udAtta alankara (उदात्त)
1. Dandin: Kavyadarsa, Paricchedas 1 & 2 (6th-7th century)
आशयस्य विभूतेर्वा यन्महत्वं अनुत्तमम्
उदात्तं नाम तं प्राहुरलंकारं मनीषिभिः । । २.३०० । ।
गुरोः शसनं अत्येतुं न शशाक स राघवः
यो रावणशिरश्छेदकार्यभारेऽप्यविक्लवः । । २.३०१ । ।
रत्नभित्तिषु संक्रान्तैः प्रतिबिम्बशतैर्वृतः
ज्ञातो लङ्केश्वरः कृच्छ्रादाञ्जनेयेन तत्त्वतः । । २.३०२ । ।
पूर्वत्राशयमाहात्म्यं अत्राभ्युदयगौरवम्
सुव्यञ्जितं इति प्रोक्तं उदात्तद्वयं अप्यदः । । इत्युदात्तम् । । । । २.३०३ । ।
2. Bhamaha: Kavyalamkara (7th century)
उदात्तं शक्तिमान्रामो गुरुवाक्यानुरोधकः ।
विहायोपनतं राज्यं यथा वनमुपागतम् । । ३.११ । ।
एतदेवापरेऽन्येन व्याख्यानेनान्यथा विदुः ।
नानारत्नादियुक्तं यत्तत्किलोदात्तमुच्यते । । ३.१२ । ।
चाणक्यो नक्तमुपयान्नन्दक्रीडागृहं यथा ।
शशिकान्तोपलच्छन्नं विवेद पयसां कणैः । । ३.१३ । ।
3. Udbhata: Kavyalamkarasarasamgraha (c. 776-807 AD) and 4. Induraja’s Laghuvrtti
#<प्रेयोरसवदूर्जसव पर्यायोक्तं समाहितं ।
द्विधोदात्तं तथा श्लिष्टमलङ्कारान्परे विदुः । । ऊक्स्स्_४.१ । ।>#
प्रेयोरसवदिति समुदायान्मतुप् ।
श्लिष्टमिति ।
तथा उदात्तवद्द्वविधं श्लिष्टमित्यर्थः ।
विप्रतिपत्तिनिरासार्थं चात्र श्लिष्टस्य द्वैविध्यमुक्तं ।
भामहो हि “तत्सहोक्त्युपमाहेतुनिर्देशात्र्रिविधं यथा”इति श्लिष्टस्य त्रैविध्यमाह ।
अतो विप्रतिपत्तिनिरासाय तथेत्युक्तं ।
उदात्ते तु द्विधेत्ययमनुवादो दृष्टान्तत्वार्थः ।
यथा उदात्तस्य द्वैविध्यं प्रमाणोपपन्नत्वादङ्गीकृतं तथा श्लिष्टस्यापि तदङ्गीकर्तव्यमित्यर्थः । ।
उदात्तम्—
#<उदात्तमृद्धिमद्वस्तु चरितं च महात्मनां ।
उपलक्षणतां प्राप्तं नेतिवृत्तत्वमागतं । । ऊक्स्स्_४.८ । ।>#
ऋद्धिः सुवर्णादिधनसंपत्तिः ।
तद्युक्तं वस्तूदात्तं ।
तेन च काव्यार्थोऽलंक्रियते ।
तस्योदाहरणम्—-
उवाच च यतः क्रोडे वेणुकुञ्जरजन्मभिः ।
मुक्ताफलैरलङ्कारः शबरीणामपीच्छया । । ऊक्स्स्_४.*१० । ।
पृष्ट्येन्द्रनीलवैडूर्यपद्मरागमयैर्वियत् ।
शिरोभिरुल्लिस्वद्यत्र शिखरं गन्धमादनं । । ऊक्स्स्_४.*११ । ।
उत्तरोपत्यका यस्य प्रधानस्वर्णभूमयः ।
महान्मरकतोर्विन्ध्रः पादोपान्तं च संश्रितः । । ऊक्स्स्_४.*१२ । ।
बभूव यस्य पातालपातिन्यां संक्षये क्षितौ ।
पतनं न तया सार्धमायामस्तु प्रकट्यभूत् । । ऊक्स्स्_४.*१३ । ।
यस्य एवंविधरूपता हिमार्द्रेर्भवती सुतेति संबन्धः ।
क्रोडः सूकरः ।
पुष्ट्यो मणिविशेषः ।
गन्धमादनं पर्वतविशेषः ।
उपत्यकाः पर्वताधारवर्तिनो भूमिभागाः ।
प्रधानं स्वर्णं कार्तस्वरादि ।
अर्विन्ध्रः पर्वतः ।
संक्षयः
कल्पान्तः ।
भूमेरधोगमनाद्भूम्याश्लिष्टस्य प्रदेशस्य भूमिविविक्तत्वाद्धिमवतः कल्पान्ते आयामः प्रकटीभूतः ।
अत्र रत्नादिसंभारो निबद्धः ।
