं तद्ध्वनिना समन्वितं इति प्रीत्या प्रशंसञ् जडो
नो विद्मोऽभिदधाति किं सुमतिना पृष्टः स्वरूपं ध्वनेः । ।
6. Abhinavagupta’s Locana (950 – 1020) and 7. Ramasaraka’s Balapriya (modern published in 1940)
ग्रन्थकृदित्यादिना मत्सरं तदुक्तेर्हेतुत्वेन व्युत्पन्नै रचितं च नैव वचनैर्वक्रोक्तिशून्यं च यत् ।
काव्यं तद्ध्वनिना समन्वितमिति प्रीत्या प्रशंसञ्जडो नो विद्मोऽभिदधाति किं सुमतिना पृष्टः स्वरूपं ध्वनेः । ।
लोचन.ं मनोरथनाम्ना कविना ।
यतो न सालङ्कृति, अतो न मनःप्रह्लादि ।
अनेनार्थालङ्काराणामभाव उक्तः ।
व्युत्पन्नै रचितं च नैव वचनैरिति शब्दालङ्काराणां ।
वक्रोक्तिः उत्कृष्टा संघटना, तच्छून्यमिति शब्दर्थगुणानां ।
वक्रोक्तिशून्यशब्देन सामान्यलक्षणाभावेन सर्वालङ्काराभावौक्त इति केचित् ।
तैः पुनरुक्तत्वं न परिहृतमेवेत्यलं ।
प्रीत्येति ।
गतानुगतिकानुरागेणेत्यर्थः ।
सुमतिनेति ।
जडेन पृष्टो भ्रूभङ्गकटाक्षादिभिरेवोत्तरं ददत्तत्स्वरूपं काममाचक्षीतेति भावः ।
एवमेतेऽभावविकल्पाः शृङ्खलाक्रमेमागताः, न त्वन्योन्यासम्बद्धा एव ।
तथा हि तृतीयाभावप्रकारनिरूपणोपक्रमे पुनःशब्दस्यायमेवाबिप्रायः, उपसंहारैक्यं च सङ्गच्छते ।
अभाववादस्य सम्भावनाप्रामत्वेन भूतत्वमुक्तं ।
भाक्तवादस्त्वविच्छिन्नः <<बालप्रिया>> सूचयति–ऽयस्मिन्निऽति ।
ऽयस्मिन्ऽ काव्ये ।
ऽसालङ्कृतिऽ अत एवऽमनःप्रह्लादिऽ ।
ऽकिञ्चन वस्तुऽ वर्ण्यमानः कश्चिदर्थोऽनास्तिऽ ।
ऽव्युत्पन्नैऽरिति ।
नैवेति पाठे यदित्यास्यापकर्षः ।
यन्नेति च पाठः ।
ऽयत्ऽ काव्यं ।
व्युत्पन्नैः अनुप्रासादियोगाद्विचित्रतयोत्पन्नैःऽवचनैःऽ शब्दैः ।
ऽनैव रचितञ्चऽ, तथा यत्ऽवक्रोक्तिशून्यञ्जऽ भवति, तत्तथाविधमर्थालङ्कारादिशून्यंऽकाव्यं ध्वनिना समन्वितमिति प्रीत्या प्रशंसन्जडः ध्वलनेस्स्वरूपं सुमतिना पृष्टस्सन्किमभिदधाति ।
वयं नो विझऽ इत्यन्वयः ।
भावार्थ व्याचष्टे–यत इत्यादि ।
अनेनेति ।
प्रथमवाक्येनेत्यर्थः ।
उक्त इति ।
काव्य इति शेषः ।
अभाव उक्त इत्यस्य शब्दालङ्काराणां शब्दार्थगुणानामित्यनयोरपि सम्बन्धो बोध्यः ।
सङ्घटनेति ।
शब्दार्थयोरिति शेषः ।
व्याख्यानान्तरमनुवदति-वक्रोक्तीत्यादि ।
वक्रोक्तिस्सुन्दरतरोक्तिः सौन्दर्यञ्च वैचित्र्यमेव ।
तत्खलु सामान्यलक्षणमलङ्काराणामिति सर्वालङ्काराभाव उक्तो भवतीत्यर्थः ।
दूषयति-तैरिति ।
गतेति ।
गतस्यानुगतिः गतानुगतिका ।
कुत्सायां कः ।
तस्यामनुरागेण ।
यद्वा-गते अन्यगमने गतमनुगमनं गतानुगतं तदेषामस्तीति गतानुकतिकाः ।
स्वयं विचारमकृत्वा परोक्तिमेवानुसरन्त इति यावत् ।
तेषां सम्भवतानुरागेण ।
ऽसुमतिनेऽति पदस्य प्रयोजनं व्याचष्टे-जडेनेत्त्यादि ।
किमित्येते विकल्पाः प्ररस्परसम्बद्धा व्याख्याता इति शङ्कायां वृत्तिग्रन्थानुगुण्यादित्याह–एवमित्यादि ।
शृङ्खलाक्रमेमागताः परस्परसम्बद्धाः ।
कुत इत्यत्राह–तथाहीति ।
पुनश्शब्दस्यायमेवाभिप्राय इति ।
ऽपुनरपरऽ इत्यत्र पुनश्शब्दः भाक्तमाहुस्तमन्ये ।
अन्ये तं ध्वनिसंज्ञितं काव्यात्मानं गुणवृत्तिरित्याहुः ।
वामनोऽपिऽसाद्दश्याल्लक्षणा वक्रोक्तिःऽ इति ।
इमामेव वक्रोक्तिं विवृतोक्तिरिति कुवलयानन्दकाराः प्राहुः ।
सैषा सर्वैव वक्रोक्तिरिति ग्रन्थेनोक्तवानित्यर्थः ।
ऽसर्वापि वक्रोक्तिःऽ सर्व एवालङ्कारः ।
ऽसैषाऽ येयमुक्तातिशयोक्तिः सैवेति तत्तदलङ्काराणां विशेषत्वं तत्सामान्यरूपत्वञ्चातिशयोक्तेरिति तदर्थः ।
भवत्वेवं तावता प्रकृते किमायातमित्यत आह–न चेत्यादि ।
कथमस्य व्यङ्ग्यत्वमिति ।
व्यङ्ग्यं हि वाच्यात पृथक्तया तत्प्रतीत्युत्तरं शब्दात्प्रतीयते समान्यन्त्वन्यथा गौरित्यादिशब्देन सैषा सर्वैव वक्रोक्तिरनयार्थो विभाव्यते ।
यत्नोऽस्यां कविना कार्यः कोऽलङ्कारोऽनया विना । ।
इति ।
तत्रातिशयोक्तिर्यमलङ्कारमधितिष्ठति कविप्रतिभावशात्तस्य चारुत्वातिशययोगोऽन्यस्य <<लोचनं>> भामहेनापि यदुक्तं तत्रायमेवार्थोऽवगन्तव्य इति दूरेण सम्बन्धः ।
किं तदुक्तम्–सैषेति ।
यातिशयोक्तिर्लक्षिता सैव सर्वा वक्रोक्तिरलङ्कार प्रकारः सर्वः ।
वक्राभिधेयशब्दोक्तिरिष्टा वाचामलङ्कृतिः इति वचनात् ।
शब्दस्य हि वक्रता अभिधेयस्य च वक्रता लोकोत्तीर्णेन रूपेणावस्थानमित्ययमेवासावलङ्कारस्यालङ्कारभावः, लोकोत्तरतैव चातिशयः, तेनातिशयोक्तिः सर्वालङ्कारसामान्यं ।
