Aug 23 2011

svabhAvokti alankara (स्वभावोक्ति)

1. Dandin: Kavyadarsa, Paricchedas 1 & 2 (6th-7th century)

 

नानावस्थं पदार्थानां रूपं साक्षाद्विवृण्वती

स्वभावोक्तिश्च जातिश्चेत्याद्या सालंकृतिर्यथा   । । २.८  । ।

तुण्डैराताम्रकुटिलैः पक्षैर्हरितकोमलैः

त्रिवर्णराजिभिः कण्ठैरेते मञ्जुगिरः शुकाः   । । २.९  । ।

कलक्वणितगर्भेण कण्ठेनाघूर्णितेक्षणः

पारावतः परिभ्रम्य रिरंसुश्चुम्बति प्रियाम्  । । २.१०  । ।

बध्नन्नङ्गेषु रोमाञ्चं कुर्वन्मनसि निर्वृतिम्

नेत्रे चामीलयन्नेष प्रियास्पर्शः प्रवर्तते   । । २.११  । ।

कण्ठेकालः करस्थेन कपालेनेन्दुशेखरः

जटाभिः स्निग्धताम्राभिराविरासीद्वृषध्वजः   । । २.१२  । ।

जातिक्रियागुणद्रव्यस्वभावाख्यानं ईदृशम्

शास्त्रेष्वस्यैव साम्राज्यं काव्येष्वप्येतदीप्सितम्  । । २.१३  । ।

 

2. Bhamaha: Kavyalamkara (7th century)

 

स्वभावोक्तिरलङ्कार इति केचित्प्रचक्षते   ।

अर्थस्य तदवस्थत्वं स्वभावोऽभिहितो यथा   । । २.९३  । ।

आक्रोशन्नाह्वयन्नन्यानाधावन्मण्डलै रुदन्  ।

गा वारयति दण्डेन डिम्भः सस्यावतारणीः   । । २.९४  । ।

समासेनोदितमिदं धीखेदायैव विस्तरः   ।

असंगृहीतमप्यन्यदभ्यूह्यमनया दिशा   । । २.९५  । ।

स्वयं कृतैरेव निदर्शनैरियं मया प्रक्ल्प्ता खलु वागलङ्कृतिः   ।

अतः परं चारुरनेकधापरो गिरामलङ्कारविधिर्विधास्यते   । । २.९६  । ।

 

3. Udbhata: Kavyalamkarasarasamgraha (c. 776-807 AD) and 4. Induraja’s Laghuvrtti

 

अथ तृतीयो वर्गः  ।

 

#<यथासंख्यमथोत्प्रेक्षां स्वभावोक्तिं तथैव च  ।

अपरे त्रीनलङ्कारान्गिरामाहुरलङ्कृतौ  । । ऊक्स्स्_३.१  । ।>#

स्वभावोक्तिः—-

 

#<क्रियायां संप्रवृत्तस्य हेवाकानां निबन्धनं  ।

कस्यचिन्मृगडिम्भादेः स्वभावोक्तिरुदाहृता  । । ऊक्स्स्_३.५  । ।>#

 

 

भृगबालादेः स्वसमुचिते व्यापारे प्रवृत्तस्य ये हेवाकाः स्वजात्यानुरूप्येणाभिनिवेशविशेषास्तदुपनिबन्धः स्वभावोक्तिः  ।

तस्याश्चालङ्कारत्वमसाधारणपदार्थस्वरूपध्वननात् ।

तस्या उदाहरणम्—–

 

क्षणं नंष्ट्वार्धवलितः शृङ्गेणाग्रे क्षणं नुदन् ।

लोलीकरोति प्रणयादिमामेष मृगार्भकः  । । ऊक्स्स्_३.*४  । ।

 

 

नंष्ट्वंति  ।

ऽजान्तनशां विभाषाऽइत्यनुनासिकलोपस्य विकल्पितत्वादप्रवृत्तिः  ।

अत्र मृगपोतकस्य मातरमिव वत्सलां भगवतीं प्रणयनिर्भरेण चेरसा व्याकुलीकुर्वतः स्वभावो निबद्धः क्षणमपरिदृश्यमानत्वमर्धकायेन परिवृत्तिः शृङ्गेण च नोदनमित्येवमात्मा  । ।

 

5. Anandavardhana: Dhvanyaloka (820-890)

 

ध्व्_२.१८१९ः

 

विवक्षा तत्परत्वेन नाङ्गित्वेन कदाचन  ।

काले च ग्रहणत्यागौ नातिनिर्वहणैषिता   । । ध्व्क्_२.१८  । ।

निर्व्यूढावपि चाङ्गत्वे यत्नेन प्रत्यवेक्षणं  ।

रूपकादिरलङ्कारवर्गस्याङ्गत्वसाधनम्  । । ध्व्क्_२.१९  । ।

 

रसबन्धेष्वत्यादृतमनाः कविर्यं अलङ्कारं तदङ्गतया विवक्षति  । यथा [शकु. १.२०]

 

चलापाङ्गां दृष्टिं स्पृशसि नवगोपसुदृशां

रहस्याख्यायीव मृशसि मृदु कर्णान्तिकचरः  ।

करं व्याधुन्वत्याः पिबसि रतिसर्वस्वं अधरं

वयं तत्त्वान्वेषान्मधुकर हतास्त्वं खलु कृती  । ।[*१२]

 

 