तेनेदमुदात्तं ।
तस्य चालङ्कारत्वं लोकातिशायिरत्नादिकार्यध्वननात् ।
एवमेतदृद्धिमद्वस्तुनिबन्धनेनैकमुदात्तमुक्तं ।
न केवलमृद्धिमद्वस्तूदात्तं यावदर्थप्राप्तावनर्थपरिहारे चोद्यतानां विपुलाशयानां चेष्टितमपि, तदुक्तम्—-
चरितं च महात्मनामिति ।
न च विपुलाशयचेष्टिते उपनिबध्यमाने तस्य शृङ्गारादिरसप्रतिपत्तिहेतुत्वाद्रसवदलङ्कारानुप्रवेशोऽत्र सुभणः ।
विपुलाशयचेष्टतस्यात्र वस्त्वन्तरोपलक्षणत्वेनावान्तरवाक्यार्थीभूतत्वात् ।
न खल्पत्र महापुरुषचेष्टितं वाक्यतात्पर्यगोचरतामनुभवति ।
अरथान्तरोपलक्षणपरत्वात् ।
यत्र च रसास्तात्प्रयेणाव गम्यन्ते तत्र तेषां वाक्यविश्रान्तिस्थानत्वेन चतुर्वर्गतदितरप्राप्तिपरिहारोपायभूतस्थायिभावपरिपोषात्मनास्वाद्यमानत्वाद्रसवदलङ्कारो
भवति ।
तेन कुतोऽत्र रसवदलङ्कारगन्धोऽपि ।
तदुक्तम्—उपलक्षणतां प्राप्तं नेतिवृत्तत्वमागतमिति ।
तस्योदाहरणम्—–
तस्यादिक्रोडपीनांसनिघर्षेऽपि पुनः पुनः ।
निष्कम्पसय स्थितवतो हिमार्द्रर्भवती सुता । । ऊक्स्स्_४.*१४ । ।
अत्र हिमवतः स्थैर्ये वाक्यार्थीभूते भगवतो वराहवपुषस्त्रैलोक्योद्धरणोद्युक्तस्य चेष्टितं वीररसप्रतिपत्तिहेतुभूतमवान्तरवाक्यार्थत्वादुपलक्षणीभूतं ।
आदिक्रोड आदिवराहः ।
एवं रसान्तरेष्वप्युपलक्षणीभूतेषूदाहार्यं । ।
5. Anandavardhana: Dhvanyaloka (820-890)
6. Abhinavagupta’s Locana (950 – 1020) and 7. Ramasaraka’s Balapriya (modern published in 1940)
8. Kuntaka: Vakroktijivita, with auto-commentary (950-1050)
ऊर्जस्व्युदात्तयोस्तद्वद्भूषणत्वं न विद्यते ।
तथा समाहितस्यापि प्रकारद्वयशोभिनः । । सूत्र ३.१३ । ।
ऊर्जस्व्युदात्ताभिधानयोः पौर्वापर्यप्रणीतयोरंलकरणयोः “भूषणत्वं”-अलङ्करणत्वं “न विद्यते”—न संभवति ।
कथं “तद्वत्” ।
तद्वदित्यनन्तरोक्तरसवदादिपरामर्शः, तेन तद्वत्तयोरिव प्रथमप्रतिषिद्धविभूषणभाव-रसादिवदेतयोर्विभूषणत्वं नास्तीत्यर्थः ।
(यद्यपि) चिरन्तनैर्लक्षणोदाहरणदर्शनपूर्वकमेतयोरलङ्करणत्वमाख्यातं, तथाप्ययुक्तियुक्तत्वात्(तत्) नोपपद्यते—तथा च कैश्चित्प्रथमस्य लक्षणमुदाहरणं च दर्शितं यथा
अनौचित्यप्रवृत्तानां कामक्रोधादिकारणात् ।
भावानां च रसानां च बन्ध ऊर्जस्वि कथ्यते । । टीका ३.४९ । ।
तथा कामोऽस्य ववृधे यथा हिमगिरेः सुताम् ।
संगृहीतुं प्रववृते हठेनापास्य सत्पथम् । । टीका ३.५० । ।
इति ।
कैश्चिदुदाहरणमेव वक्तव्यत्वाल्लक्षणं मन्यमानैस्तदेव प्रदर्शितम् ।
यथा वा
ऊर्जस्वि कर्णेन यथा पार्थाय पुनरागतः ।
द्विः सन्दधाति किं कर्णः शल्येत्यहिरपाकृतः । । टीका ३.५१ । ।
यथा वा
अपकर्ताहमस्मीति हृदि ते मास्म भूद्भयम् ।
विमुखेषु न मे खङ्गः प्रहर्तुं जातु वाञ्छति । । टीका ३.५२ । ।
इति ।
तत्र प्रथमयोर्लक्षणोदाहरणयोस्तावदेतत्पर्यालोचनीयं किं तदनौचित्यं नाम्, येन (तथा) प्रवृत्तानां रसादीनामुपनिबन्धनमलङ्कारः संपद्यते ।