तथा हि—अनया अतिशयोक्त्या, अर्थः सकलजनोपभोगपुराणीकृतोऽपि विचित्रतया भाव्यते ।
तथा प्रमदोद्यानादिः विभावतां नीयते ।
<<बालप्रिया>> सामान्यविशेषयोरपृथक्तया समकालमेवावभासादित्यलङ्कारविशेषप्रतीत्युतरं तत्पृथक्तया भासमानत्वं व्यापकं व्यापकं निवर्तमानं स्वव्याप्यं व्यङ्ग्यत्वमपि निवर्तयतीति तस्य व्यङ्ग्यत्वोक्तिर्भामहवचनव्याहतत्वादयुक्तेत्यर्थः ।
व्यवहितत्वादन्वयन्दर्शयति—भामहेनापीत्यादि ।
तदुक्तं भामहोक्तं ।
श्लोकं व्याचष्टे—येत्यादि ।
लक्षितेति ।
“निमित्ततो वचो यत्त्वि”त्यादिग्नन्थेन लक्षितेत्यर्थः ।
वक्रा वक्ष्यमाणस्वरूपवक्रताविशिष्टा ।
उक्तिरुच्यमानोऽर्थ इत्यर्थाभिप्रायेण व्याचष्टे–येत्यादि ।
लक्षितेति ।
“निमित्ततो वचो यत्त्वि”त्यादिग्रन्थेन लक्षितेत्यर्थः ।
वक्रा वक्ष्यमाणस्वरूपवक्रताविशिष्टा ।
उक्तिरुच्यमानोऽर्थ इत्यर्थाभिप्रायेण व्याचष्टे–अलङ्कारप्रकार इति ।
अलङ्कारविषेष इत्यर्थः ।
वक्रोक्तिशब्दस्यालङ्कारार्थकत्वे भामहोक्तिमेव संवादयति–वक्रेत ।
अलङ्कृतिरिति ।
अलङ्क्रियेति च पाठः ।
वक्रशब्दोऽत्रासम्भवत्स्वार्थस्सादृश्यात्प्रसिद्धपथातिलङ्घिरूपान्तरशालित्वेन लक्ष्यतीत्याशयेनाह–लोकेत्यादि ।
लोकीत्तीर्णेन रूपेण लोकप्रसिद्धशास्त्रेतिहासादिव्यावृत्तेन रूपेण ।
तच्च रूपं विवक्षितरसाभिव्यञ्जनं प्रति योग्यत्वापत्तिलक्षणं ।
अयमेवेत ।
रसाभिव्यञ्जनयोग्यत्वरूपलोकोत्तीर्णरूपमेवेत्यर्थः ।
अलङ्कारस्यालङ्कारभावः उपमादेरलङ्कारत्वं ।
तथाच वक्रोक्तिशब्दोऽलङ्कारार्थक इति भावः ।
तथापि कथमतिशयोक्तिरूपत्वमत आह–लोकोत्तरतैवातिशय इति ।
फलितमाह–तेनेति ।
अनयेत्यादिभागं विवृणोति–तथाहीत्यादि ।
तथाहीति ।
वक्ष्यमाणमुक्तोपपादकमित्यर्थः ।
सकलेति ।
पुराणीकृतः अनास्वाद्यतां नीतः ।
विशब्दार्थविवरणं विचित्रतयेति ।
नवनवविशेषशालितयेत्यर्थः ।
भाव्यते निष्पाद्यते ।
यथाहुः–”स्वभावश्चायमर्थानां यन्न साक्षादमी तथा ।
स्वदन्ते सत्कविगिरां गात गोचरतां यथे”ति ।
अर्थद्वयञ्चान्यद्विभाव्यत इत्यनेन विवक्षितमिति दर्शयति–तथेत्यादि ।
प्रमदोद्यानादिरिति त्वलङ्कारमात्रतैवेति सर्वालङ्कारशरीरस्वीकरणयोग्यत्वेनाभेदोपचारात्सैव सर्वालङ्काररूपेत्ययमेवार्थोऽवगन्तव्यः ।
तस्याश्चालङ्कारान्तरसंकीर्णत्वं <<लोचनं>> विशेषेण च भाव्यते रसमयीक्रियते, इति तावत्तेनोक्तं, तत्र कोऽसावर्थ इत्यत्राह अभेदोपचारात्सैव सर्वालङ्काररूपेति ।
उपचारे निमित्तमाह–सर्वालङ्कारेति ।
उपचारे प्रयोजनमाह–अतिशयोक्तिरित्यादिना अलङ्कारमात्रतैवेत्यन्तेन ।
मुख्यार्थबाधोऽप्यत्रैव दर्शितः कविप्रतिभावशादित्यादिना ।
अयं भावः—यदि तावदतिशयोक्तेः सर्वालङ्कारेषु सामान्यरूपता सा तर्हि तादात्म्यपर्यवसायिनीति तद्य्वतिरिक्तो नैवालङ्कारो दृश्यत इति कविप्रतिभानं न तत्रापेक्षणीयं स्यात् ।
यदा वक्रोक्तिं विना व्यङ्ग्योऽर्थस्तात्पर्येण प्रतीयते तदा तस्य प्राधान्यं ।
8. Kuntaka: Vakroktijivita, with auto-commentary (950-1050)
अभावेतावलङ्कार्यौ तयोः पुनरलङ्कृतिः ।
वक्रोक्तिरेव वैदग्ध्यभङ्गीभणितिरुच्यते । । सूत्र १.१० । ।
उभौ द्वावप्येतौ शब्दार्थावलङ्कार्यावलङ्करणीयौ केनापि शोभातिशयकारिणालङ्करणेन योजनीयौ ।
किं तत्तयोरलङ्करणमित्यभिधीयते—तयोः पुनरलङ्कृतिः ।
तयोर्द्वित्वसंख्याविशिष्टयोरप्यलङ्कृतिः पुनरेकैव, यया द्वावप्यलङ्क्रियते ।
कासौ—वक्रोक्तिरेव ।
वक्रोक्तिः प्रसिद्धाभिधानव्यतिरेकिणी विचित्रैवाभिधा ।
कीदृशी—वैदग्ध्यभङ्गीभणितिः ।
वैदग्ध्यं विदग्धभावः कविकर्मकौशलं तस्य भङ्गी विच्छित्तिः, तया भणितिः विचित्रैवाभिधा वक्रोक्तिरित्युच्यते ।
तदिदमत्र तात्पर्यम्—यत्शब्दार्थौ पृथगवस्थितौ न८१ केनापि व्यतिरिक्तेनालङ्करणेन योज्येते, किन्तु वक्रतावैचित्र्ययोगितयाभिधानमात्र८२ मवानयोरलङ्कारः, तस्यैव शोभातिशयकारित्वात् ।
एतच्च वक्रताव्याख्यानावसर एवोदाहरिष्यते ।
ननु च किमिदं प्रसिद्धार्थविरुद्धं प्रतिज्ञायते यद्वक्रोक्तिरेवालङ्कारो नान्यः कश्चिदिति, यतश्चिरन्तनैरपरं स्वभावोक्तिलक्षणमलङ्करणमाम्नातं तच्चातीवरमणीयमित्यसहमानस्तदेव निराकर्तुमाह—
वाच्यवाचकवक्रोक्तित्रितयातिशयोत्तरम् ।
तद्विदाह्लादकारित्वं किमप्यामोदसुन्दरम् । । सूत्र १.२३ । ।
