Aug 23 2011

udAtta alankara (उदात्त)

1. Dandin: Kavyadarsa, Paricchedas 1 & 2 (6th-7th century)

 

आशयस्य विभूतेर्वा यन्महत्वं अनुत्तमम्

उदात्तं नाम तं प्राहुरलंकारं मनीषिभिः    । । २.३००  । ।

गुरोः शसनं अत्येतुं न शशाक स राघवः

यो रावणशिरश्छेदकार्यभारेऽप्यविक्लवः   । । २.३०१  । ।

रत्नभित्तिषु संक्रान्तैः प्रतिबिम्बशतैर्वृतः

ज्ञातो लङ्केश्वरः कृच्छ्रादाञ्जनेयेन तत्त्वतः   । । २.३०२  । ।

पूर्वत्राशयमाहात्म्यं अत्राभ्युदयगौरवम्

सुव्यञ्जितं इति प्रोक्तं उदात्तद्वयं अप्यदः  । । इत्युदात्तम् । ।   । । २.३०३  । ।

 

2. Bhamaha: Kavyalamkara (7th century)

 

उदात्तं शक्तिमान्रामो गुरुवाक्यानुरोधकः   ।

विहायोपनतं राज्यं यथा वनमुपागतम्  । । ३.११  । ।

एतदेवापरेऽन्येन व्याख्यानेनान्यथा विदुः   ।

नानारत्नादियुक्तं यत्तत्किलोदात्तमुच्यते   । । ३.१२  । ।

चाणक्यो नक्तमुपयान्नन्दक्रीडागृहं यथा   ।

शशिकान्तोपलच्छन्नं विवेद पयसां कणैः   । । ३.१३  । ।

 

3. Udbhata: Kavyalamkarasarasamgraha (c. 776-807 AD) and 4. Induraja’s Laghuvrtti

 

#<प्रेयोरसवदूर्जसव पर्यायोक्तं समाहितं  ।

द्विधोदात्तं तथा श्लिष्टमलङ्कारान्परे विदुः  । । ऊक्स्स्_४.१  । ।>#

 

 

प्रेयोरसवदिति समुदायान्मतुप् ।

श्लिष्टमिति  ।

तथा उदात्तवद्द्वविधं श्लिष्टमित्यर्थः  ।

विप्रतिपत्तिनिरासार्थं चात्र श्लिष्टस्य द्वैविध्यमुक्तं  ।

भामहो हि “तत्सहोक्त्युपमाहेतुनिर्देशात्र्रिविधं यथा”इति श्लिष्टस्य त्रैविध्यमाह  ।

अतो विप्रतिपत्तिनिरासाय तथेत्युक्तं  ।

उदात्ते तु द्विधेत्ययमनुवादो दृष्टान्तत्वार्थः  ।

यथा उदात्तस्य द्वैविध्यं प्रमाणोपपन्नत्वादङ्गीकृतं तथा श्लिष्टस्यापि तदङ्गीकर्तव्यमित्यर्थः  । ।

उदात्तम्—

 

#<उदात्तमृद्धिमद्वस्तु चरितं च महात्मनां  ।

उपलक्षणतां प्राप्तं नेतिवृत्तत्वमागतं  । । ऊक्स्स्_४.८  । ।>#

 

 

ऋद्धिः सुवर्णादिधनसंपत्तिः  ।

तद्युक्तं वस्तूदात्तं  ।

तेन च काव्यार्थोऽलंक्रियते  ।

तस्योदाहरणम्—-

 

उवाच च यतः क्रोडे वेणुकुञ्जरजन्मभिः  ।

मुक्ताफलैरलङ्कारः शबरीणामपीच्छया  । । ऊक्स्स्_४.*१०  । ।

 

पृष्ट्येन्द्रनीलवैडूर्यपद्मरागमयैर्वियत् ।

शिरोभिरुल्लिस्वद्यत्र शिखरं गन्धमादनं  । । ऊक्स्स्_४.*११  । ।

 

उत्तरोपत्यका यस्य प्रधानस्वर्णभूमयः  ।

महान्मरकतोर्विन्ध्रः पादोपान्तं च संश्रितः  । । ऊक्स्स्_४.*१२  । ।

 

बभूव यस्य पातालपातिन्यां संक्षये क्षितौ  ।

पतनं न तया सार्धमायामस्तु प्रकट्यभूत् । । ऊक्स्स्_४.*१३  । ।

 

 

यस्य एवंविधरूपता हिमार्द्रेर्भवती सुतेति संबन्धः  ।

क्रोडः सूकरः  ।

पुष्ट्यो मणिविशेषः  ।

गन्धमादनं पर्वतविशेषः  ।

उपत्यकाः पर्वताधारवर्तिनो भूमिभागाः  ।

प्रधानं स्वर्णं कार्तस्वरादि  ।

अर्विन्ध्रः पर्वतः  ।

संक्षयः

 