यस्मादौचित्यप्रतियोगिना तेन प्रतीयमानानां तेषां (न केवलं) परिपोषपरिहाणिः, प्रत्युत सौकुमार्यविरहः सावकाशतां प्रतिपद्यते ।
तदिदमुक्तम्—
अनौचित्यादृते नान्यद्रभङ्गस्य कारणम् । । टीका ३.५३ । ।
इति ।
यदि वा न पारमार्थिकमनौचित्यमत्र विवक्षितमपि तु विभावानुभावव्यभिचार्यौ चित्याभिव्यङ्ग्यप्रस्तावान्तराविषयनिरवद्यरसापेक्षया किमपि प्रस्तुतानुगुणमेव, तथा च “कामक्रोधादिकारणात्” इति युक्तिरुपन्यस्तेत्युच्यते, तदपि न सु स्थितसमाधि ।
यस्मादौचित्यपरिपोषपुष्कलरसापेक्षया किञ्चिदनौचित्ययुक्तरसभावोपनिबन्धनं परिमितसत्त्वप्रायप्राणिमात्रविषये कामादिकारणात्करणीयतामर्हति न पुनरुदाहृते विषये ।
(पुष्क) लविभावादिसमुदयसमुल्लासितः सहजकविशक्तिकौशलसमुद्भासितसौकुमार्यसमर्पितस्वाभाविकरामणीयकः सरसमतिमतः चन्द्रकान्तकौमुदीप्रकाशवदाश्चर्यविलासापसार्यमाणोपपत्तेः समुचितोऽपि रसः परमसौन्दर्यमावहति ।
तत्कथमनौचित्यपरिम्लानः कामादिकारणकल्पनोपसंहतवृत्तिरलङ्कारताव भासतां प्रयास्यति ? तथा च तथाविधे विषये वर्णनीयान्तरसमानतया रसवत्तां परिकल्पयन्तः सत्कवयो नितान्तं (वि) राजन्ते ।
यथा
पशुपतिरपि तान्यहानि कृच्छ्रा- दगमयदद्रिसुतासमागमोत्कः ।
कमपरवशं न विप्रकुर्युः विभुमपि तं यदमी स्पृशन्ति भावाः । । टीका ३.५४ । ।
तदेतदवसरापतितमस्माभिः पर्यालोचितम् ।
ननु भतनयनिपुणमानसानां परमार्थविदां तत्रभवतां (अस्मिन्विषये) वयं विवदामहे, योऽयमत्रोदाहृतः स भगवान्रसाभासविषयतया वर्णनीयतामर्हति न वेति ? किमौचित्यानौचित्यपरिकल्पनेन ।
सर्वथा यथा तत्रभवद्भ्यः प्रतिभासते तत्तथैवास्ताम् ।
तथापि तथाविधस्तदीयश्चित्तवृत्तिविशेषः प्राधान्येन वर्ण्यमानत्वातलङ्कार्यतां नातिक्रामति ।
“द्विः सन्दधाति” इत्यादौ वीरस्य वक्तुर्लोकोत्तरपौरुषाभिधानव्यसनिनः सहजोत्साहोत्सिक्तचित्तवृत्त्यतिशयव्यतिरेकेण न किञ्चिदन्यन्मुक्यतया वाक्यार्थतामुपनीतम् ।
तथाहि—सायकसन्धानक्रियाभ्यावृत्तिगणनमकस्मादपि स्वपरिस्पन्दतिरस्कारकारणं मन्यमानः किमित्यनेन परिहरति ।
कर्ण इत्यभिमानप्रतीतिः (प्रधानं पुरुषवक्रभावोपबृंहितं) रूढिवैचित्र्ययोगिनः शल्येत्यामन्त्रणपदस्याभिप्रायः ।
पार्थायेति सामान्यस्य कस्यचिदाकारान्तरशब्द(र?) प्रतीकारस्य शत्रोः कृते तत्प्रतिघातसमर्थोपाध्यन्तरोपकरणं कदाचित्संभाव्येतापि इति प्रकरणात्प्रतीयते ।
आगत इति तत्प्रतिनिय-तार्थं)मनार्थं) प्रयत्नेनाभिमानेनान्योऽपि स्वयमागतः सनपाकृत इत्यभिमानोत्कर्षप्रतीतिः प्रकरणाद्गम्यते ।
उदाहरणमेवोर्जितम् ।
तदेवमयं प्रधानचेतनलक्षणोपकृतातिशयविशिष्टचित्तवृत्तिविशेषः वस्तुस्वभाव एव मुख्यतया वर्ण्यमानत्वातलङ्कार्यो न पुनरलङ्कारः ।
तदिदमुक्तम्— उदारस्वपरिस्पन्दसुन्दरत्वेन वर्णनम् ।