तद्विदाह्लादकारित्वं काव्यविदानन्दविधायित्वम् ।
कीदृशम्— वाच्यवाचकवक्रोक्तित्रितयातिशयोत्तरम् ।
वाच्यमभिधेयं वाचकः शब्दो वक्रोक्तिरलङ्करणम्, एतस्य त्रितयस्य योऽतिशयः कोऽप्युत्कर्षस्तस्मादुत्तरमतिरिक्तम् ।
स्वरूपेणातिशयेन च स्वरूपेणान्यत्किमपि तत्त्वान्तरमेतदतिशयेनैतस्मात्त्रितयादपि लोकोत्तरमित्यर्थः ।
अन्यच्च कीदृशम्—किमप्यामोदसुन्दरम् ।
किमप्यव्यपदेश्यं सहृदयहृदयसंवेद्यं आमोदः सुकुमारवस्तुधर्मो रञ्जकत्वं नाम, तेन सुन्दरं रञ्जकत्वरमणीयम् ।
यथा
हंसानां निनदेषु यैः कवलितैरासज्यते कूजता- मन्यः कोऽपि कषायकण्ठलुठनादाघर्घरो विभ्रमः ।
ते संप्रत्यकठोरवारणवधूदन्ताङ्कुरस्पर्धिनो निर्याताः कमलाकरेषु बिसिनीकन्दाग्रिमग्रन्थयः । । टीका १.७३ । ।
अत्र त्रितयेऽपि वाच्यवाचकवक्रोक्तिलक्षणे प्राधान्येन न कश्चिदपि कवेः संरम्भो विभाव्यते ।
किन्तु प्रतिभावैचित्र्यवशेन किमपि तद्विदाह्लादकारित्वमुन्मीलितम् ।
यद्यपि सर्वेषामुदाहरणानामविकलकाव्यलक्षणपरिसमाप्तिः संभवति तथापि यत्प्राधान्येनाभिधीयते स एवांशः प्रत्येकमुद्रिक्ततया तेषां परिस्फुरतीति सहृदयैः स्वयमेवोत्प्रेक्षणीयम् ।
एवं काव्यसामान्यलक्षणमभिधाय तद्विशेषलक्षणविषयप्रदर्शनार्थं मार्गभेदनिबन्धनं त्रैविध्यमभिधत्ते—
अक्लेशव्यञ्जिताकूतं झगित्यर्थसमर्पणम् ।
रसवक्रोक्तिविषयं यत्प्रसादः स कथ्यते । । सूत्र १.३१ । ।
झगिति प्रथमतरमेवार्थसमर्पणं वस्तुप्रतिपादनम् ।
कीदृशम्— अक्लेशव्यञ्जिताकूतं अकदर्थनाप्रकटिताभिप्रायम् ।
किंविषयम्—रसवक्रोक्तिविषयम् ।
रसाः शृङ्गारादयः, वक्रोक्तिः सकलालङ्कारसामान्यं विषयो यस्य तत्तथोक्तम् ।
स एव प्रसादाख्यो गुणः कथ्यते भण्यते ।
अत्र पदानामसमस्तत्वं प्रसिद्धाभिधानत्वं अव्यवहितसंबन्धत्वं समाससद्भावेऽपि गमकसमासयुक्तता च परमार्थः ।
“आकूतऽ- शब्दस्तात्पर्ये विच्छित्तौ च वर्तते ।
उदाहरणं यथा
हिमव्यपायाद्विशदाधराणा- मापाण्डुरीभूतमुखच्छवीनाम् ।
स्वेदोद्गमः किंपुरुषाङ्गनानां चक्रे पदं पत्रविशेषकेषु । । टीका १.८२ । ।
अत्रासमस्तत्वादिसामग्री विद्यते ।
यदपि विविधपत्रविशेषकवैचित्र्यविहितं किमपि वदनसौन्दर्यं मुक्ताकणाकारस्वेदलवोपबृंहितं तदपि सुव्यक्तमेव ।
यथा वा
अनेन सार्धं विहराम्बुराशेस्तीरेषु ताडीवनमर्मरेषु ।
द्वीपान्तरानीतलवङ्गपुष्पैरपाकृतस्वेदलवा मरुद्भिः । । टीका १.८३ । ।
अलङ्काख्यक्तिर्यथा
बालेन्दुवक्राणि इति । । टीका १.८४ । ।
विचित्रो यत्र वक्रोक्तिवैचित्र्यं जीवितायते ।
परिस्फुरति यस्यान्तः सा काप्यतिशयाभिधा । । सूत्र १.४२ । ।
9. Mammata: Kavyaprakasa (11th century)
यदुक्तमन्यथा वाक्यमन्यथान्येन योज्यते ।
श्लेषेण काक्वा वा ज्ञेया सा वक्रोक्तिस्तथा द्विधा । । ७८ । ।
तथेति श्लेषवक्रोक्तिः काकुवक्रोक्तिश्च । तर पदभङ्गश्लेषेण यथा
{नारीणामनुकूलमाचरसि चेज्जानासि कश्चेतनो
वामानां प्रियमादधाति हितकृन्नैवाबलानां भवान् ।
युक्तं किं हितकर्तनं ननु बलाभावप्रसिद्धात्मनः
सामर्थ्यं भवतः पुरन्दरमतच्छेदं विधातुं कुतः । ।३५२ । ।}
%<(ङोविन्दठक्कुरऽस्काव्यप्रदीप)>%
अभङ्गश्लेषेण यथा
{अहो केनेदृशी बुद्धिर्दारुणा तव निर्मिता ।
त्रिगुणा श्रूयते बुद्धिर्न तु दारुमयी क्वचित् । ।३५३ । ।}
%<(ऱुय्यकऽसालङ्कारसर्वस्व)>%
काक्वा यथा
{गुरुजनपरतन्त्रतया दूरतरं देशमुद्यतो गन्तुं ।
अलिकुलकोकिलललिते नैष्यति सखि सुरभिसमयेऽसौ । ।३५४ । ।७८ । ।}
%<(श्रिवत्सलाञ्छनाचार्यऽस्काव्यपरीक्षा १९१)>%
10. Mammata: Kavyaprakasa [Karikavali]
यदुक्तमन्यथा वाक्यमन्यथान्येन योज्यते ।
श्लेषेण काक्वा वा ज्ञेया सा वक्रोक्तिस्तथा द्विधा । । ७८ । ।
11. Vamanacarya Ramabhatta Jhalakikar’s Balabodhini commentary
#<यदुक्तमन्यथा वाक्यमन्यथान्येन योज्यते ।
श्लेषेण काक्वा वा ज्ञेया सा वक्रोक्तिस्तथा द्विधा । ।७८ । ।>#
तथेति श्लेषवक्रोक्तिः काकुवक्रोक्तिश्व ।
तत्र पदभङ्गश्लेषेण यथा नारीणामनुकूलमाचरसि चेज्जानासि कश्वेतनो वामानां प्रियमादधाति हितकृन्नैवाबलानां भवान् ।
युक्तं किं हितकर्तनं ननु बलाभावप्रसिद्धात्मनः सामर्थ्यं भवतः पुरन्दरमतच्छेदं विधातुं कुतः । । ३५२ । ।
अभङ्गश्लेषेण यथा अहो केनेदृशी बुद्धिर्वारुणा तव निर्मिता ।