कल्पान्तः  ।

भूमेरधोगमनाद्भूम्याश्लिष्टस्य प्रदेशस्य भूमिविविक्तत्वाद्धिमवतः कल्पान्ते आयामः प्रकटीभूतः  ।

अत्र रत्नादिसंभारो निबद्धः  ।

तेनेदमुदात्तं  ।

तस्य चालङ्कारत्वं लोकातिशायिरत्नादिकार्यध्वननात् ।

एवमेतदृद्धिमद्वस्तुनिबन्धनेनैकमुदात्तमुक्तं  ।

 

न केवलमृद्धिमद्वस्तूदात्तं यावदर्थप्राप्तावनर्थपरिहारे चोद्यतानां विपुलाशयानां चेष्टितमपि, तदुक्तम्—-

चरितं च महात्मनामिति  ।

न च विपुलाशयचेष्टिते उपनिबध्यमाने तस्य शृङ्गारादिरसप्रतिपत्तिहेतुत्वाद्रसवदलङ्कारानुप्रवेशोऽत्र सुभणः  ।

विपुलाशयचेष्टतस्यात्र वस्त्वन्तरोपलक्षणत्वेनावान्तरवाक्यार्थीभूतत्वात् ।

न खल्पत्र महापुरुषचेष्टितं वाक्यतात्पर्यगोचरतामनुभवति  ।

अरथान्तरोपलक्षणपरत्वात् ।

यत्र च रसास्तात्प्रयेणाव गम्यन्ते तत्र तेषां वाक्यविश्रान्तिस्थानत्वेन चतुर्वर्गतदितरप्राप्तिपरिहारोपायभूतस्थायिभावपरिपोषात्मनास्वाद्यमानत्वाद्रसवदलङ्कारो

 

भवति  ।

तेन कुतोऽत्र रसवदलङ्कारगन्धोऽपि  ।

तदुक्तम्—उपलक्षणतां प्राप्तं नेतिवृत्तत्वमागतमिति  ।

तस्योदाहरणम्—–

 

तस्यादिक्रोडपीनांसनिघर्षेऽपि पुनः पुनः  ।

निष्कम्पसय स्थितवतो हिमार्द्रर्भवती सुता  । । ऊक्स्स्_४.*१४  । ।

 

 

अत्र हिमवतः स्थैर्ये वाक्यार्थीभूते भगवतो वराहवपुषस्त्रैलोक्योद्धरणोद्युक्तस्य चेष्टितं वीररसप्रतिपत्तिहेतुभूतमवान्तरवाक्यार्थत्वादुपलक्षणीभूतं  ।

आदिक्रोड आदिवराहः  ।

एवं रसान्तरेष्वप्युपलक्षणीभूतेषूदाहार्यं  । ।

 

5. Anandavardhana: Dhvanyaloka (820-890)

 

6. Abhinavagupta’s Locana (950 – 1020) and 7. Ramasaraka’s Balapriya (modern published in 1940)

 

8. Kuntaka: Vakroktijivita, with auto-commentary (950-1050)

 

ऊर्जस्व्युदात्तयोस्तद्वद्भूषणत्वं न विद्यते   ।

तथा समाहितस्यापि प्रकारद्वयशोभिनः   । । सूत्र ३.१३  । ।

 

ऊर्जस्व्युदात्ताभिधानयोः पौर्वापर्यप्रणीतयोरंलकरणयोः “भूषणत्वं”-अलङ्करणत्वं “न विद्यते”—न संभवति   ।

कथं “तद्वत्”   ।

तद्वदित्यनन्तरोक्तरसवदादिपरामर्शः, तेन तद्वत्तयोरिव प्रथमप्रतिषिद्धविभूषणभाव-रसादिवदेतयोर्विभूषणत्वं नास्तीत्यर्थः   ।

(यद्यपि) चिरन्तनैर्लक्षणोदाहरणदर्शनपूर्वकमेतयोरलङ्करणत्वमाख्यातं, तथाप्ययुक्तियुक्तत्वात्(तत्) नोपपद्यते—तथा च कैश्चित्प्रथमस्य लक्षणमुदाहरणं च दर्शितं यथा

 

अनौचित्यप्रवृत्तानां कामक्रोधादिकारणात् ।

भावानां च रसानां च बन्ध ऊर्जस्वि कथ्यते   । । टीका ३.४९  । ।

तथा कामोऽस्य ववृधे यथा हिमगिरेः सुताम्  ।

संगृहीतुं प्रववृते हठेनापास्य सत्पथम्  । । टीका ३.५०  । ।

इति   ।

 

कैश्चिदुदाहरणमेव वक्तव्यत्वाल्लक्षणं मन्यमानैस्तदेव प्रदर्शितम्  ।

यथा वा

 

ऊर्जस्वि कर्णेन यथा पार्थाय पुनरागतः   ।

द्विः सन्दधाति किं कर्णः शल्येत्यहिरपाकृतः   । । टीका ३.५१  । ।

 

यथा वा

 