अत्र हि भ्रमरस्वभावोक्तिरलङ्कारो रसानुगुणः  । “नाङ्गित्वेन” इति न प्राधान्येन  ।

कदाचिद्रसादितात्पर्येण विवक्षितोऽपि ह्यलङ्कारः कश्चिदङ्गित्वेन विवक्षितो दृश्यते  । यथा

 

चक्राभिघातप्रसभाज्ञयैव चकार यो राहुवधूजनस्य  ।

आलिङ्गनोद्दामविलासवन्ध्यं रतोत्सवं चुम्बनमात्रशेषं  । ।

 

अत्र हि पर्यायोक्तस्याङ्गित्वेन विवक्षा रसादितात्पर्ये सत्यपीति  । अङ्गत्वेन विवक्षितं अपि यं अवसरे गृह्णाति नानवसरे  ।

ध्व्_४.७ः

अवस्थादेशकालादिविशेषैरपि जायते  ।

आनन्त्यं एव वाच्यस्य शुद्धस्यापि स्वभावतः   । । ध्व्क्_४.७  । ।

 

शुद्धस्यानपेक्षितव्यङ्ग्यस्यापि वाच्यस्यानन्त्यं एव जायते स्वभावतः  । स्वभावो ह्ययं वाच्यानां चेतनानां अचेतनानां च यदवस्थाभेदाद्देशभेदात्कालभेदात्स्वालक्षण्यभेदाच्चानन्तता भवति  । तैश्च तथाव्यवस्थितैः सद्भिः प्रसिद्धानेकस्वभावानुसरणरूपया स्वभावोक्त्यापि तावदुपनिबध्यमानैर्निरवधिः काव्यार्थः सम्पद्यते  ।

 

6. Abhinavagupta’s Locana (950 – 1020) and 7. Ramasaraka’s Balapriya (modern published in 1940)

 

अन्ये तु—अनुकर्तरि यः स्थाय्यवभासोऽभिनयादिसामग्प्यादिकृतो भित्ताविवहरितालादिना अश्वावभासः, स एव लोकातीततयास्वादापरसंज्ञया प्रतीत्या रस्यमानो रस इति नाट्याद्रसा नाट्यरसाः  ।

अपरे पुनर्विभावानुभावमात्रमेव विशिष्टसामगप्या समर्प्यमाणं तद्विभावनीयानुभावनीयस्थायिरूपचित्तवृत्त्युचितवासनानुषक्तं स्वनिर्वृतिचर्वणाविशिष्टमेव रसः  ।

तन्नाट्यमेव रसाः  ।

अन्ये तु शुद्धं विभावम्, अपरे शुद्धमनु भावम्, केचित्तु स्थायिमात्रम्, इतरे व्यभिचारिणम्, अन्ये तत्संयोगम्, एकेऽनुकार्यम्, केचन सकलमेव समुदायं रसमाहुरित्यलं बहुना  ।

काव्येऽपि च लोकनाट्यधर्मिस्थानीयेन स्वभावोक्तिवक्रोक्तिप्रकारद्वयेनालौकिकप्रसन्नमधुरौजस्विशब्दसमर्प्यमाणविभावादियोगादि यमेव रसवार्ता  ।

अस्तु वात्र नाट्याद्विचित्ररूपा रसप्रतीतिः; उपायवैलक्षण्यादियमेव तावदत्र सरणिः  ।

एवं स्थिते प्रथमपक्ष <<बालप्रिया>> नाट्ये इति छेदः  ।

रसस्योक्तरीत्या नटाश्रयकत्वेन नाट्याश्रयकत्वमित्यर्थः  ।

रामादिगतस्थायिनोऽनुकारे नटे स्थाय्यवभासो मिथ्याज्ञानरूपः सामाजिकानां जायते, स एव चमत्कारकारी रस इति केचित्तन्मतमाह—-अन्य इत्यादि  ।

ऽअश्वावभास इवेऽत्यन्वयः  ।

स एवेति  ।

अवभासमानः स्थाय्येवेत्यर्थः  ।

रस्यमान इति  ।

विषयीक्रियमाण इत्यर्थः  ।

नाट्याद्रसा इति  ।

स्थाय्यवभासस्य नाट्यहेतुकत्वादिति भावः  ।

मतान्तरमाह—अपर इत्यादि  ।

विभावानुभावमात्रमेवेति  ।

रस इत्यनेनास्य सम्बन्धः  ।

कथमित्यत्राह—विशिष्टेत्यादि  ।

विशिष्टसामग्रया भावकत्वविशिष्टया नाट्यादिसामग्रया  ।

समर्प्यमाणमिति  ।

सामाजिकेष्पिति शेषः  ।

तदिति  ।

रूपकादिरलङ्कारवर्गस्याङ्गत्वसाधनम्  । । १९  । ।

 

रसबन्धेष्वत्यादृतमनाः कविर्यमलङ्कारं तदङ्गतया विवक्षति  ।

यथा—- चलापाङ्गां दृष्टिं स्पृशसि बहुशो वेपथुमतीं रहस्याख्यायीव स्वनसि मृदु कर्णान्तिकचरः  ।

करौ व्याधुन्वत्याः पिबसि रतिसर्वस्वमधरं वयं तत्त्वान्वेषान्मधुकर हस्तास्त्वं खलु कृती  । ।

अत्र हि भ्रमरस्वभावोक्तिरलङ्कारो रसानुगुणः  ।

<<लोचनं>> चलापाङ्गामिति  ।

हे मधुकर, वयमेवंविधाभिलाषचाटुप्रवणा अपि तत्त्वान्वेषमाद्वस्तुवृत्तेऽन्विष्यमाणे हता आयासमात्रपात्रीभूता जाताः  ।