वस्तुनो वक्रशब्दैकगोचरत्वेन वक्रिता । ।
इति ।
तस्मादेवंविधस्य चित्तवृत्तिविशेषत्वात्रसभावतदाभासानां यथायोगमेकतमस्मिन्विवक्षावशादन्तर्भावः संभवतीत्यलङ्कार्यत्वमेव युक्तं न त्वलङ्कारभाव इति ।
तस्मान्न रसवदाद्यभिहितदूषणपात्रतामतिक्रामति ।
तदेतदुक्तमत्र सर्वमेव योजनीयम् ।
तद्वद्”अपकर्ताहमस्मि” इत्यपरमुदाहरणमनेनैव न्यायेन समानयोगक्षेमप्रायमिति गतार्थमेव ।
एवमुदात्तस्योभयप्रकारस्याप्यलङ्कार्यतैव युक्तिमती न पुनरलङ्करणत्वं, तत्र प्रथमस्य तावल्लक्षणवाक्यमेव दुरधिगमसमन्वयं
उदात्तमृद्धिमद्वस्तु । । टीका ३.५५अ । ।
इति ।
अत्र यद्वस्तु तदुदात्तम्, अलकरणं कीदृशमित्याकाङ्क्षायां ऋद्धिमदित्यनेन यदि विशेष्यते तत्तदेव संपदुपेतं वस्तु वर्ण्यमानमलङ्कार्यं तदेवालङ्करणमिति स्वात्मनि क्रियाविरोधलक्षणस्य दोषस्य दुर्निवारत्वात्स्वरूपादतिरिक्तस्य वस्त्वन्तरस्याप्रतिभासनातूर्जस्विवदुदात्तेऽ(पि भूष)णभावानुपपत्तिः ।
अथवा ऋद्धिमद्वस्तु यस्मिन्यस्येत्यपि व्याख्यानं क्रियते, तथापि तदन्यपदार्थलक्षणं वस्तु वक्तव्यमेव यत्समासार्थोपनीतम् ।
तत्काव्यमेव तथाविधं भविष्यतीति चेत्तदपि न किञ्चिदेव, यस्मात्काव्यस्यालङ्कार इति प्रसिद्धिर्न पुनः काव्यमेवालङ्करणमिति ।
यदि वा ऋद्धिमद्वस्तु यस्मिन्यस्य वा इत्यसावलङ्कारः (एव) समासार्थेनोपनीयते तथापि वर्णनीयादलङ्करणमतिरिक्तमलङ्करणकल्पमन्यदत्र (न किं) चिदेवोपलभ्यते इत्युभयथापि शब्दार्थासंगतिलक्षणो दोषः संप्राप्तावसरः संपद्यते ।
किं चोदात्तस्यालङ्करणत्वे सति, अलङ्करणान्तरविधानात्तदपेक्षानिबन्धनस्य संसृष्टिसंकरव्यपदेशस्याप्रसिद्धेरन्यस्मिन्विषये वर्णनीयान्तरे रूपकादिवत्तद्विरुद्धस्य समृद्धिरहितस्य वर्णनीयान्तरस्य चालङ्कारत्वप्रसंगातुदात्तस्य न कथञ्चिदपि भूषणत्वोपपत्तिरस्ति ।
तथा द्वितीयस्याप्युदात्तप्रकारस्यालङ्कार्यत्वमेवोपपन्नं, न पुनरलङ्कारभावः ।
तथा चैतस्य लक्षणम्—
“……….चरितं च महात्मनाम् ।
उपलक्षणतां प्राप्तं नेतिवृत्तत्वमागतम्” । । टीका ३.५५ब्च्द् । ।
इति ।
तत्र वाक्यार्थपरमार्थविद्भिरेवं पर्यालोच्यताम्, यन्महानुभावानां व्यवहारस्य लक्षणमात्रवृत्तेरन्वयः प्रस्तुते वाक्यार्थे कश्चिचत्विद्यते न वेति ।
तत्र पूर्वस्मिन्पक्षे तत्र तदलीनत्वात्पृथगभिधेयस्यापि पदार्थान्तरवत्तदवयवत्वेनैव व्यपदेशोन्याय्यः,पाण्यादेरिव शरीरे, न पुनरेवालङ्कारभावोऽपि इति ।
द्वितीयस्मिन्पक्षे तदन्वयाभावादेव वाक्यान्तरवर्तिपदार्थवत्तत्र तस्य सत्तैव न संभवति इति न पुनरलङ्कारचर्चा ।
ननु च रूपकादेरलङ्कारस्यापि तत्रान्वयो विद्यते, ततस्तस्यापि तदन्वितत्वातलङ्कारता निवर्तते ।
सत्यमेतत्, किं तु तदन्वितस्य द्वैविध्यं विद्यते, अपकर्षान्तरवत्प्रस्तुततात्पर्याङ्गभावेन, विभूषणान्तरवत्तदुपशोभाकारित्वमात्रेणैव च ।
तत्र पूर्वस्मिन्पक्षे युक्तरुक्तैव ।