अपकर्ताहमस्मीति हृदि ते मास्म भूद्भयम्  ।

विमुखेषु न मे खङ्गः प्रहर्तुं जातु वाञ्छति   । । टीका ३.५२  । ।

इति   ।

 

 

तत्र प्रथमयोर्लक्षणोदाहरणयोस्तावदेतत्पर्यालोचनीयं किं तदनौचित्यं नाम्, येन (तथा) प्रवृत्तानां रसादीनामुपनिबन्धनमलङ्कारः संपद्यते   ।

यस्मादौचित्यप्रतियोगिना तेन प्रतीयमानानां तेषां (न केवलं) परिपोषपरिहाणिः, प्रत्युत सौकुमार्यविरहः सावकाशतां प्रतिपद्यते   ।

तदिदमुक्तम्—

 

अनौचित्यादृते नान्यद्रभङ्गस्य कारणम्  । । टीका ३.५३  । ।

इति   ।

 

यदि वा न पारमार्थिकमनौचित्यमत्र विवक्षितमपि तु विभावानुभावव्यभिचार्यौ चित्याभिव्यङ्ग्यप्रस्तावान्तराविषयनिरवद्यरसापेक्षया किमपि प्रस्तुतानुगुणमेव, तथा च “कामक्रोधादिकारणात्” इति युक्तिरुपन्यस्तेत्युच्यते, तदपि न सु स्थितसमाधि   ।

यस्मादौचित्यपरिपोषपुष्कलरसापेक्षया किञ्चिदनौचित्ययुक्तरसभावोपनिबन्धनं परिमितसत्त्वप्रायप्राणिमात्रविषये कामादिकारणात्करणीयतामर्हति न पुनरुदाहृते विषये   ।

(पुष्क) लविभावादिसमुदयसमुल्लासितः सहजकविशक्तिकौशलसमुद्भासितसौकुमार्यसमर्पितस्वाभाविकरामणीयकः सरसमतिमतः चन्द्रकान्तकौमुदीप्रकाशवदाश्चर्यविलासापसार्यमाणोपपत्तेः समुचितोऽपि रसः परमसौन्दर्यमावहति   ।

तत्कथमनौचित्यपरिम्लानः कामादिकारणकल्पनोपसंहतवृत्तिरलङ्कारताव भासतां प्रयास्यति ? तथा च तथाविधे विषये वर्णनीयान्तरसमानतया रसवत्तां परिकल्पयन्तः सत्कवयो नितान्तं (वि) राजन्ते   ।

यथा

 

पशुपतिरपि तान्यहानि कृच्छ्रा- दगमयदद्रिसुतासमागमोत्कः   ।

कमपरवशं न विप्रकुर्युः विभुमपि तं यदमी स्पृशन्ति भावाः   । । टीका ३.५४  । ।

 

तदेतदवसरापतितमस्माभिः पर्यालोचितम्  ।

ननु भतनयनिपुणमानसानां परमार्थविदां तत्रभवतां (अस्मिन्विषये) वयं विवदामहे, योऽयमत्रोदाहृतः स भगवान्रसाभासविषयतया वर्णनीयतामर्हति न वेति ? किमौचित्यानौचित्यपरिकल्पनेन   ।

सर्वथा यथा तत्रभवद्भ्यः प्रतिभासते तत्तथैवास्ताम्  ।

तथापि तथाविधस्तदीयश्चित्तवृत्तिविशेषः प्राधान्येन वर्ण्यमानत्वातलङ्कार्यतां नातिक्रामति   ।

“द्विः सन्दधाति” इत्यादौ वीरस्य वक्तुर्लोकोत्तरपौरुषाभिधानव्यसनिनः सहजोत्साहोत्सिक्तचित्तवृत्त्यतिशयव्यतिरेकेण न किञ्चिदन्यन्मुक्यतया वाक्यार्थतामुपनीतम्  ।

तथाहि—सायकसन्धानक्रियाभ्यावृत्तिगणनमकस्मादपि स्वपरिस्पन्दतिरस्कारकारणं मन्यमानः किमित्यनेन परिहरति   ।

कर्ण इत्यभिमानप्रतीतिः (प्रधानं पुरुषवक्रभावोपबृंहितं) रूढिवैचित्र्ययोगिनः शल्येत्यामन्त्रणपदस्याभिप्रायः   ।

पार्थायेति सामान्यस्य कस्यचिदाकारान्तरशब्द(र?) प्रतीकारस्य शत्रोः कृते तत्प्रतिघातसमर्थोपाध्यन्तरोपकरणं कदाचित्संभाव्येतापि इति प्रकरणात्प्रतीयते   ।

आगत इति तत्प्रतिनिय-तार्थं)मनार्थं) प्रयत्नेनाभिमानेनान्योऽपि स्वयमागतः सनपाकृत इत्यभिमानोत्कर्षप्रतीतिः प्रकरणाद्गम्यते   ।

उदाहरणमेवोर्जितम्  ।

तदेवमयं प्रधानचेतनलक्षणोपकृतातिशयविशिष्टचित्तवृत्तिविशेषः वस्तुस्वभाव एव मुख्यतया वर्ण्यमानत्वातलङ्कार्यो न पुनरलङ्कारः   ।