त्वं खल्विति निपातेनायत्नसिद्धं ततैव चरितार्थत्वमिति शकुन्तलां प्रत्यभिलाषिणो दुष्यन्तस्येयमुक्तिः  ।

तथाहिकथमेतदीयकटाक्षगोचरा भूयास्म, कथमेषास्मदभिप्रायव्यञ्जकं रहोवचनमाकर्ण्यात्, कथं नु हठादनिच्छन्तत्या अपि परिचुम्बनं विधेयास्मेति यदस्माकं मनोराज्यपदवीमधिशेते तत्तवायत्नसिद्धं  ।

भ्रमरो हि नीलोत्पलधिया तदाशङ्काकरीं दृष्टिं पुनःपुनः स्पृशति  ।

श्रवणावकाशपर्यन्तत्वाच्च नेत्रयोरुत्पलशङ्कानपगमात्तत्रैव दन्ध्वन्यमान आस्ते  ।

सहजसौकुमार्यत्रासकातरायाश्च रतिनिधानभूतं विकसितारविन्दकुवलयामोदमधुरमधरं पिबतीति भ्रमरस्वभावोक्तिरलङ्कारोऽङ्गतामेव प्रकृतरसस्योपगतः  ।

अन्ये तु भ्रमरस्वभावे <<बालप्रिया>> चलापाङ्गामिति  ।

श्लोकोऽयमस्माभिः शाकुन्तलव्याख्यायां सविस्तरं व्याख्यातः  ।

वयमित्यनेन गम्यमर्थमाह–एवमित्यादि  ।

एवंविधाः वक्ष्यमाणाः अभिलाषा येषां ते  ।

चाटौ चाटुवचने प्रवणास्तत्पराश्च  ।

अयत्नेत्यादि व्यङ्ग्यार्थकथनं  ।

ऽकथम्ऽ इत्यादिऽसिद्धम्ऽ इत्यन्तं दुष्यन्तवचनरूपेम निर्दिष्टं  ।

भ्रमरो हीत्यादिव्याख्यातुर्वचनं  ।

तत्रैव श्रवणावकाशे एव  ।

दन्ध्वन्यमान इति  ।

अतिशयेन ध्वनिं कुर्वन्नित्यर्थः  ।

ऽभ्रमरस्वभावोक्तिरिऽत्यादिग्रन्थमर्थतो व्यचष्टे—इति भ्रमरस्वभावोक्तिरित्यादि  ।

समासोक्तिव्यतिरेकयोः सत्वेऽप्यत्र स्वभावोक्तेः पुरस्फूर्तिकत्वात्तन्मात्रमुक्तं  ।

प्रकृतरसस्येति  ।

विप्रलम्भस्येत्यरथः  ।

अङ्गतामेवोपगत इति  ।

ऽनाङ्गित्वेनेऽति न प्राधान्येन  ।

ऽचलापाङ्गां दृष्टिम्ऽ इत्यत्र हि रूपकव्यतिरेकस्य प्राग्व्याख्यातस्य शृङ्गारानुग्राहकत्वं स्वभावोक्तेः शृङ्गारस्य चैकानुप्रवेशः  ।

ऽउप्पह जायाऽ इति गाथायां पामरस्वभावोक्तिर्वा ध्वनिर्वेति प्रकरणाद्यभावे एकतरग्राहकं प्रमाणं नास्ति  ।

यद्यप्यलङ्कारो रसमवश्यमनुगृह्णाति, तथापिऽनाति निर्वहणैषिताऽ इति यदभिप्रायेणोक्तं तत्र सङ्कारासम्भवात्संसृष्टिरेवालङ्कारेम रसध्वनेः  ।

 

8. Kuntaka: Vakroktijivita, with auto-commentary (950-1050)

 

स्वभावोक्तिलक्षणमलङ्करणमाम्नातं तच्चातीवरमणीयमित्यसहमानस्तदेव निराकर्तुमाह—

 

_________________________________________________________________

 

 

अलङ्कारकृतां येषां स्वभावोक्तिरलङ्कृतिः   ।

अलङ्कार्यतया तेषां किमन्यदवतिष्ठते   । । सूत्र १.११  । ।

 

येषामलङ्कारकृतामलङ्कारकाराणां स्वभावोक्तिरलङ्कृतिः, या स्वभावस्य पदार्थधर्मलक्षणस्य परिस्पन्दस्य उक्तिरभिधा सैवालङ्कृतिरलङ्करणमिति प्रतिभाति, ते सुकुमारमानसत्वाद्विवेकक्लेशद्वेषिणः   ।

यस्मात्स्वभावोक्तिरिति कोर्ऽथः ? स्वभाव एवोच्यमानः स एव यद्यलङ्कारस्तत्किमन्यत्तद्व्यतिरिक्तं काव्यशरीरकल्पं वस्तु विद्यते यत्तोषामलङ्कार्यतया विभूष्यत्वेनावतिष्ठते पृथगवस्थितिमासादयति, न किञ्चिदित्यर्थः   ।

ननु च पूर्वमवस्थापितम्—यद्वाक्यस्यैवाविभागस्य सालङ्कारस्य काव्यत्वमिति (१   ।

६) तत्किमर्थमेतदभिधीयते ? सत्यम्, किन्तु तत्रासत्यभूतोऽप्यपोद्धारबुद्धिविहितो विभागः कर्तुं शक्यते वर्णपदन्यायेन वाक्यपदन्यायेन चेत्युक्तमेव   ।