तद्विच्छत्तिविधायित्वमात्रे महापुरुषचरितस्य दूषणानीति न दुष्परिहारण्येव ।
तद्विरुद्धवृत्तेर्वर्णनीयान्तरस्यालङ्कारत्वप्रसङ्गः ।
अलङ्कारान्तरसंनिधाने तदपेक्षानिबन्धनसंसृष्टिसंकरव्यपदेशयोग्यता, विषयान्तरेऽप्यलङ्कारान्तरवत्प्रवर्तनं चेति ।
यदपि समञ्जसोदाहरणबन्धनव्यसनितया पूर्वसूरिभिरत्रादरप्रथनपूर्वकं प्रतिष्ठितम्, तदपि प्रस्तुततात्पर्यपरायत्तवृत्तित्वादेव (सहृदयभाव) नां प्रति मनागपि न पात्रतां प्रतिपद्यते ।
यथा
नेथा कुन्थपृथक्तर्जरत्ता… …मस्थापत्तेः विच्छित्ति…(?) । । टीका ३.५६ । ।
महेन्द्रकन्दरक्वणत्कर्णेषु टङ्कान्विताः ते नीला…शेखरशरक्षेपैकवीथीभुवा… दुर्गा अविगाहिताः शशिरुचा कीर्त्या वसन्त्यास्तव (?) । । टीका ३.५७ । ।
(अत्र पूर्वापरवर्णितः महापुरुषचरितलक्षणपदार्थो (व्यतिरेकोपबृंहितः?) प्रस्ततवाक्यार्थतात्पर्यमेव विघटते, न पुनस्तदुपशोभामात्रमेव ।
तथाचायमत्राभिप्रायो यदस्खलितैः लैखमहापुरुषपुरुष (प्रभृतिः सकलसंचारितचरितापसरणं संरंभमात्मसात्कृते च कार्ये तदतिरिक्तवृत्तान्तपुरुषान्तरव्यतिरेकेण न कस्यचिदन्यस्य निःसामान्यवृत्तेरपि प्रकाशते ।
तस्मात्तथाविधमहासत्त्वापदानमहमुदितेष्वपि तेषु प्रदेशेषु भवतः परं प्रतापः प्रथितुं प्रगल्भत इति ?) एवं समाहितस्याप्यलङ्कार्यत्वमेव न्याय्यं न पुनरलङ्करणभावः ।
तदाह—”तथा समाहितस्यापि” ।
“तथा”—तेनैव प्रकारेण पूर्वोक्तेनसमाहिताभिधानस्य चालङ्कारस्य “भुषणत्वम्” अलङ्करणत्वं न विद्यते नास्तीत्यर्थः ।
तथाहि तस्येदं लक्षणम्—
रसभावतदाभासप्रशमोऽविदितक्रमः (?) अन्यानुभावनिश्शून्यरूपो यस्तत्समाहितम् । । टीका ३.५८ । ।
रसभावतदाभासानां प्रशमव्यपदेशविषयो दशाविशेषः, तदनन्तररसावतारतरङ्गवर्जितो निजव्यञ्जकव्यापारविरामविश्रान्तविभ्रमः प्रथमपरिस्पन्दैः परिसमाप्तेः उत्तरसमुदायादनभिव्यक्तेरसंवेद्यमानक्रमः सन्ध्यासमयनिभसंनिवेशविशेषः सत्कविभिरपि कथञ्चिदुन्नेयवृत्ति (र) निमित्तमनोहरः समाहितमलङ्करणम् ।
तथा
अक्ष्णोः स्फुटाश्रुकलुषोऽरुणिमा विलीनः शान्तं च सार्धमधरस्फुरणं भ्रुकुट्या ।
भावान्तरस्य (तव) गण्डगतोऽपि कोपो नोद्गाढवासनतया प्रसरं ददाति । । टीका ३.५९ । ।
तदपि न संपत्(सम्यक्) समाहितम् ।
यस्माद्रसादिविशेषस्य सतस्तस्य स्वरूपलोभः ।
तेषां च चित्तवृत्तिविशेषत्वात्भूषणत्वे निपिद्धस्यापि तदेकरूपत्वात्कथं तदुपपद्यते ।
किं च प्रधानचेतनस्वरूपत्वात्वर्णनीयस्वभावभूतस्य (तदन्यविधस्य) अर्थात्मनः सहजव्यञ्जकासहिष्णोः व्यतिरिक्तपदार्थान्तरसंपर्कसहत्वं स्वच्छस्वभावत्वादेव न कथञ्चिदपि समञ्जसतां समासादयतीत्येवं स्वरूपादतिरिक्तपदार्थान्तरस्याप्रतिभासनादित्यादि यथासंभवमनिवार्यम् ।
यदपि कैश्चित्प्रकारान्तरेण समाहिताख्यमलकरणमाख्यातं तस्यापि तथैव भूषणत्वं न विद्यते, तदभिधत्ते—
“तथा समाहितस्यापि प्रकारद्वयशोभिनः” । । टीका ३.६० । ।