तदिदमुक्तम्— उदारस्वपरिस्पन्दसुन्दरत्वेन वर्णनम्  ।

वस्तुनो वक्रशब्दैकगोचरत्वेन वक्रिता  । ।

इति   ।

तस्मादेवंविधस्य चित्तवृत्तिविशेषत्वात्रसभावतदाभासानां यथायोगमेकतमस्मिन्विवक्षावशादन्तर्भावः संभवतीत्यलङ्कार्यत्वमेव युक्तं न त्वलङ्कारभाव इति   ।

तस्मान्न रसवदाद्यभिहितदूषणपात्रतामतिक्रामति   ।

तदेतदुक्तमत्र सर्वमेव योजनीयम्  ।

तद्वद्”अपकर्ताहमस्मि” इत्यपरमुदाहरणमनेनैव न्यायेन समानयोगक्षेमप्रायमिति गतार्थमेव   ।

एवमुदात्तस्योभयप्रकारस्याप्यलङ्कार्यतैव युक्तिमती न पुनरलङ्करणत्वं, तत्र प्रथमस्य तावल्लक्षणवाक्यमेव दुरधिगमसमन्वयं

 

उदात्तमृद्धिमद्वस्तु   । । टीका ३.५५अ  । ।

इति   ।

 

अत्र यद्वस्तु तदुदात्तम्, अलकरणं कीदृशमित्याकाङ्क्षायां ऋद्धिमदित्यनेन यदि विशेष्यते तत्तदेव संपदुपेतं वस्तु वर्ण्यमानमलङ्कार्यं तदेवालङ्करणमिति स्वात्मनि क्रियाविरोधलक्षणस्य दोषस्य दुर्निवारत्वात्स्वरूपादतिरिक्तस्य वस्त्वन्तरस्याप्रतिभासनातूर्जस्विवदुदात्तेऽ(पि भूष)णभावानुपपत्तिः   ।

अथवा ऋद्धिमद्वस्तु यस्मिन्यस्येत्यपि व्याख्यानं क्रियते, तथापि तदन्यपदार्थलक्षणं वस्तु वक्तव्यमेव यत्समासार्थोपनीतम्  ।

तत्काव्यमेव तथाविधं भविष्यतीति चेत्तदपि न किञ्चिदेव, यस्मात्काव्यस्यालङ्कार इति प्रसिद्धिर्न पुनः काव्यमेवालङ्करणमिति   ।

यदि वा ऋद्धिमद्वस्तु यस्मिन्यस्य वा इत्यसावलङ्कारः (एव) समासार्थेनोपनीयते तथापि वर्णनीयादलङ्करणमतिरिक्तमलङ्करणकल्पमन्यदत्र (न किं) चिदेवोपलभ्यते इत्युभयथापि शब्दार्थासंगतिलक्षणो दोषः संप्राप्तावसरः संपद्यते   ।

किं चोदात्तस्यालङ्करणत्वे सति, अलङ्करणान्तरविधानात्तदपेक्षानिबन्धनस्य संसृष्टिसंकरव्यपदेशस्याप्रसिद्धेरन्यस्मिन्विषये वर्णनीयान्तरे रूपकादिवत्तद्विरुद्धस्य समृद्धिरहितस्य वर्णनीयान्तरस्य चालङ्कारत्वप्रसंगातुदात्तस्य न कथञ्चिदपि भूषणत्वोपपत्तिरस्ति   ।

तथा द्वितीयस्याप्युदात्तप्रकारस्यालङ्कार्यत्वमेवोपपन्नं, न पुनरलङ्कारभावः   ।

तथा चैतस्य लक्षणम्—

 

“……….चरितं च महात्मनाम्  ।

उपलक्षणतां प्राप्तं नेतिवृत्तत्वमागतम्”   । । टीका ३.५५ब्च्द् । ।

 

इति   ।

तत्र वाक्यार्थपरमार्थविद्भिरेवं पर्यालोच्यताम्, यन्महानुभावानां व्यवहारस्य लक्षणमात्रवृत्तेरन्वयः प्रस्तुते वाक्यार्थे कश्चिचत्विद्यते न वेति   ।

तत्र पूर्वस्मिन्पक्षे तत्र तदलीनत्वात्पृथगभिधेयस्यापि पदार्थान्तरवत्तदवयवत्वेनैव व्यपदेशोन्याय्यः,पाण्यादेरिव शरीरे, न पुनरेवालङ्कारभावोऽपि इति   ।

द्वितीयस्मिन्पक्षे तदन्वयाभावादेव वाक्यान्तरवर्तिपदार्थवत्तत्र तस्य सत्तैव न संभवति इति न पुनरलङ्कारचर्चा   ।

ननु च रूपकादेरलङ्कारस्यापि तत्रान्वयो विद्यते, ततस्तस्यापि तदन्वितत्वातलङ्कारता निवर्तते   ।