एतदेव प्रकारान्तरेण विकल्पयितुमाह—

 

_________________________________________________________________

 

 

स्वभावव्यतिरेकेण वक्तुमेव न युज्यते   ।

वस्तु तद्रहितं यस्मान्निरुपाख्यं प्रसज्यते   । । सूत्र १.१२  । ।

 

स्वभावव्यतिरेकेण स्वपरिस्पन्दं विना निःस्वभावं वक्तुमभिधातुमेव न युज्यते न शक्यते   ।

वस्तु वाच्यलक्षणम्  ।

कुतः—तद्रहितं तेन स्वभावेन रहितं वर्जितं यस्मान्निरुपाख्यं प्रसज्यते   ।

उपाख्याया निष्क्रान्तं निरुपाख्यम्  ।

उपाख्या शब्दः, तस्यागोचरभूतमभिधानायोग्यमेव संपद्यते   ।

यस्मात्स्वभावशब्दस्येदृशी व्युत्पत्तिः—भवतोऽस्मादभिधानप्रत्ययाविति भावः, स्वस्यात्मनो भावः स्वभावः   ।

तेन स एव यस्य कस्यचित्पदार्थस्य प्रख्योपाख्यावतारनिबन्धनम्, तेन वर्जितमसत्कल्पं वस्तु शशविषाणप्रायं शब्दज्ञानागोचरतां प्रतिपद्यते   ।

स्वभावयुक्तमेव सर्वथाभिधेयपदवीमवतरतीति शाकटिकवाक्यानामपि सालङ्कारता प्राप्नोति, स्वभावोक्तियुक्तत्वेन   ।

एतदेव युक्त्यन्तरेण विकल्पयति—

 

_________________________________________________________________

 

 

शरीरं चेदलङ्कारः किमलङ्कुरुतेऽपरम्  ।

आत्मैव नात्मनः स्कन्धं क्वचिदप्यधिरोहति   । । सूत्र १.१३  । ।

 

यस्य कस्यचिद्वर्ण्यमानस्य वस्तुनो वर्णनीयत्वेन स्वभाव एव वर्ण्यशरीरम्  ।

स एव चेदलङ्कारो यदि विभूषणं तत्किमपरं तद्व्यतिरिक्तं विद्यते यदलङ्कुरुते विभूषयति   ।

स्वात्मानमेवालङ्करोतीति चेत्तदयुक्तं अनुपपत्तेः   ।

यस्मादात्मैव नात्मनः स्कन्धं क्वचिदप्यधिरोहति, शरीरमेव शरीरस्य न कुत्रचिदप्यसमधिरोहतीत्यर्थः, स्वत्मनि क्रियाविरोधात् ।

भूषणत्वे स्वभावस्य विहिते भूषणान्तरे   ।

भेदावबोधः प्रकटस्तयोरप्रकटोऽथवा   । । सूत्र १.१४  । ।

स्पष्टे सर्वत्र संसृष्टिरस्पष्टे संकरस्ततः   ।

अलङ्कारान्तराणां च विषयो नावशिष्यते   । । सूत्र १.१५  । ।

 

भूषणत्वे स्वभावस्य अलङ्कारत्वे परिस्पन्दस्य८३ यदा भूषणान्तरमलङ्कारान्तरं विधीयते तदा विहिते कृते, तस्मिन्सति, द्वयी गतिः संभवति   ।

कासौ—तयोः स्वभावोक्त्यलङ्कारान्तरयोः भेदावबोधो भिन्नत्वप्रतिभासः प्रकटः सुस्पष्टः कदाचिदप्रकटश्चापरिस्फुटो वेति   ।

तदा स्पष्टे प्रकटे तस्मिन्सर्वत्र सर्वस्मिन्कविवाक्ये संसृष्टिरेवैकालङ्कृतिः प्राप्नोति   ।

अस्पष्टे तस्मिन्नप्रकटे सर्वत्रैवैकः संकरोऽलङ्कारः प्राप्नोति   ।

ततः को दोषः स्यादित्याह—अलङ्कारान्तराणां च विषयो नावशिष्यते   ।

अन्येषामलङ्काराणामुपमादीनां विषयो गोचरो न कश्चिदप्यवशिष्यते, निर्विषयत्वमेवायातीत्यर्थः   ।

ततस्तेषां लक्षणकरणवैयर्थ्यप्रसङ्गः   ।

यदि च८४ तावेव संसृष्टिसंकरौ तेषां विषयत्वेन कल्प्येते तदपि न किञ्चित्, तैरेवालङ्कारकारै८५ स्तस्यार्थस्यानङ्गीकृतत्वात् ।

इत्यनेनाकाशचर्वणप्रतिमेनालमलीकनिबन्धनेन   ।

प्रकृतमनुसरामः   ।

सर्वथा यस्य कस्यचित्पदार्थजातस्य कविव्यापारिविषयत्वेन वर्णनापदवीमवतरतः स्वभाव एव सहृदयाह्लादकारी काव्यशरीरत्वेन वर्णनीयतां प्रतिपद्यते   ।

स एव च यथायोगं शोभातिशयकारिणा येन केनचिदलङ्कारेण योजयितव्यः   ।

तदिदमुक्तम्—”अर्थः सहृदयाह्लादकारिस्वस्पन्दसुन्दरःऽ (१  ।९) इति   ।

“उभावेतावलङ्कार्यौऽ (१  ।१०) इति च   ।

एवं शब्दार्थयोः परमार्थमभिधाय “शब्दार्थौऽ इति (१  ।७) काव्यलक्षणवाक्ये पदमेकं व्याख्यातम्  ।