पूर्वोक्तेन प्रकारेण अनेन चापरेणेति द्वाभ्यां प्रकाराभ्यां शोभमानस्य समाहितस्यालङ्करणत्वं न सभवति ।
तथाचास्य लक्षणोदाहरणे—
किञ्चिदारभमाणस्य कार्यं दैववशात्पुन ।
तत्साधनसमापत्तिर्यत्तमाहुः समाहितम् । । टीका ३.६१ । ।
इति ।
स्पष्टार्थमिदं वाक्यम् ।
मानमस्या निराकर्तुं पादयोर्मे पतिप्यतः ।
उपकाराय दिष्टयैतदुदीर्णं घनगर्जितम् । । टीका ३.६२ । ।
अत्र पूर्वस्य पूर्वस्य वस्तुनः प्रधानं समर्थनमुत्तरत्र समाहित (मिति) यदुच्यते तदास्तां, समाहितशब्दवाच्यत्वे न केनचित्(निवार्)यते ।
अलङ्करणत्वं पुनर्द्धयोरपि सरसवृत्तत्वात्गुणप्रधानभावस्याभावान्न किञ्चिदुपपद्यते ।
द्वयोरपि वस्तुधर्मतया वर्णनीयत्वमेव समानं (तदर्थं घनगर्जितमु)दीर्णमिवेति प्रतीतावुत्प्रेक्षा भविष्यति इत्यलमतिप्रसङ्गेन ।
तदेवं चेतनाचेतनपदार्थभेदभिन्नं स्वाभाविकसौकुमार्यमनोहरं वस्तुनः स्वरूपं प्रतिपादितम् ।
इदानीं तदेव कविप्रतिभोल्लिखितलोकोत्तरातिशयशालितया नवनर्मितं मनोज्ञतामुपनीयमानमालोच्यते ।
तथाविधभूषणविन्यासविहितसौन्दर्यातिशयव्यतिरेकेण भूष्यत्वनिमित्तभूतं न तद्विदाह्लादकारितायाः कारणम् ।
प्रसिद्धो वस्तुधर्मो यो न विच्छित्त्याश्रयो भवेत् ।
तदेवं कविमुख्यानां वर्णनायोगमास्थितः । । टीका ३.६३ । ।
तस्य लोकोत्तरोत्कर्षलेखालगितवृत्तिभिः ।
गुणैः (श्च) भासमानस्य नवत्वमुपपद्यते । । टीका ३.६४ । ।
इत्यन्तरश्लोकौ ।
तदेवं नूतनातिशयविधायिनः काव्यार्थस्वरूपस्य अलङ्काराः ।
9. Mammata: Kavyaprakasa (11th century)
#<उदात्तं वस्तुनः संपत्…># ११५
संपत्समृद्धियोगः । यथा
{मुक्ताः केलिविसूत्रहारगलिताः संमार्जनीभिर्हृताः
प्रातः प्राङ्गणसीम्नि मन्थरचलद्बालाङ्घ्रिलाक्षारुणाः ।
दूराद्दाडिमबीजशङ्कितधिंयः कर्षन्ति केलीशुकाः
यद्विद्वद्भवनेषु भोजनृपतेस्तत्त्यागलीलायितं । ।५०५ । ।}
%<(ऱुय्यकऽसालङ्कारसर्वस्व)>%
10. Mammata: Kavyaprakasa [Karikavali]
#<उदात्तं वस्तुनः संपत्…># ११५
11. Vamanacarya Ramabhatta Jhalakikar’s Balabodhini commentary
#<उदात्तं वस्तुनः संपत्># ११५
संपत्समृद्धियोगः ।
यथा मुक्ताः केलिविसूत्रहारगलिताः संमार्जनीभिर्हृताः प्रातः प्राङ्गणसीम्नि मन्थरचलद्बालाङ्ग्रिलाक्षारुणाः ।
दूराद्दाडिमबीजशङ्कितधियः कर्षन्ति केलीशुकाः यद्विद्वद्भवनेषु भोजनृपतेस्तत्त्यागलीलायितं । । ५०५ । ।
(सू- १७७)
12. Nagesh Bhatta: Udyota commentary on kavyaprakasha (18th century)
13. Govinda Thakkura: Pradipa commentary on kavyaprakasha (1400-1500)
14. Baidyanatha Tatsat: prabha commentary on kavyaprakasha
15. Bhimsena Dikshita – sudhasagar commentary on Kavyaprakasha
16. Rajasekhara: Kavyamimamsa (10th century)
17. Rudrabhatta: Srngaratilaka (1000 AD)