सत्यमेतत्, किं तु तदन्वितस्य द्वैविध्यं विद्यते, अपकर्षान्तरवत्प्रस्तुततात्पर्याङ्गभावेन, विभूषणान्तरवत्तदुपशोभाकारित्वमात्रेणैव च   ।

तत्र पूर्वस्मिन्पक्षे युक्तरुक्तैव   ।

तद्विच्छत्तिविधायित्वमात्रे महापुरुषचरितस्य दूषणानीति न दुष्परिहारण्येव   ।

तद्विरुद्धवृत्तेर्वर्णनीयान्तरस्यालङ्कारत्वप्रसङ्गः   ।

अलङ्कारान्तरसंनिधाने तदपेक्षानिबन्धनसंसृष्टिसंकरव्यपदेशयोग्यता, विषयान्तरेऽप्यलङ्कारान्तरवत्प्रवर्तनं चेति   ।

यदपि समञ्जसोदाहरणबन्धनव्यसनितया पूर्वसूरिभिरत्रादरप्रथनपूर्वकं प्रतिष्ठितम्, तदपि प्रस्तुततात्पर्यपरायत्तवृत्तित्वादेव (सहृदयभाव) नां प्रति मनागपि न पात्रतां प्रतिपद्यते   ।

यथा

 

नेथा कुन्थपृथक्तर्जरत्ता… …मस्थापत्तेः विच्छित्ति…(?)   । । टीका ३.५६  । ।

 

महेन्द्रकन्दरक्वणत्कर्णेषु टङ्कान्विताः ते नीला…शेखरशरक्षेपैकवीथीभुवा… दुर्गा अविगाहिताः शशिरुचा कीर्त्या वसन्त्यास्तव (?)   । । टीका ३.५७  । ।

 

 

(अत्र पूर्वापरवर्णितः महापुरुषचरितलक्षणपदार्थो (व्यतिरेकोपबृंहितः?) प्रस्ततवाक्यार्थतात्पर्यमेव विघटते, न पुनस्तदुपशोभामात्रमेव   ।

तथाचायमत्राभिप्रायो यदस्खलितैः लैखमहापुरुषपुरुष (प्रभृतिः सकलसंचारितचरितापसरणं संरंभमात्मसात्कृते च कार्ये तदतिरिक्तवृत्तान्तपुरुषान्तरव्यतिरेकेण न कस्यचिदन्यस्य निःसामान्यवृत्तेरपि प्रकाशते   ।

तस्मात्तथाविधमहासत्त्वापदानमहमुदितेष्वपि तेषु प्रदेशेषु भवतः परं प्रतापः प्रथितुं प्रगल्भत इति ?) एवं समाहितस्याप्यलङ्कार्यत्वमेव न्याय्यं न पुनरलङ्करणभावः   ।

तदाह—”तथा समाहितस्यापि”   ।

“तथा”—तेनैव प्रकारेण पूर्वोक्तेनसमाहिताभिधानस्य चालङ्कारस्य “भुषणत्वम्” अलङ्करणत्वं न विद्यते नास्तीत्यर्थः   ।

तथाहि तस्येदं लक्षणम्—

 

रसभावतदाभासप्रशमोऽविदितक्रमः (?) अन्यानुभावनिश्शून्यरूपो यस्तत्समाहितम्  । । टीका ३.५८  । ।

 

रसभावतदाभासानां प्रशमव्यपदेशविषयो दशाविशेषः, तदनन्तररसावतारतरङ्गवर्जितो निजव्यञ्जकव्यापारविरामविश्रान्तविभ्रमः प्रथमपरिस्पन्दैः परिसमाप्तेः उत्तरसमुदायादनभिव्यक्तेरसंवेद्यमानक्रमः सन्ध्यासमयनिभसंनिवेशविशेषः सत्कविभिरपि कथञ्चिदुन्नेयवृत्ति (र) निमित्तमनोहरः समाहितमलङ्करणम्  ।

तथा

 

अक्ष्णोः स्फुटाश्रुकलुषोऽरुणिमा विलीनः शान्तं च सार्धमधरस्फुरणं भ्रुकुट्या   ।

भावान्तरस्य (तव) गण्डगतोऽपि कोपो नोद्गाढवासनतया प्रसरं ददाति   । । टीका ३.५९  । ।

 

तदपि न संपत्(सम्यक्) समाहितम्  ।

यस्माद्रसादिविशेषस्य सतस्तस्य स्वरूपलोभः   ।

तेषां च चित्तवृत्तिविशेषत्वात्भूषणत्वे निपिद्धस्यापि तदेकरूपत्वात्कथं तदुपपद्यते   ।

किं च प्रधानचेतनस्वरूपत्वात्वर्णनीयस्वभावभूतस्य (तदन्यविधस्य) अर्थात्मनः सहजव्यञ्जकासहिष्णोः व्यतिरिक्तपदार्थान्तरसंपर्कसहत्वं स्वच्छस्वभावत्वादेव न कथञ्चिदपि समञ्जसतां समासादयतीत्येवं स्वरूपादतिरिक्तपदार्थान्तरस्याप्रतिभासनादित्यादि यथासंभवमनिवार्यम्  ।