इदानी “सहितौऽ इति (१  ।७) व्याख्यातुं साहित्यमेतयोः पर्यालोच्यते—

उदारस्वपरिस्पन्दसुन्दरत्वेन वर्णनम्  ।

वस्तुनो वक्रशब्दैकगोचरत्वेन वक्रता   । । सूत्र ३.१  । ।

 

वस्तुनो वर्णनीयतया प्रस्तावितस्य पदार्थस्य, यदेवंविधत्वेन वर्णनं सा तस्य वक्रता वक्रत्वविच्छित्तिः   ।

किंविधत्वेनेत्याह—उदारस्वपरिस्पन्दसुन्दरत्वेन   ।

उदारः सोत्कर्षः सर्वातिशायी यः स्वपरिस्पन्दः स्वभावमहिमा तस्य सुन्दरत्वं सौकुमार्यातिशयस्तेन, अत्यन्तरमणीयस्वाभाविकधर्मयुक्तत्वेन   ।

वर्णनं प्रतिपादनम्  ।

कथम्—वक्रशब्दैकगोचरत्वेन   ।

वक्रो योऽसौ नानाविधवक्रताविशिष्टः शब्दः कश्चिदेव वाचकविशेषो विवक्षितार्थसमर्पण समर्थस्तस्यैवैकस्य केवलस्य गोचरत्वेन प्रतिपाद्यतया विषयत्वेन   ।

वाच्यत्वेनेति नोक्तम्, व्यङ्ग्यत्वेनापि प्रतिपादनसंभवात् ।

तदिदमुक्तं भवति—यदेवंविधे भावस्वभावसौसुमार्यवर्णनप्रस्तावे भूयसां न वाच्यालङ्काराणामुपमादीनामुपयोगयोग्यता संभवति, स्वभावसौकुमार्यातिशयम्लानताप्रसङ्गात् ।

ननु च सैषा सहृदयाह्लादकारिणी स्वभावोक्तिरलङ्कारतया समाम्नात्, तस्मात्किं तद्दषणदुर्व्यसनप्रयासेन ? यतस्तेषां सामान्यवस्तुधर्ममात्रमलङ्कार्यम्, सातिशयस्वभावसौन्दर्यपरिपोषणमलङ्कारः प्रतिभासते   ।

तेन स्वभावोक्तेरलङ्कारत्वमेव युक्तियुक्तमिति ये मन्यन्ते तान्प्रति समाधीयते—तदेतन्नातिचतुरस्त्रम्  ।

यस्मादगतिकगतिन्यायेन काव्यकरणं न यथाकथञ्चिदनुष्ठेयतामर्हति, तद्विदाह्लादकारिकाव्यलक्षणप्रस्तावात् ।

किञ्च—अनुत्कृष्टधर्मयुक्तस्य वर्णनीयस्यालङ्करणमप्यसमुचितभित्तिभागोल्लिखितालेख्यवन्न शोभातिशयकारितामावहति   ।

यस्मादत्यन्तरमणीयस्वाभाविकधर्मयुक्तंवर्णनीयवस्तु परिग्रहणीयम्  ।

तथाविधस्य तस्य यथायोगमौचित्यानुसारेण रूपकाद्यलङ्कारयोजनया भवितव्यम्  ।

एतावांस्तु विशेषो यत्स्वाभाविकसौकुमार्यप्राधान्येन विवक्षितस्य न भूयसा रूपकाद्यलङ्कारौपकाराय कल्पते, वस्तुस्वभावसौकुमार्यस्य रसादिपरिपोषणस्य वा समाच्छादनप्रसङ्गात् ।

तथा चैतस्मिन्विषये सर्वाकारमलङ्कार्यं विलासवतीव स्नानसमय-विरहव्रतपरिग्रह-सुरतावसानादौ नात्यन्तमलङ्करणसहतां प्रतिपद्यते, स्वाभाविकसौकुमार्यस्यैव रसिकहृदयाह्लादकारित्वात् ।

यथा

 

तां प्राङ्मुखीं तत्र निवेश्य तन्वीं क्षणं व्यलम्बन्त पुरो निषण्णाः   ।

भूतार्थशोभाह्रियमाणनेत्राः प्रसाधने संनिहितेऽपि नार्यः   । । टीका ३.१  । ।

 

अत्र तथाविधस्वभाविकसौकुमार्यमनोहरः शोभातिशयः कवेः प्रतिपादयितुमभिप्रेतः   ।

अस्या अलङ्करणकलापकलनं सहजच्छायातिरोधानशङ्कास्पदत्वेन संभावितम्  ।

यस्मात्स्वाभाविकसौकुमार्यप्राधान्येन वर्ण्यमानस्योदारस्वपरिस्पन्दमहिम्नः सहजच्छायातिरोधानविधायि प्रतीत्यन्तरापेक्षमलङ्करणकल्पनं नोपकारितां प्रतिपद्यते   ।

विशेषतस्तु—रसपरिपोषपेशलायाः प्रतीतेर्विभावानुभावव्यभिचार्यौचित्यव्यतिरेकेण प्रकारान्तरेण प्रतिपत्तिः प्रस्तुतशोभापरिहारकारितामावहति   ।

तथा च प्रथमतरतरुणीतारुण्यावतारप्रभृतयः पदार्थाः सुकुमारवसन्तादिसमयसमुन्मेषपरिपोषपरिसमाप्तिप्रभृतयश्च स्वप्रतिपादकवाक्यवक्रताव्यतिरेकेण भूयसा न कस्यचिदलङ्करणान्तरस्य कविभिरलङ्करणीयतामुपनीयमानाः परिदृश्यन्ते   ।