त्रिगुणा श्रूयते बुद्धिर्न तु दारुमयी क्वचित् । । ३५३ । ।
काक्वा यथा गुरुजनपरतन्त्रतया दूरतरं देशमुद्यतो गन्तुं ।
अलिकुलकोकिलललिते नैष्यति सखि सुरभिसमयेऽसौ । । ३५४ । ।
12. Nagesh Bhatta: Udyota commentary on kavyaprakasha (18th century)
13. Govinda Thakkura: Pradipa commentary on kavyaprakasha (1400-1500)
14. Baidyanatha Tatsat: prabha commentary on kavyaprakasha
15. Bhimsena Dikshita – sudhasagar commentary on Kavyaprakasha
16. Rajasekhara: Kavyamimamsa (10th century)
वाक्यविधयः, काकुप्रकाराः, पाठप्रतिष्ठा वाक्यं वचनमिति व्यवहरन्ति ।
तच्च त्रिधा प्रणेतृभेदेन ब्राह्यं, शैवं, वैष्णवमिति ।
तदिदं वायुप्रोक्तपुराणादिभ्य उपलब्धं यदुत ब्राह्यं वचः पञ्चधा स्वायम्भुवमैश्वरमार्षमार्षीकपुत्रकं च ।
स्वयम्भूर्ब्रह्मा तस्य स्वायम्भुवम् ।
तन्मनोजन्मानो भृगुप्रभृतयः पुत्रास्ते ईश्वरास्तेषामैश्वरं ।
ईश्वराणां सुता ऋषयस्तेषामार्षं ।
ऋषीणामपत्यानि ऋणीकास्तेषामार्षीकं ।
ऋषीकाणां सूनव ऋषिपुत्रकास्तेषामार्षिपुत्रकं ।
स्वयम्भुवः प्रथमं वचः श्रुतिः, श्रुतेरन्यञ्च स्वायम्भुवम् ।
तदाहुः-
“सर्वभूतात्मकं भूतं परिवादं च यद्भवेत् ।
क्वचिन्निरुक्तमोक्षार्थं वाक्यं स्वायम्भुवं हि तत्” । ।
तदेव स्तोकरुपान्तरपरिणतमैश्वरं वचः ।
उक्तञ्च-
“व्यक्तक्रममसंक्षित्पं दीत्पगम्भीरमर्थवत् ।
प्रत्यक्षं च परोक्षं च लक्ष्यतामैश्वरं वचः” । ।
आर्षम्-
“यत्किञ्चिन्मन्त्रसंयुक्तं युक्तं नामविभक्तिभिः ।
प्रत्यक्षाभिहितार्थं च तदृषोणां वचः स्मृतम्” । ।
आर्षीकम्-
“नैगमैर्विविधैः शब्दैर्निपातबहुलं च यत् ।
न चापि सुमहद्वाक्यमृषीकाणां वचस्तु तत्” । ।
आर्षिपुत्रकम्-
“अविस्पष्टपदप्रायं यच्च स्याद्वहुसंशयम् ।
ऋषिपुत्रवचस्तत्स्यात्ससर्वपरिदेवनम्” । ।
तदुदाहरणानि पुराणेभ्य उपलभेत ।
सारस्वताः कवयो नः पूर्वे इत्थङ्कारं कथयन्ति ।
ब्रह्मविष्णुरुद्रगुहबृहस्पतिभार्गवादिशिष्येषु चतुःषष्टावुपदिष्टं वचः पारमेश्वरं ।
क्रमेण च सञ्चरद्देवैर्देवयोनिभिश्च यथामत्युपजीव्यमानं दिव्यमिति व्यपदिश्यते ।
देवयोनयस्तु-
“विद्याधरोप्सरोयक्षरक्षोगन्धर्वकिन्नराः ।
सिद्धगुह्यकभूताश्च पिशाचा देवयोनयः” । ।
तत्र पिशाचादयः शिवानुचराः स्वभूमौ संस्कृतवादिनः, मर्त्ये तु भूतभाषया व्यवहरन्तो निबन्धनीयाः ।
अत्सरसस्तु प्राकृतभाषया ।
तद्दिव्यं वचश्चतुर्द्धा ।
वैबुधं वैद्याधरं गान्धर्वं योगिनीगतं च ।
शेषाणामेतेष्वेवोपलक्षणं प्रकृतिसादृश्येन ।
तत्र वैबुधम्-
“समासव्याससंदृब्धं शृङ्गाराद्भुतसम्भृतम् ।
सानुप्रासमुदारं च वचः स्यादमृताशिनाम्” । ।
यथा-
“यञ्चन्द्रकोटिकरकोरकभारभाजि बभ्राम बभ्रुणि जटाकुहरे हरस्य ।
तद्वः पुनातु हिमशैलशिलानिकुञ्ज-भ्फात्कारडम्बरविरावि सुरापगाम्भः । ।
” वैद्याधरम्-
“स्तोकानुप्राससच्छायं चतुरोक्ति प्रसादि च ।
द्राधीयसा समासेन विद्धि वैद्याधरं वचः । ।
” यथा-
“प्रणतसुरकिरीटप्रांशुरत्नांशुवंशच्छुरित-नखशिखाग्रोद्भासमानारुणाङ्घ्रे ।
उदिततरणिवृन्दोद्दामधामोर्ध्वनेत्र-ज्वलननिकरदग्धानङ्गमूर्ते नमस्ते” । ।
यथा वा-
“भ्रमति भ्रमरकरविम्बतनन्दरवनचम्पकस्तबकगौरः ।
वात्याहत इव वियति स्फुटलक्ष्मा रोहणीरमणः” । ।
गान्धर्वम्-
“ह्रस्वैः समासैर्भूयोभिर्विभूषितपदोच्चया ।
तत्त्वार्थग्रथनग्राह्या गन्धर्वाणां सरस्वती” । ।
यथा-
“नमः शिवाय सोमाय सगणाय ससूनवे ।
सवृषव्यालशूलाय सकपालय सेन्दवे” । ।
योगिनीगतम्-
“समासरुपकप्रायं गम्भीरार्थपदक्रमम् ।
सिद्धान्तसमयस्थायि योगिनीनामिदं वचः” । ।
यथा-
“दुःखेन्धनैकदहनामृतवर्शषमेघ? संसारकूपपतनैकरावलंब? ।
योगीन्द्रदर्पण? जगद्गतकृत्स्नतेजः-प्रत्यक्षचौरवर? वीरपते? नमस्ते” । ।
महाप्रभावत्वाद्भौजङ्गममपि दिव्यमित्युपचर्यते ।
“प्रसन्नमधुरोदात्तसमासव्यासभागवत् ।
अनोजस्विपदप्रायं वचो भवति भोगिनाम्” । ।
यथा-
“सुसर्जितां श्रोतसुखां सुरुपामनेकरत्नोज्ज्वलचित्रिताङ्गीं ।
विद्याधरेन्द्रः प्रतिगृह्य वीणां पिनाकिने गायति मङ्गलानि” । ।
“किमर्थं पुनरनुपदेश्ययोर्ब्राह्यपारमेश्वरयोर्वाक्यमार्गयोरुपमन्यासः?” इत्याचार्याः ।
“सोऽपि कवीनामुपदेशपरः” इति यायावरीयः ।