18. Ruyyaka [Rajanaka]: Alamkarasarvasva, Sutras 1-34 (1150)
#<समृद्धि मद्धस्तुवर्णनमुदात्तं । । ऱुआस्स्_८० । ।>#
19. Jayaratha’s Vimarsini ((1150-1200 AD)
20. Vidyacakravartin’s Samjivani
#<समृद्धि मद्धस्तुवर्णनमुदात्तं । । ऱुआस्स्_८० । ।>#
समृद्धिमतो वस्तुनः कविप्रतिभोत्थापितैश्चर्य वर्णनमुदात्तालङ्कारः ।
ससङ्गतिकं व्याचष्टे-स्वभावोक्तावित्यादिना ।
यथावस्थितत्वं लौकिकत्वं ।
आरोपितत्वं ककविकल्पितत्वं ।
अव(सरः) प्रात्पिः ।
ऐश्वर्यलक्षितमिति लक्ष्यपदनिरुक्तिः ।
मुक्ताः केलीति-विसूत्रता छ्रिन्नसूत्रता ।
संमार्जनीभिः प्राङ्काणासीम्नि कृताः यत्कर्षन्तीति वाक्यार्थपरामर्शः ।
यदेतत्कर्षणं तत्त्यागलीलायितमित्यर्थः ।
उदात्तं तु समृद्धस्य वस्तुनः कविवर्णनं ।
21. Jayadeva [alias Piyusavarsa]: Candraloka (1200 AD)
उदात्तं ऋद्धेश्चरितं श्लाघ्यं चान्योपलक्षणम् ।
सानौ यस्याभवद्युद्धं तद्धूर्जटिकिरीटिनोः । । ५.११४ । ।
22. Visvanatha kaviraja: Sahityadarpana ) (1384 AD)
#<लोकातिशयसंपत्तिवर्णनोदात्तमुच्यते ।
यद्वापि प्रस्तुतस्याङ्गं महतां चरितं भवेत् । । सूत्र १०.९४ । ।>#
क्रमेणोदाहरणम्–
“अधः कृताम्भोधरमण्डलानां यस्यां शशाङ्कोपलकुट्टीमानां ।
ज्योत्स्नानिपातात्क्षरक्षतां पयोभिः केलीवनं वृद्धिमुरीकरोति” । ।
“नाभिप्रभिन्नाम्बुरुहासनेन संस्तूयमानः प्रथमेन धात्रा ।
अमुं युगान्तोचितयोगनिद्रः संहृत्य लोकान्पुरुषोऽधिशते” । ।
23. Mahesvarabhatta’s Vijnapriya and 24. Anantadasa’s Locana (1400)
#<लोकातिशयसंपत्तिवर्णनोदात्तमुच्यते ।
यद्वापि प्रस्तुतस्याङ्गं महतां चरितं भवेत् । । साहित्यदर्पण १०.९४ । ।>#
************* टीका *************
#<विज्ञप्रियाः>#
(वि, झ) उदात्तालङ्कारं द्विविधमाह–लोकेति ।
यद्वेति ।
महतां चरितं वा प्रस्तुतस्याङ्गं प्रकर्षकं यदा भवेदित्यर्थः ।
********** टीका संपूर्णा **********
क्रमेणोदाहरणम्–
“अधः कृताम्भोधरमण्डलानां यस्यां शशाङ्कोपलकुट्टीमानां ।
ज्योत्स्नानिपातात्क्षरक्षतां पयोभिः केलीवनं वृद्धिमुरीकरोति” । ।
************* टीका *************
#<विज्ञप्रियाः>#
(वि, ञ) अधः कृतेति ।
यस्या पुरि अधः कृतमम्भोधराणां मेघानां मण्डलं यैस्तादृस्मानां चन्द्रज्योत्स्नानिपातात्क्षरतां शशाङ्कोपलकुट्टिमानां चन्द्रकान्तमणियमगृहाणां पयोभिः केलीवनं वृद्धिमुररीकरोति प्राप्रोतीत्यर्थः ।
जलसेकेन विर्धितमित्यर्थः ।
अधः कृतेत्यादि#<क#ं># कुट्टिमविशेषणं ।
मण्डलायामिति क्वचित्पाठः ।
कुट्टिमैरधः करणमेव पुर्या अधः करणं बोध्यं ।
अतैतादृशकुट्टिमवतो नृपस्य लोकातिशयसम्पत्तिवर्णना ।
********** टीका संपूर्णा **********
“नाभिप्रभिन्नाम्बुरुहासनेन संस्तूयमानः प्रथमेन धात्रा ।
अमुं युगान्तोचितयोगनिद्रः संहृत्य लोकान्पुरुषोऽधिशते” । ।