यथा

 

स्मितं किञ्चिन्मुग्धं तरलमधुरो दृष्टिविभवः परिस्पन्दो वाचामभिनवविलासोक्तिसरसः   ।

गतानामारम्भः किसलयितलीलापरिमलः स्पृशन्त्यास्तारुण्यं किमिव हि न रम्यं मृगदृशः   । । टीका ३.२  । ।

 

यथा वा

 

अव्युत्पन्नमनोभवा मधुरिमस्पर्शोल्लसन्मानसा भिन्नान्तः करणं दृशौ मुकुलयन्त्याघ्रातभूतोद्भ्रमाः   ।

रागेच्छां न समापयन्ति मनसः खेदं विनैवालसा वृत्तान्तं न विदन्ति यान्ति च वशं कन्या मनोजन्मनः   । । टीका ३.३  । ।

 

यथा च

 

दोर्मूलावधि इति   । । टीका ३.४  । ।

 

यथा वा

 

गर्भग्रन्थिषु वीरुधां सुमनसो मध्येऽङ्कुरं पल्लवा वाञ्छामात्रपरिग्रहः पिकवधूकण्ठोदरे पञ्चमः   ।

किं च त्रीणि जगन्ति जिष्णु दिवसैर्द्वित्रैर्मनोजन्मनो देवस्यापि चिरोज्झितं यदि भवेदभ्यासवश्यं धनुः   । । टीका ३.५  । ।

 

यथा वा

 

हंसानां निनदेषु इति   । । टीका ३.६  । ।

 

यथा च

 

सज्जेहि सुरहिमासो ण दाव अप्पेइ जुऐजणलक्खसहे   ।

अहिणासहऽरमुहे णवपल्लवपत्तले अणङ्गस्स सरे   । । टीका ३.७  । ।

सज्जयति सुरभिमासो न तावदर्पयति युवतिजनलक्ष्यसहान्  ।

अभीनवसहकारमुखान्नवपल्लवपत्रलाननङ्गस्य शरान् । ।

इति छाया  । ।

 

एवंविधविषये स्वाभाविकसौकुमार्यप्राधान्येन वर्ण्यमानस्य वस्तुनस्तदाच्छादनभयादेव न भूयसा तत्कविभिरलङ्करणमुपनिबध्यते   ।

यदि वा कदाचिदुपनिबध्यते तत्तदेव स्वाभाविकं सौकुमार्यं सुतरां समुन्मीलयितुम्, न पुनरलङ्कारवैचित्र्योपपत्तये   ।

यथा

 

धौताञ्जने च नयने स्फटिकाच्छकान्तिर्- गण्डस्थली विगतकृत्रिमरागमोष्ठम्  ।

अङ्गानि दन्तिशिशुदन्तविनिर्मलानि किं यन्न सुन्दरमभुत्तरुणीजनस्य   । । टीका ३.८  । ।

 

अत्र “दन्तिशिशुदन्तविनिर्मलानि” इत्युपमया स्वाभाविकमेव सौन्दर्यमुन्मीलितम्  ।

यथा वा

 

अकठोरवारणवधूदन्ताङ्कुरस्पर्धिनःइति   । । टीका ३.९  । ।

 

एतदेवातीव युक्तयुक्तम्  ।

यस्मान्महाकवीनां प्रस्तुतौचित्यानुरोधेन कदाचित्स्वाभाविकमेव सौन्दर्यमैकराज्येन विजृम्भयितुमभिप्रेतं भवति, कदाचिद्विविधारचनावैचित्र्युक्तमिति   ।

अत्र पूर्वस्मिन्पक्षे, रूपकादेरलङ्कारणकलापस्य नात्यादृतत्वम्  ।

अपरस्मिन्पुनः स एवसुतरां समुज्जृम्भते   ।

तस्मादनेन न्यायेन सर्वातिशायिनः स्वाभाविकसौन्दर्यलक्षणस्य पदार्थपरिस्पन्दस्यालङ्कार्यत्वमेव युक्तियुक्ततामालम्बते, न पुनरलङ्कारणत्वम्  ।

सातिशयत्वशून्यधर्मयुक्तस्य वस्तुनो विभूषितस्यापि पिशाचादेरिव तद्विदाह्लादकारित्वविरहादनुपादेयत्वमेवेत्यलमतिप्रसङ्गेन   ।

यदि वा प्रस्तुतौचित्यमाहात्म्यान्मुक्यतया भावस्वभावः सातिशयत्वेन वर्ण्यमानः स्वमहिम्ना भूषणान्तरासहिष्णुः स्वयमेव शोभातिशयशालित्वादलङ्कार्योऽप्यलङ्करणमित्यभिधीयते तदयमास्माकीनएव पक्षः   ।

तदतिरिक्तवृत्तेरलङ्कारान्तरस्य तिरस्कारतात्पर्येणाभिधानान्नात्र वयं विवदामहे   ।

एवमेषैव वर्ण्यमानस्य वस्तुनो वक्रतेत्युतान्या काचिदस्तीत्याह–

 

_________________________________________________________________

9. Mammata: Kavyaprakasa (11th century)

 

#<स्वभावोक्तिस्तु डिम्भादेः स्वक्रियारूपवर्णनम्  । । कारिका १११  । ।>#

 

स्वयोस्तदेकाश्रयोः  । रूपं वर्णः संस्थानं च  । उदाहरणं —-

 