यतो नाटकादावीश्वरादीनां देवानां च प्रवेशे तच्छायावन्ति वाक्यानि विधेयानीति दिव्यं ।
इह हि प्रयोवादो यदुत मर्त्यावतारव्यवहाररुचेर्भगवतो वासुदेवस्य वचो वैष्णवं तन्मानुषमिति व्यपदिशन्ति ।
तच्च त्रिधा रीतित्रयभेदेन ।
तदाहुः-
“वैदर्भी गौडीया पाञ्चाली चेति रीतयस्तिस्रः ।
आशु च साक्षान्निवसति सरस्वती तेन लक्ष्यन्ते” । ।
रीतिरुपं वाक्यत्रितयं काकुः पुनरनेकयति ।
“काकुर्वक्रोक्तिर्नाम शब्दालङ्कारोयम्” इति रुद्रटः । ।
“अभिप्रायावान्पाठधर्मः काकुः, स कथमलङ्कारी स्यात्?” इति यायावरीयः ।
सा च द्विधा साकाङ्क्षा निराकाङ्क्षा च ।
वाक्यान्तराकाङ्क्षिणी साकाङ्क्षा, वाक्योत्तरभाविनी निराकाङ्क्षा ।
तदेव वाक्यं काकुविशेषेण साकाङ्क्षं ।
तदेव काकुमन्तरेणनिराकाङ्क्षम् ।
आक्षेपगर्भा, प्रश्नगर्भा, वितर्कगर्भा चेति साकाङ्क्षा ।
विधिरुपा, उत्तररुपा, निर्णयरुपेति निराकाङ्क्षा ।
तत्राक्षेपगर्भा-
“यदि मे वल्लभा दूती तदाहमपि वल्लभा ।
यदि तस्याः प्रिया वाचः तन्ममापि प्रियप्रियाः” । ।
एवमेव निर्देष्टुर्विधिरुपा ।
प्रश्नगर्भा-
“गतः स कालो यत्रासीन्मुक्तानां जन्म वल्लिषु ।
वर्त्तन्ते साम्प्रतं तासां हेतवः शुक्तिसम्पुटाः” । ।
इयमेवोपदेष्टिरुत्तररुपा ।
वितर्कगर्भा-
“नवजलधरः सन्नद्धोऽयं न दृत्पनिशाचरः सुकधनुरिदं दूराकृष्टं न नाम शरासनम् ।
अयमपि पटुर्धारासारो न बाणपरम्परा कनकनिकषस्निग्धा विद्युत्प्रिया न ममोर्वशी” । ।
इयमेवोपदेष्टुर्निर्णयरुपा ।
ता इमास्तिस्रोऽपि नियतनिबन्धाः ।
तद्विपरीताः पुनरनन्ताः ।
तत्राभ्युपगमानुनयकाकू-
“युष्मच्छासनलङ्घनाम्भसि मया मग्नेन नाम स्थितं प्रात्पा नाम विगर्हणा स्थितिमतां मध्येऽनुजामामपि ।
क्रोधोल्लासितशोणितारुणगदस्योच्छिन्दतः कौरवा-नद्यैकं दिवसं ममासि न गुरुर्नाहं विधेयस्तव” । ।
अभ्यनुज्ञोपहासकाकू-
“मथ्नामि कौरवशतं समरे न कोपाद्दुःशासनस्य रुधिरं न पुबाम्युरस्तः ।
सञ्चूर्णयामि गदया न सुयोधनोरु सन्धिं करोतु भवतां नृपतिः पणेन” । ।
एवं त्रिचतुरकाकुयोगोऽपि ।
तत्र त्रियोगः-
“सेयं पश्यति नो कुरङ्गकवधूस्त्रस्तैवमरद्वीक्षते तस्याः पाणिरयं न मारुतवलत्पत्राङ्गुलिः पल्लवः ।
तारं रोदिति सैव नैष मरुता वेणुः समापूर्यते सेयं मामभिभाषते प्रियतमा नो कोकिलः कूजति” । ।
चदुर्योगः-
“उच्यतां स वचनीयमशेषं नेश्वरे परुषता सखि सार्ध्वी ।
आनयैनमनुनीय कथं वा विप्रियाणि जनयन्ननुनेयः” । ।
“सख्या वा नायिकाया वा सखीनायिकयोरथ ।
सखीनां भूयसीनां वा वाक्ये काकुरिह स्थिता” । ।
पदवाक्यविदां
मार्गो योऽन्यथैव व्यवस्थितः ।
स त्वाङ्गाभिनयद्योत्या तं काकुः कुरुतेऽन्यथा । ।
अयं काकुकृतो लोके व्यवहारो न केवलम् ।
शास्त्रेष्वप्यस्य साम्राज्यं काव्यस्याप्येष जीवितं । ।
कामं विवृणुते काकुरर्थान्तरमतन्द्रिता ।
स्फुटीकरोति तु सतां भावाभिनयचातुरीं । ।
इत्थं कविर्निबध्नीयादित्थं च मतिमान्पठेत् ।
यथा निबन्धनिगदश्छायां काञ्चिन्निषिञ्चति । ।
करोति काव्यं प्रायेण संस्कृतात्मा यथा तथा ।
पठितुं वेत्ति स परं यस्य सिद्धा सरस्वती । ।
यथा जन्मान्तराभ्यासात्कण्ठे कस्यापि रक्तता ।
तथैव पाठसौन्दर्यं नैकजन्मविनिर्मितं । ।
ससंस्कृतमपभ्रंशं लालित्यालिङ्गितं पठेत् ।
प्राकृतं भूतभाषां च सौष्ठवोत्तरमुद्गिरेत् । ।
प्रसन्ने मन्द्रयोद्वाचं तारयेत्तद्विरोधिनि ।
मन्द्रतारौ च रचयेन्निर्वाहिणि यथोत्तरं । ।
ललितं काकुसमन्वितमुज्ज्वलमर्थवशकृतपरिच्छेदं ।
श्रुतिसुखविविक्तवर्णं कवयः पाठं प्रशंसन्ति । ।
अतितूर्णमतिविलम्बितमुल्बणनादं च नादहीनं च ।
अपदच्छिन्नमनावृतमतिमृदुपरुषं च निन्दन्ति । ।
गम्भीरत्वमनैश्चर्यं निर्व्यूढिस्तारमन्द्रयोः ।
संयुक्तवर्णलावण्यमिति पाठगुणाः स्मृताः । ।
यथा व्यघ्री हरेत्पुत्रान्दंष्ट्राभिश्च न पीडयेत् ।
भीता पतनभेदाभ्यां तद्वदूर्णान्प्रयोजयेत् । ।
विभक्तयः स्फुटा यत्र समासश्चाकदर्थितः ।
अम्लानः पदसन्धिश्च तत्र पाठः प्रतिष्ठितः । ।
न व्यस्तपदयोरैक्यं न भिदां तु समस्तयोः ।
न चाख्यातपदम्लानिं विदधीत सुधीः पठन् । ।
आगोपालकमायोषिदास्तामेतस्य लेह्यता ।
इत्थं कविः पठन्काव्यं वाग्देव्या अतिवल्लभः । ।
येऽपि शब्दविदो नैव नैव चार्थविचक्षणाः ।
तेषामपि सतां पाठः सुष्ठु कर्णरसायनं । ।
पठन्ति संस्कृतं सुष्ठु कुण्ठाः प्राकृतवाचि तु ।