यदपि कैश्चित्प्रकारान्तरेण समाहिताख्यमलकरणमाख्यातं तस्यापि तथैव भूषणत्वं न विद्यते, तदभिधत्ते—

 

“तथा समाहितस्यापि प्रकारद्वयशोभिनः”   । । टीका ३.६०  । ।

 

पूर्वोक्तेन प्रकारेण अनेन चापरेणेति द्वाभ्यां प्रकाराभ्यां शोभमानस्य समाहितस्यालङ्करणत्वं न सभवति   ।

तथाचास्य लक्षणोदाहरणे—

 

किञ्चिदारभमाणस्य कार्यं दैववशात्पुन   ।

तत्साधनसमापत्तिर्यत्तमाहुः समाहितम्  । । टीका ३.६१  । ।

 

इति   ।

स्पष्टार्थमिदं वाक्यम्  ।

 

 

मानमस्या निराकर्तुं पादयोर्मे पतिप्यतः   ।

उपकाराय दिष्टयैतदुदीर्णं घनगर्जितम्  । । टीका ३.६२  । ।

 

अत्र पूर्वस्य पूर्वस्य वस्तुनः प्रधानं समर्थनमुत्तरत्र समाहित (मिति) यदुच्यते तदास्तां, समाहितशब्दवाच्यत्वे न केनचित्(निवार्)यते   ।

अलङ्करणत्वं पुनर्द्धयोरपि सरसवृत्तत्वात्गुणप्रधानभावस्याभावान्न किञ्चिदुपपद्यते   ।

द्वयोरपि वस्तुधर्मतया वर्णनीयत्वमेव समानं (तदर्थं घनगर्जितमु)दीर्णमिवेति प्रतीतावुत्प्रेक्षा भविष्यति इत्यलमतिप्रसङ्गेन   ।

तदेवं चेतनाचेतनपदार्थभेदभिन्नं स्वाभाविकसौकुमार्यमनोहरं वस्तुनः स्वरूपं प्रतिपादितम्  ।

इदानीं तदेव कविप्रतिभोल्लिखितलोकोत्तरातिशयशालितया नवनर्मितं मनोज्ञतामुपनीयमानमालोच्यते   ।

तथाविधभूषणविन्यासविहितसौन्दर्यातिशयव्यतिरेकेण भूष्यत्वनिमित्तभूतं न तद्विदाह्लादकारितायाः कारणम्  ।

 

 

प्रसिद्धो वस्तुधर्मो यो न विच्छित्त्याश्रयो भवेत् ।

तदेवं कविमुख्यानां वर्णनायोगमास्थितः   । । टीका ३.६३  । ।

 

तस्य लोकोत्तरोत्कर्षलेखालगितवृत्तिभिः   ।

गुणैः (श्च) भासमानस्य नवत्वमुपपद्यते   । । टीका ३.६४  । ।

 

इत्यन्तरश्लोकौ   ।

तदेवं नूतनातिशयविधायिनः काव्यार्थस्वरूपस्य अलङ्काराः   ।

 

9. Mammata: Kavyaprakasa (11th century)

 

#<उदात्तं वस्तुनः संपत्…># ११५

 

संपत्समृद्धियोगः  । यथा

 

{मुक्ताः केलिविसूत्रहारगलिताः संमार्जनीभिर्हृताः

प्रातः प्राङ्गणसीम्नि मन्थरचलद्बालाङ्घ्रिलाक्षारुणाः  ।

दूराद्दाडिमबीजशङ्कितधिंयः कर्षन्ति केलीशुकाः

यद्विद्वद्भवनेषु भोजनृपतेस्तत्त्यागलीलायितं  । ।५०५ । ।}

%<(ऱुय्यकऽसालङ्कारसर्वस्व)>%

 

10. Mammata: Kavyaprakasa [Karikavali]

 

#<उदात्तं वस्तुनः संपत्…># ११५

 

11. Vamanacarya Ramabhatta Jhalakikar’s Balabodhini commentary

 

#<उदात्तं वस्तुनः संपत्># ११५

 

संपत्समृद्धियोगः  ।

यथा मुक्ताः केलिविसूत्रहारगलिताः संमार्जनीभिर्हृताः प्रातः प्राङ्गणसीम्नि मन्थरचलद्बालाङ्ग्रिलाक्षारुणाः  ।

दूराद्दाडिमबीजशङ्कितधियः कर्षन्ति केलीशुकाः यद्विद्वद्भवनेषु भोजनृपतेस्तत्त्यागलीलायितं  । । ५०५  । ।

(सू- १७७)

 

12. Nagesh Bhatta: Udyota commentary on kavyaprakasha (18th century)

 

13. Govinda Thakkura: Pradipa commentary on kavyaprakasha (1400-1500)

 