{पश्चादङ्घ्री प्रसार्य त्रिकनतिविततं द्राघयित्वाङ्गमुच्चैर्

आसज्याभुग्नकण्ठो मुखमुरसि सटां धूलिधूभ्रां विधूय  ।

घासग्रासाभिलाषादनवरतचलत्प्रोथतुण्डस्तुरङ्गो

मन्दं शब्दायमानो विलिखति शयनादुत्थितः क्ष्मां खुरेण  । ।४९२ । ।}

%<(Bाणऽसःअर्षचरित ३.५)>%

 

। ।११०-१११ । ।

 

10. Mammata: Kavyaprakasa [Karikavali]

 

#<स्वभावोक्तिस्तु डिम्भादेः स्वक्रियारूपवर्णनम्  । । कारिका १११  । ।>#

 

11. Vamanacarya Ramabhatta Jhalakikar’s Balabodhini commentary

 

#<स्वभावोक्तिस्तु डिम्भादेः स्वक्रियारूपवर्णनं  । ।१११ । ।>#

 

स्वयोस्तदेकाश्रययोः  ।

रूपं वर्णः संस्थानं च  ।

उदाहरणम्– पश्वादङ्घ्री प्रसार्य त्रिकनतिविततं द्राघयित्वाङ्गमुच्चैः आसज्याभुग्नकण्ठो मुखमुरसि सटां धूलिधूम्रां विधूय  ।

घासग्रासाभिलाषादनवरतचलत्प्रोथतुण्डस्तुरङ्गो मन्दं शब्दायमानो विलखति शयनादुत्थितः क्ष्मां खुरेण  । । ४९२  । ।

(सू- १६९)

 

12. Nagesh Bhatta: Udyota commentary on kavyaprakasha (18th century)

 

13. Govinda Thakkura: Pradipa commentary on kavyaprakasha (1400-1500)

 

14. Baidyanatha Tatsat: prabha commentary on kavyaprakasha

 

15. Bhimsena Dikshita – sudhasagar commentary on Kavyaprakasha

 

16. Rajasekhara: Kavyamimamsa (10th century)

 

17. Rudrabhatta: Srngaratilaka (1000 AD)

 

18. Ruyyaka [Rajanaka]: Alamkarasarvasva, Sutras 1-34 (1150)

 

#<सूक्ष्मवस्तुस्वभावस्य यथावद्वर्णनं स्वभावोक्तिः  । । ऱुआस्स्_७८  । ।>#

 

19. Jayaratha’s Vimarsini ((1150-1200 AD)

 

20. Vidyacakravartin’s Samjivani

 

#<सूक्ष्मवस्तुस्वभावस्य यथावद्वर्णनं स्वभावोक्तिः  । । ऱुआस्स्_७८  । ।>#

 

 

कविप्रतिभागोचरस्य स्वभावस्य सम्यग्वर्णनं स्वभावोक्तिः  ।

व्याचष्टे-इह वस्त्विति  ।

अत एवेति  ।

कविमात्र गम्यत्वात् ।

कविना निर्मित एव  ।

उक्तिवचनं उक्तिशब्दः  ।

अनेन सङ्गतिवैधर्म्यं वर्णयिष्यत इत्याह-भाविकेति  ।

हुङ्कारेति-कुन्तलगतिकण्डूव्यपनयने तन्व्या हुङ्कारः कृतिनः कर्णावतंसीभवेत् ।

कीदृशः ? चञ्चुपुटाकारया नखकोट्या यद्व्याघट्टनं तेनोट्टङ्कितःसीत्कारोपशोभि च  ।

कीद्दशस्य? पृष्ठश्लिष्यत्कुचाङ्कपालीसुखेनाकेकरदृशः  ।

स्वभावोक्तिर्बुधोन्नेयवस्तुस्वाभाव्यवर्णनं  ।

अथ प्रतीतिवैचित्र्यात्तारतम्यनिरूपणैः  ।

भाविकं दूरदुर्लक्षं व्यक्तं व्याक्रियतेतमां  । ।

 

स्वभावोक्तेर्हि लौकिकानामेव वस्तूनां यःसूक्ष्मो धर्मः प्रेक्षावत्प्रतिभैक समधिगम्यस्तस्य वर्णने हृदयसंवादःसाधारण्येन  ।

इह पुनरत्यद्भुतत्वेनालौकिकानां वस्तूनां प्रतीतिः तटस्थतया  ।

अतो हृदयसंवादातिरिक्तानामंसानां वैलक्षण्यं  ।

ननु लौकिकवस्तुप्रतीतिसाधारण्ये स्वभावोक्तिः, अलौकिकवस्तुप्रतीतिस्फुटत्वेतु भाविकमिति व्यवस्था  ।

यदि लौकिकवस्तुप्रतीतेःस्पुटत्वं तदा किं स्यादित्यत आह-क्वचित्त्विति  ।

लौकिकवस्तुबलात्स्वभावोक्तिः  ।

स्फुटत्वप्रतीतिबलात्भाविकमतःसङ्करः  ।

हृदयसंवादसाधारण्यात्स्वाभावोक्तिरसवतोर्योऽयमभेदः प्रसङ्गात्प्रतीतस्तत्र विवेचयति-न च हृदयसंवादेति  ।