वाराणसीतः पूर्वेण ये केचिन्मगधादयः” । ।
आह स्म-
“ब्रह्मन्विज्ञापयामि त्वां स्वाधिकारजिहासया ।
गौडस्त्यजतु वा गाथामन्या वास्तु सरस्वती । ।
नातिस्पष्टो न चाश्लिष्टो न रुक्षो नातिकोमलः ।
न मद्रो नातितारश्च पाठी गौडेषु वाडवः । ।
रसः कोऽप्यस्तु काप्यस्तु रीतिः कोऽप्यस्तु वा गुणः ।
सगर्वं सर्वकर्णाटाष्टङ्कारोत्तरपाठिनः । ।
गद्ये पद्येऽथवा मिश्रे काव्ये काव्यमना अपि ।
गेयगर्भे स्थितः पाठे सर्वोऽपि द्रविडः कविः । ।
पठन्ति लटभं लाटाः प्राकृतं संस्कृतद्विषः ।
जिह्वया ललितोल्लापलब्धसौन्दर्यमुद्रया । ।
सुराष्ट्रत्रवणाद्या ये पठन्त्यर्पितसौष्ठवं ।
अपभ्रंशावदंशानि ते संस्कृतवचांस्यपि । ।
शारतायाः प्रसादेन काश्मीरः सुकविर्जनः ।
कर्णो गुडूचीगण्डूषस्तेषां पाठक्रमः किमु ? । ।
ततः पुरस्तात्कवयो ये भवन्त्युत्तरापथे ।
ते महात्यपि संस्कारे सानुनासिकपाठिनः । ।
मार्गानुगेन निनदेन निधिर्गुणानां सम्पूर्णवर्णरचनो यतिभिर्विभक्तः ।
पाञ्चालमण्लभ्रुवां सुभगः कवीनां श्रोत्रे मधु क्षरति किञ्चन काव्यपाठः । ।
ललल्लकारया जिह्वां जर्जरस्फाररेफया ।
गिरा भुजङ्गाः पूज्यन्ते काव्यभाव्यधियो न तु । ।
पञ्चस्थानमुद्भववर्णेषु यथास्वरुपनिष्पत्तिः ।
अर्थवशेन च विरतिः सर्वस्वमिदं हि पाठस्य” । ।
सकाकुकलना पाठप्रतिष्टेयं प्रतिष्ठिता ।
अर्थानुशासनस्याथ प्रकारः परिकीर्त्त्यन्ते । ।
इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमेऽधिकरणे सत्पमोऽध्यायः वाक्यविशेषाः काकुकलना पाठप्रतिष्ठा च । ।
17. Rudrabhatta: Srngaratilaka (1000 AD)
सा धीरा वक्ति वक्रोक्त्या प्रियं कोपात्कृतागसम् ।
मध्या रोदित्युपालम्भैरधीरा परुषं यथा । । १.४१ । ।
उपेत्य तां दृढपरिरम्भलालस
श्चिरादभूः प्रमुपितचारुचन्दनः ।
धृताञ्जनः सपदि तदक्षिचुम्बना
दिहैव ते प्रिय विदिता कृतार्थता । । १.४१अ । ।
यत्रार्कायितं इन्दुना सरसिजैरङ्गारपुञ्जायितं
क्रुद्धायां मयि नाथ ते कदलिकाकाण्डैरलातायितम् ।
कालोऽन्यः खलु कोऽपि सोऽमृतमयो जातो विषात्माधुना
धिक्त्वां धूर्त विनिर्यदश्रुरबला मोहं रुदन्ती गता । । १.४१ब् । ।
सार्धं मनोरथशतैस्तव धूर्त कान्ता
सैव स्थिता मनसि कृत्रिमभावरम्या ।
अस्माकं अस्ति न हि कश्चिदिहावकाशस्
तस्मात्कृतं चरणपातविडम्बनाभिः । । १.४१च् । । (Sकं ५८७, प्व्२१८)
18. Ruyyaka [Rajanaka]: Alamkarasarvasva, Sutras 1-34 (1150)
19. Jayaratha’s Vimarsini ((1150-1200 AD)
20. Vidyacakravartin’s Samjivani
#<अन्यथोक्तस्य वाक्यस्य काकुश्लेषाभ्यां अन्यथा योजनं वक्रोक्तिः । । ऱुआस्स्_७७ । ।>#
एकाभिप्रायेणोक्तस्य वाक्यस्य काकुश्लेषाभ्यां अन्यथाभिप्रायेण योजनं वक्रोक्तिः ।
ससङ्गतिकं व्याचष्टे-उक्तिव्यपदेशेति ।
गुरुपरतत्रेति ।
दूरतरं गन्तुमुद्यत इति नायिकोक्तिरसौ ।
गुरुपरतन्त्रतया असौ गुरुपरता समयेऽस्मिन्नैष्यति न नेष्यतीति काकुगर्भसख्युक्तिः ।
योजयति-एतद्वाक्यमिति ।
ननु गमनविधिनिषेधौ शाब्दौ ।
तस्माद्रमननिषेधविधिर्योजितौ ।
अत आह-काकुवशेतिर् ।
इदृशि विषये काकोर्निषेधद्योतकत्वात्विपरीतार्थसंक्रान्तिः ।
अहो केनेति-दारुणा घोरा काष्ठेन च ।
योजयति-अत्रेति ।
त्वं हालाहलेति ।
हालाहलवान्मूर्छ्रां करोषीति देवी ।
देवस्तु हालां सुरां न विभर्मि नापि च हलं सीरं ।
किंहलवत्तया हालिकोऽसि इति पुनर्देवी ।
गोवाहने शक्तस्यहालिकतैव सत्यमिति ।
अत्र हालाहलेति सभङ्गश्लेषः ।
विजय इति ।
कुलकात्मकं वाक्यं ।
विजये इति देवीकर्तृकं विजयासंबोधनं ।
देवस्योक्तौ जित्वरतायां शक्तोऽस्मि ।
न तु त्र्यक्षोऽहमक्षद्वयसद्भावादिति ।
अक्ष शब्दःपाशवचनः ।
किं म इति देव्याह ।
दुरोदरेण लम्बोदरेण नार्थश्चेत्गणपतिपरसरतु ।
देव्याह-को द्वेष्टि विनायकम्? देव आह-अहिलोक इति ।
इह विनायको गरुडः ।
चन्द्रेति ।
चन्द्रग्रहणेन इन्दु पणेन विना न रमे इति देवी ।
देवस्तु चन्द्रग्रहणापेक्षा चेद्राहुराहूयतां ।
हा राहाविति ।
राहौस्थिते हा! कस्य रकिरिति देवी ।
देवस्तु हारारगोऽपनीयतामिति ।
वस्तुरहितेनेति ।
वसुद्रविणां वसवोऽष्टौच ।
आरोपयसीति ।
अङ्कः अङ्कनञ्चनञ्चलनं उत्सङ्गश्च ।
इति(कृत)पशुपतिपिति ।
पाशका अक्षाः ।
ननु विच्छित्तिरूपत्वात्सर्व एवालङ्कारो वक्रोक्तिरित्यत आह-वक्रोक्तीति ।