************* टीका *************
#<विज्ञप्रियाः>#
(वि, ट) नाभिप्ररूढेति ।
युगान्तोचितयोगानिद्रः, युगान्ते उचिता योगनिद्रा यस्य साः पुरुषो विष्णुर्लोकान्संहृत्य अमुं समुद्रं अधिशेते ।
कीदृशः, प्रथमेव धात्रा आदिब्रह्मणा संस्तूयमानः ।
धात्रा कीदृशेन नाभिप्ररूढाम्बुरुहासनेन—नाभिस्थेन अतिस्फुटपद्यस्थितेन, अत्र नयनरविण आसनासङ्कोचनं ।
लोकसंहारात्सूर्याभावेऽपि नयनरविण पद्मविकाश इति भावः ।
अत्र वर्णनीयोऽम्भोधिः प्रकृस्तस्य प्रकर्षकमीदृशं ब्रह्म स्तूयमानेदृशविष्णुशयनरूपं तच्चरितं ।
********** टीका संपूर्णा **********
25. Visvesvara Kavicandra: Camatkaracandrika (1400)
26. Vidyadhara: ekavali (14th century) and 27. Mallinatha Suri: Tarala commentary on Vidyadhara’s Ekavali (1350-1450 CE.)
28. Simhabhupala: Rasarnavasudhakara (1400-1500)
तत्र उदात्तः
अन्तर्गूढाभिमानोक्तिरुदात्त इति गीयते । ।र.सु.क. ३.३२५ । । १५०अ
यथा मालविकाग्निमित्रे
पुराणं इत्येव न साधु सर्वं
न चापि काव्यं नवं इत्यवद्यं ।
सन्तः परीक्ष्यान्तरद्भजन्ते
मूढः परप्रत्ययनेयबुद्धिः । ।र.सु.क. ३.३२६ । । [मा.अ.मि. १.२]
29. Vamana: Kavyalamkarasutra, with Vrtti (1400-1500)
30. Rupa Gosvamin: Natakacandrika (1489–1564)
31. Rupa Gosvamin: Ujjvalanilamani (1489–1564)
उदात्तललिताभ्यां तु मैत्र्यसख्ये सुसङ्गते ।
द्वे सुमैत्र्यसुसख्याख्ये यथासङ्ख्यं उदीरिते । । १४.१२१ । ।
32. Apayya dikshit: kuvalayananda (1535)
33. Kavi Karnapura: Alankarakaustubha (around 1550)
३५. उदात्तम्
॥ कारिका २८४ ॥
. . . . . समृद्धिरुदात्तं वस्तुनं परा ॥
यथा—
मानं कामगवीषु नैव नतरां कल्पद्रुमेष्वादरो
लोष्ट्राणीव लुठन्ति हन्त परितश्चिन्तामणीनां गणाम् ।
शम्बूका इव वापिकापरिसरे मुक्ताकिरं शुक्तयो
वीक्ष्यन्ते न जनैस्त्वमेव नगरि श्रीद्वारके निम्स्पृहा ॥८.१३१॥
॥ कारिका २८५ ॥
प्रधानमपि यत्राङ्गं . . . . . . . . .॥
यत्र प्रधानमप्युपलक्षणं तच्चोदात्तम् । यथा –
सेयं मथुरानागरी सुरगुरुभिर्याचितो भगवान।
यत्रवतीर्य शतशं सुरद्विषो हेलया न्यवधीत॥८.१३२ ॥
अत्र समस्तदैत्यहननरूपो वीररसो गुणीभूतम् ।
34. BAladeva VidyabhuShaNa: kavyakaustubha (around 1550)
35. Jagannatha Panditaraja: Rasagangadhara, Anana 1 (17th century)
36. Krishna brahmatantra Parakala Swami: Alankaramanihara (1917)
37. Vagbhatalankara
38. Alankarashekhara
39. Alankara adhyaya agni purana
40. Bharata – nATyashAstra
अनेकार्थविशेषैर्यत्सूक्तैः सौष्ठवसंयुतैः ।
उपेतमतिचित्रार्थैः उदात्तं तच्च कीर्त्यते । । १६.११२ । ।
उदात्तं श्रूयते यस्मात्तस्माच्छ्रावण उच्यते ।
श्रावणः सुस्वरो यस्मादच्छिन्नः स घनो मतः । । ३३.१३ । ।
41. Bhatti – rAvaNavadham