14. Baidyanatha Tatsat: prabha commentary on kavyaprakasha

 

15. Bhimsena Dikshita – sudhasagar commentary on Kavyaprakasha

 

16. Rajasekhara: Kavyamimamsa (10th century)

 

17. Rudrabhatta: Srngaratilaka (1000 AD)

 

18. Ruyyaka [Rajanaka]: Alamkarasarvasva, Sutras 1-34 (1150)

 

#<समृद्धि मद्धस्तुवर्णनमुदात्तं  । । ऱुआस्स्_८०  । ।>#

 

19. Jayaratha’s Vimarsini ((1150-1200 AD)

 

20. Vidyacakravartin’s Samjivani

 

#<समृद्धि मद्धस्तुवर्णनमुदात्तं  । । ऱुआस्स्_८०  । ।>#

 

 

समृद्धिमतो वस्तुनः कविप्रतिभोत्थापितैश्चर्य वर्णनमुदात्तालङ्कारः  ।

ससङ्गतिकं व्याचष्टे-स्वभावोक्तावित्यादिना  ।

यथावस्थितत्वं लौकिकत्वं  ।

आरोपितत्वं ककविकल्पितत्वं  ।

अव(सरः) प्रात्पिः  ।

ऐश्वर्यलक्षितमिति लक्ष्यपदनिरुक्तिः  ।

मुक्ताः केलीति-विसूत्रता छ्रिन्नसूत्रता  ।

संमार्जनीभिः प्राङ्काणासीम्नि कृताः यत्कर्षन्तीति वाक्यार्थपरामर्शः  ।

यदेतत्कर्षणं तत्त्यागलीलायितमित्यर्थः  ।

उदात्तं तु समृद्धस्य वस्तुनः कविवर्णनं  ।

 

21. Jayadeva [alias Piyusavarsa]: Candraloka (1200 AD)

 

उदात्तं ऋद्धेश्चरितं श्लाघ्यं चान्योपलक्षणम्  ।

सानौ यस्याभवद्युद्धं तद्धूर्जटिकिरीटिनोः   । । ५.११४  । ।

 

22. Visvanatha kaviraja: Sahityadarpana ) (1384 AD)

 

#<लोकातिशयसंपत्तिवर्णनोदात्तमुच्यते  ।

यद्वापि प्रस्तुतस्याङ्गं महतां चरितं भवेत् । । सूत्र १०.९४  । ।>#

 

क्रमेणोदाहरणम्–

“अधः कृताम्भोधरमण्डलानां यस्यां शशाङ्कोपलकुट्टीमानां  ।

ज्योत्स्नानिपातात्क्षरक्षतां पयोभिः केलीवनं वृद्धिमुरीकरोति”  । ।

“नाभिप्रभिन्नाम्बुरुहासनेन संस्तूयमानः प्रथमेन धात्रा  ।

अमुं युगान्तोचितयोगनिद्रः संहृत्य लोकान्पुरुषोऽधिशते”  । ।

 

23. Mahesvarabhatta’s Vijnapriya and 24. Anantadasa’s Locana (1400)

 

#<लोकातिशयसंपत्तिवर्णनोदात्तमुच्यते  ।

यद्वापि प्रस्तुतस्याङ्गं महतां चरितं भवेत् । । साहित्यदर्पण १०.९४  । ।>#

 

 

************* टीका *************

 

#<विज्ञप्रियाः>#

 

(वि, झ) उदात्तालङ्कारं द्विविधमाह–लोकेति  ।

यद्वेति  ।

महतां चरितं वा प्रस्तुतस्याङ्गं प्रकर्षकं यदा भवेदित्यर्थः  ।

 

********** टीका संपूर्णा **********

 

 

क्रमेणोदाहरणम्–

“अधः कृताम्भोधरमण्डलानां यस्यां शशाङ्कोपलकुट्टीमानां  ।

ज्योत्स्नानिपातात्क्षरक्षतां पयोभिः केलीवनं वृद्धिमुरीकरोति”  । ।

 

 

************* टीका *************

 

#<विज्ञप्रियाः>#

 

(वि, ञ) अधः कृतेति  ।

यस्या पुरि अधः कृतमम्भोधराणां मेघानां मण्डलं यैस्तादृस्मानां चन्द्रज्योत्स्नानिपातात्क्षरतां शशाङ्कोपलकुट्टिमानां चन्द्रकान्तमणियमगृहाणां पयोभिः केलीवनं वृद्धिमुररीकरोति प्राप्रोतीत्यर्थः  ।

जलसेकेन विर्धितमित्यर्थः  ।

अधः कृतेत्यादि#<क#ं># कुट्टिमविशेषणं  ।

मण्डलायामिति क्वचित्पाठः  ।

कुट्टिमैरधः करणमेव पुर्या अधः करणं बोध्यं  ।

अतैतादृशकुट्टिमवतो नृपस्य लोकातिशयसम्पत्तिवर्णना  ।

 

********** टीका संपूर्णा **********

 

 