अन्यथा योजनं वाक्ये वक्रोक्तिरभिधीयते ।
द्विप्रकारा च विज्ञेया काकुश्लेषसमाश्रयात् । ।
21. Jayadeva [alias Piyusavarsa]: Candraloka (1200 AD)
वक्रोक्तिः श्लेषकाकुभ्यां वाच्यार्थान्तरकल्पनम् ।
मुञ्च मानं दिनं प्राप्तं मन्द नन्दी हरान्तिके । । ५.११० । ।
22. Visvanatha kaviraja: Sahityadarpana ) (1384 AD)
#<अन्यस्यान्यार्थकं वाक्यमन्यथा योजयेद्यदि ।
अन्यः श्लेषेण काक्वा वा सा वक्रोक्तिस्ततो द्विधा । । सूत्र १०.९ । ।>#
द्विधेति श्लेषवक्रोक्तिः काकुवक्रोक्तिश्च ।
क्रमेणोदाहरणम्–
“के यूयं स्थल एव सम्प्रति वयं प्रश्नो विशेषाश्रयः किं ब्रूते विहगः स वा फणिपतिर्यत्रास्ति सुप्तो हरिः ।
वामा यूयमहो विडम्बरसिकः कदृक्स्मरो वर्तते येनास्मासु विवेकशून्यमनसः पुंस्वेव योषिद्रभ्रमः” । ।
अत्र विशेषपदस्य “विः पक्षी” “शेषो नागः” इत्यर्थद्वययोग्यत्वात्सभङ्गश्लेषः ।
अन्यत्र त्वभङ्गः ।
“काले कोकिलवाचाले सहकारमनोहरे ।
कृतागसः परित्यागात्तस्याश्चेतो न दूयते” । ।
अत्र कयाचित्सख्या निषेधार्थे नियुक्तो नञ् अन्यथा काक्वा दूयत एवेति विध्यर्थे घटितः ।
23. Mahesvarabhatta’s Vijnapriya and 24. Anantadasa’s Locana (1400)
#<अन्यस्यान्यार्थकं वाक्यमन्यथा योजयेद्यदि ।
अन्यः श्लेषेण काक्वा वा सा वक्रोक्तिस्ततो द्विधा । । साहित्यदर्पण १०.९ । ।>#
द्विधेति श्लेषवक्रोक्तिः काकुवक्रोक्तिश्च ।
************* टीका *************
#<विज्ञप्रियाः>#
(वि, क) वक्रोक्त्यलङ्कारमाह—अन्यस्य वक्तुरन्यार्थकं वाक्यं अन्यः श्रोता तद्वाक्यश्लेषेण स्ववाक्यकाक्का वान्याभिप्रायकतया यदि योजयेद्योजनविशिष्टं प्रत्याययेत्तदा सा द्विधा वक्रोक्तिरित्यर्थः ।
द्विधात्वं दर्शयति—श्लेषेति ।
#<लोचनाः>#
(लो, ओ) अन्यस्यति ।
अन्येन केनचिदन्यार्थकत्वेनोक्तं ।
तदितरेण सभङ्गेनाभङ्गेन वा श्लेषण, काक्का, स्वरविशेषेण वा यदि यथार्थतोऽन्यार्थत्वेन प्रयोज्यते सा वक्रोक्तिः ।
ततः श्लेषकाकुरुपोपाधिद्वययोगाद्द्विविधेत्यर्थः ।
********** टीका संपूर्णा **********
क्रमेणोदाहरणम्–
“के यूयं स्थल एव सम्प्रति वयं प्रश्नो विशेषाश्रयः किं ब्रूते विहगः स वा फणिपतिर्यत्रास्ति सुप्तो हरिः ।
वामा यूयमहो विडम्बरसिकः कदृक्स्मरो वर्तते येनास्मासु विवेकशून्यमनसः पुंस्वेव योषिद्रभ्रमः” । ।
************* टीका *************
#<विज्ञप्रियाः>#
(वि, ख) के यूयमिति ।
अविज्ञातनामजातिकं कञ्चित्प्रति अयं वक्तुः प्रश्रः ।
पृष्टः पुरुषश्च विद्रावकः स तद्वाक्यं तद्वाक्यश्लेषेण के जले यूयं इत्यभिप्रायकं स्थले एवेत्यादि स्वोत्तरेण प्रत्याययति ।
पूर्ववक्ता त्वाह–प्रश्र इति ।
त्वदयिनामजातिरूपविशेषविषय इत्यर्थः ।
श्रोता तु विः पक्षी, शेषोऽनन्तनागस्तदाश्रयस्तद्द्वयोः प्रश्र इत्यर्थकतां स्वोत्तरेण प्रत्याययति—किं व्रूते इति ।
यत्र वौ गरुडे हरिरस्ति, यत्र शेषेऽनन्ते हरिः शेते इत्यर्थः ।
प्रष्टा तत्श्रुत्वा क्रोधादाह—वामा विपरीतबाद्धृत्वेन प्रतीकूला यूयमिति ।
श्रोता तु यूयं वामाः स्त्रियः इत्यभिप्रायकतां प्रत्याययन्तं निन्दति—अहो विडम्बेति ।
विडम्बो विडम्बनं वर्त्तते त्वयीति शेषः ।
विवेकशून्यमनसस्तवेति शेषः ।
अस्मासु पुंसु इत्यन्वयः ।
अत्र श्लेषं सभङ्गभङ्गपदयोर्दर्शयति—अत्रेति ।
#<लोचनाः>#
(लो, औ) के किमाख्याः ? जले च ।
विशेषो वैधर्म्यं, विः पश्री, शेषो नागश्च ।
वामा वक्राः स्त्रियश्च ।
विडम्बरसिकः विडम्बे रसिकः सकौतुकः ।
********** टीका संपूर्णा **********
अत्र विशेषपदस्य “विः पक्षी” “शेषो नागः” इत्यर्थद्वययोग्यत्वात्सभङ्गश्लेषः ।
अन्यत्र त्वभङ्गः ।
“काले कोकिलवाचाले सहकारमनोहरे ।
कृतागसः परित्यागात्तस्याश्चेतो न दूयते” । ।
अत्र कयाचित्सख्या निषेधार्थे नियुक्तो नञ् अन्यथा काक्वा दूयत एवेति विध्यर्थे घटितः ।
************* टीका *************
#<विज्ञप्रियाः>#
(वि, ग) काक्का योजनमाह–काले इति ।
क्रोधान्नायिकया परित्यक्तस्य कृतामसो नायकस्य आश्वासजनकसखीं प्रति सख्या उक्तिरियं ।
कोकिला वाचाला यत्र इति विग्रहः ।
सहकारं तत्पुष्पं ।
अत्रैकयेति ।
यद्यपि तत्प्रयुक्तं वाक्यं न श्रुतमस्ति यदन्तर्गतः नञ् निषेधार्थक. स्यात् ।
अतोऽस्य काले इत्यादिवाक्यस्य काक्का योजनया तदर्थकवाक्यस्यासम्भव एव, तथापि प्रकरणादस्य वाक्यस्य नायकश्वासजनकवाक्यत्वप्रतीतौ काकुनञा एव तदुपपत्तेस्तदाक्षिप्तवाक्यस्थनञ् एव स्ववाक्यस्थनञो विध्यर्थकताघटनं बोध्यं ।
इदं च तादृक्प्रंकरणसत्त्वे एव संगच्छते, तादृक्प्रकरणग्राहकासत्त्वे तु नेदमुदाहरणं ।
तथाऽक्षिप्तवाक्यस्थस्य नञो विषेधार्थकत्वं ।
एवं काकुनञ्विशिष्टवाक्यस्यैव विध्यर्थकता ।
तथा च— “गुरुपरतन्त्रतया बत, दूरतरं देशमुद्यतो गन्तुं ।
अलिकुलकोकिलललिते नैष्यति सखि ! सुरभिसमयेऽसौ । ।
“इति काव्यप्रकाशकृदुक्तमेव उदाहरणं बोध्यं ।
तत्र हि शोचनाभिप्रायकस्य पूर्ववाक्यस्य कामाकुलाभिप्रयकत्वेन द्वितीयवक्त्र्या योजनं ।
********** टीका संपूर्णा **********
25. Visvesvara Kavicandra: Camatkaracandrika (1400)
चिरं जीवतु वक्रोक्तिः स्वभावोक्तिश्च तिष्ठतां ।
रसोक्तेरेव काव्यानि ग्राहीणीति (ग्राह्याणीति?) मतिर्मम । । ५.९ । ।
खरपाको यथा
कल्याणेक्षण हेषया प्रकटितस्तम्भप्रतिष्ठाक्रमे मन्दाक्षच्छवि सुन्दरे ललितदृक्कोणक्रियातोरणे ।
भावोल्लासविलासके वरतनोरस्या मनोमण्टपे श्रीसिङ्गक्षितिपालमूर्तिरयते साम्राज्यसिंहासनं । । ४.*४८ । ।
अत्र नारिकेलपाक इव विमर्शक्लेशेन विलंब्यास्वाददायी शब्दपरिणामः खरपाक इत्युच्यते ।
सोऽयमभ्यस्तकविभूमिकानां वक्रोक्तिवासनावासितान्तः करणानां विदग्धानां व्युत्पत्तिमात्रफलेषु लक्ष्यते ।
26. Vidyadhara: ekavali (14th century) and 27. Mallinatha Suri: Tarala commentary on Vidyadhara’s Ekavali (1350-1450 CE.)
28. Simhabhupala: Rasarnavasudhakara (1400-1500)
धीरा तु वक्ति वक्रोक्त्या सोत्प्रासं सागसं प्रियं । ।१.१०० । ।
अधीरा परुषैर्वाक्यैः खेदयेद्वल्लभं रुषा ।
धीराधीर तु वक्रोक्त्या सबाष्पं वदति प्रियं । ।१.१०१ । ।
29. Vamana: Kavyalamkarasutra, with Vrtti (1400-1500)
सादृश्याल्लक्षणा वक्रोक्तिः । । ४,३.८ । ।
#<सादृश्याल्लक्षणा वक्रोक्तिः । । सूत्र ४,३.८ । ।>#
बहुनि हि निबन्धनानि लक्षणायां । तत्र सादृश्याल्लक्षणावक्रोक्तिरसाविति । यथा —-
%<उन्मिमील कमलं सरसीनां कैरवं च न मिमील मुहूर्तात् ।>%
अत्र नेत्रधर्मावुन्मीलनिमीलने सादृश्याद्विकाससंकोचौ लक्षयतः ।
%<इह च निरन्तरनवमुकुलपुलकिता हरति माधवी हृदयं ।
मदयति च केसराणां परिणतमधुगन्धि निःश्वसितं । ।>%
अत्र च निःश्वसितमिति परिमलनिर्गमं लक्षति ।
%<संस्थानेन स्फुरतु सुभगः स्वर्चिषा चुम्बतु द्यां ।
आलस्यमालिङ्गति गात्रमस्याः ।
परिम्लानच्छायामनुवदति दृष्टिः कमलिनीं ।
प्रत्यूषेषु स्फुटितकमलामोदमैत्रीकपायः ।
ऊरुद्वन्द्वं तरुणकदलीकाण्डसब्रह्मचारि ।>%
इत्येवमादिषु लक्षणार्थो निरूप्यत इति लक्षणाया झटित्यर्थप्रतिपत्तिक्षमत्वं रहस्यमाचक्षत इति ।
असादृश्यनिबन्धना तु लक्षणा न वक्रोक्तिः । यथा —-
%<जरठकमलकन्दच्छेदगौरैर्मधूखैः ।>%
अत्र च्छेदः सामीप्याद्द्रव्यं लक्षयति । तस्यैव गौरत्वोपपत्तेः । ।८ । ।
30. Rupa Gosvamin: Natakacandrika (1489–1564)
31. Rupa Gosvamin: Ujjvalanilamani (1489–1564)
तत्र धीरमध्या
धीरा तु वक्ति वक्रोक्त्या सोत्प्रासं सागसं प्रियम् । । ५.३५ । ।
अथ धीराधीरमध्या
धीराधीर तु वक्रोक्त्या सबाष्पं वदति प्रियम् । । ५.३९ । ।
32. Apayya dikshit: kuvalayananda (1535)
33. Kavi Karnapura: Alankarakaustubha (around 1550)
वस्तुतस्तु सर्वेष्वेवालङ्कारेषु वक्रोक्तिरेव वैचित्र्यकारिणी, यथोक्तं—वक्रोक्तिं काव्यजीवितम् । अन्यैश्चोक्तम्—
वक्रोक्तिरेव काव्यानां सर्वालङ्कारमार्जिका ।
तस्मादेव प्रयत्नेन सम्पाद्या कविपुङ्गवैः ॥
34. BAladeva VidyabhuShaNa: kavyakaustubha (around 1550)
35. Jagannatha Panditaraja: Rasagangadhara, Anana 1 (17th century)
36. Krishna brahmatantra Parakala Swami: Alankaramanihara (1917)
37. Vagbhatalankara
38. Alankarashekhara
39. Alankara adhyaya agni purana
उक्तिप्रत्युक्तिमद्वाक्यं वाकोवाक्यं द्विधैव तत।
ऋजुवक्रोक्तिभेदेन तत्राद्यं सहजं वचम् ॥३०॥
सा पूर्वप्रश्निकाप्रश्नपूर्विकेति द्विधा भवेत।
वक्रोक्तिस्तु भवेद्भङ्ग्या काकुस्तेन कृता द्विधा ॥३१॥
40. Bharata – nATyashAstra
41. Bhatti – rAvaNavadham