“नाभिप्रभिन्नाम्बुरुहासनेन संस्तूयमानः प्रथमेन धात्रा  ।

अमुं युगान्तोचितयोगनिद्रः संहृत्य लोकान्पुरुषोऽधिशते”  । ।

 

 

************* टीका *************

 

#<विज्ञप्रियाः>#

 

(वि, ट) नाभिप्ररूढेति  ।

युगान्तोचितयोगानिद्रः, युगान्ते उचिता योगनिद्रा यस्य साः पुरुषो विष्णुर्लोकान्संहृत्य अमुं समुद्रं अधिशेते  ।

कीदृशः, प्रथमेव धात्रा आदिब्रह्मणा संस्तूयमानः  ।

धात्रा कीदृशेन नाभिप्ररूढाम्बुरुहासनेन—नाभिस्थेन अतिस्फुटपद्यस्थितेन, अत्र नयनरविण आसनासङ्कोचनं  ।

लोकसंहारात्सूर्याभावेऽपि नयनरविण पद्मविकाश इति भावः  ।

अत्र वर्णनीयोऽम्भोधिः प्रकृस्तस्य प्रकर्षकमीदृशं ब्रह्म स्तूयमानेदृशविष्णुशयनरूपं तच्चरितं  ।

 

********** टीका संपूर्णा **********

 

25. Visvesvara Kavicandra: Camatkaracandrika (1400)

 

26. Vidyadhara: ekavali (14th century) and 27. Mallinatha Suri: Tarala commentary on Vidyadhara’s Ekavali (1350-1450 CE.)

 

28. Simhabhupala: Rasarnavasudhakara (1400-1500)

 

तत्र उदात्तः

अन्तर्गूढाभिमानोक्तिरुदात्त इति गीयते  । ।र.सु.क. ३.३२५ । । १५०अ

 

यथा मालविकाग्निमित्रे

 

पुराणं इत्येव न साधु सर्वं

न चापि काव्यं नवं इत्यवद्यं  ।

सन्तः परीक्ष्यान्तरद्भजन्ते

मूढः परप्रत्ययनेयबुद्धिः  । ।र.सु.क. ३.३२६ । । [मा.अ.मि. १.२]

 

29. Vamana: Kavyalamkarasutra, with Vrtti (1400-1500)

 

30. Rupa Gosvamin: Natakacandrika (1489–1564)

 

31. Rupa Gosvamin: Ujjvalanilamani (1489–1564)

 

उदात्तललिताभ्यां तु मैत्र्यसख्ये सुसङ्गते  ।

द्वे सुमैत्र्यसुसख्याख्ये यथासङ्ख्यं उदीरिते   । । १४.१२१  । ।

 

32. Apayya dikshit: kuvalayananda (1535)

 

33. Kavi Karnapura: Alankarakaustubha (around 1550)

 

३५. उदात्तम्

 

॥ कारिका २८४ ॥

 

.   .   .   .   . समृद्धिरुदात्तं वस्तुनं परा ॥

 

यथा—

मानं कामगवीषु नैव नतरां कल्पद्रुमेष्वादरो

लोष्ट्राणीव लुठन्ति हन्त परितश्चिन्तामणीनां गणाम् ।

शम्बूका इव वापिकापरिसरे मुक्ताकिरं शुक्तयो

वीक्ष्यन्ते न जनैस्त्वमेव नगरि श्रीद्वारके निम्स्पृहा ॥८.१३१॥

 

॥ कारिका २८५ ॥

 

प्रधानमपि यत्राङ्गं .   .   .   .   .   .   .   .   .॥

 

यत्र प्रधानमप्युपलक्षणं तच्चोदात्तम् । यथा –

 

सेयं मथुरानागरी सुरगुरुभिर्याचितो भगवान।

यत्रवतीर्य शतशं सुरद्विषो हेलया न्यवधीत॥८.१३२ ॥

 

अत्र समस्तदैत्यहननरूपो वीररसो गुणीभूतम् ।

 

 

34. BAladeva VidyabhuShaNa: kavyakaustubha (around 1550)

 

35. Jagannatha Panditaraja: Rasagangadhara, Anana 1 (17th century)

 

36. Krishna brahmatantra Parakala Swami: Alankaramanihara (1917)

 

37. Vagbhatalankara

 

38. Alankarashekhara

 

39. Alankara adhyaya agni purana

 

40. Bharata – nATyashAstra

 

अनेकार्थविशेषैर्यत्सूक्तैः सौष्ठवसंयुतैः   ।

उपेतमतिचित्रार्थैः उदात्तं तच्च कीर्त्यते   । । १६.११२  । ।

उदात्तं श्रूयते यस्मात्तस्माच्छ्रावण उच्यते   ।

श्रावणः सुस्वरो यस्मादच्छिन्नः स घनो मतः   । । ३३.१३  । ।

 

41. Bhatti – rAvaNavadham

 

 

 

No Comments

No comments yet.

RSS feed for comments on this post. TrackBack URI

Leave a comment

*
Powered By Indic IME