स्वभावोक्तौ रसवति च यद्यपि साधारण्येन हृदयसंवादःसचेतसां, तथापि नानयोरभेदः  ।

तत्र हेतुः – वस्तुस्वभावेति  ।

सत्यपि साधारण्ये वस्तुस्वभावस्य संवादः स्वभावोक्तौ रसवति तु चित्तवृत्तेः  ।

वस्तुस्वभावचित्तवृत्तिरूपत्वातनयोःसंपाते तु सङ्करः इत्याह-उभयसंवादेति  ।

समावेशःसङ्करः  ।

 

 

#<अतीतानागतयोः प्रत्यक्षायमाणत्वं भाविकं  । । ऱुआस्स्_७९  । ।>#

 

 

भूतभाविनोः अर्थयोः अत्यद्भुतत्वादनाकुलसम्बन्धशब्दसमर्पितत्वाच्च प्रत्यक्षायमाणात्वं भाविकं  ।

व्याचष्टे-अतीतेत्यादि  ।

कविगतेति  ।

कविभावस्य श्रोतरि प्रतिबिम्बतापत्तिर्भाविकमित्यर्थः  ।

भावो वेति  ।

भावि भाविकस्य भावनैकप्राणत्वात् ।

निरुक्त्यन्तरं, सोऽत्रा(स्ती०)ति  ।

भाविकमित्यनुषङ्गः  ।

ननु मुनिर्जयतीत्युदाहरिष्यमाणे भूतभाविनोः प्रत्यक्षता भ्रान्तिः किं नेष्यत इत्यत आह-न चेयमिति  ।

भूतभाविनोर्भूतभावित्वेनैव प्रत्यक्षीभावे का भ्रान्तिरिति भावः  ।

ननु भूतभाविनोर्भूतभावित्वेन प्रकाशने वस्तुवृत्तमात्रमित्यत आह-नापि रामोऽभूदित्यादि  ।

रामोऽभूदिति वस्तुवृत्तान्तमात्रे हि न प्रत्यक्षायमाणता  ।

इह तु स्फुटस्य प्रत्यक्षत्वस्य उपलम्भः  ।

न हि प्रत्यक्षत्वेन अध्यवसायादतिशयोक्तिरित्यत आह-नापीयमिति  ।

तत्र हेतुः  ।

अन्यस्यान्यतयेति  ।

अतिशयोक्तौ हि अन्यदन्यतया अध्यवसीयते इह तु न तथा  ।

भूते भाविनि प्रत्यक्षत्वेच अन्यत्वाधायवसायाभावः  ।

एतदुपदर्शयति-न हि भूतभावीति  ।

भूतं अभूतत्वेन भाविन अभावित्वेन ना ध्यवसीयते  ।

एतद्विपर्ययोऽपि नास्तीत्याह-अभूतभाविवेति  ।

यञ्चात्र प्रत्यक्षत्वं तदप्यन्यथा अध्यवसीयते इत्याह-न चापीति  ।

विपर्ययोऽपि नास्तीत्याह-अप्रत्यक्षं वेति  ।

ननुभूतभाविनोः अप्रत्यक्षयोः प्रत्यक्षायमाणत्वं अन्यथाध्यवसाय इत्यत आह-न हि प्रत्यक्षत्वमिति  ।

यदि प्रत्यक्षत्वं केवलवलस्तुधर्मः तदा भूतभाविनोरप्रत्यक्षता  ।

वर्तमानस्य तु प्रत्यक्षत्वं इति भवेद्व्यवस्था  ।

न हि प्रत्यक्षत्वं केवलवस्तुधर्मः  ।

किं तर्हि? प्रतिपत्त्रपेक्षयैव प्रत्यक्षस्येति वस्तुधर्मता  ।

न हि प्रतिपत्तारमनपेक्ष्य वस्तुनि प्रत्यक्षता नाम काचित् ।

अत्र प्रामाणिकसंवादायाह-यचदाहुरित्यादि  ।

यो ह्यर्थः स्वग्रहकप्रतिपत्तुः ज्ञानप्रकाशं स्वान्वयव्यतिरेकावनुकारयति  ।

स्वयमस्ति चेत्ज्ञानप्रतिभासोऽस्ति, नास्तिचेन्नास्तीति व्यवस्थापयति  ।

स प्रत्यक्ष इत्यर्थः  ।

अतः प्रत्यक्षत्वं न केवलं वस्तुधर्मः प्रतिपत्तुस्तु सामग्री तत्र उपयुज्यत इत्याह-केव्रलमिति  ।

असामग्रीके प्रतिपत्तरि न वस्तु प्रत्यक्षीभवतीत्येतावद्वक्तुं शक्यते  ।

न तु प्रतिपत्त्रन पेक्षेति भावः  ।

तां सामग्रीं विवेचयति- सा चेति  ।

लोकयात्रायां लौकिकार्थं प्रत्यक्षीकरणे देशकालादिव्यवधानादतीन्द्रियेर्ऽथे योगिनां ऐकाग्षात्मकभावनारूपा  ।

साक्षात्करणसामग्री काव्यवस्तुगतमत्यद्भुतत्धं योजयति-(सा चेति  । )  अत्यद्भुतानि हि वस्तूनि आदरप्रत्ययेन हृदि सन्धार्यमाणानि तथा भावनां प्रयोजयन्ति  ।

इत्थं च सतिलिकयात्रायां वर्तमानार्थसाक्षात्करणसामग्री चक्षुरादिर्योगिनां काव्यतत्त्वविदां चातीतानागतार्थसाक्षात्करणभावना  ।

अतो योगिवत्काव्यतत्त्वविदामतीतार्थसाक्षात्कारो नान्यथाध्यवसाय इति नातिशयोक्तिः शङ्क्या  ।

ननु प्रत्यक्षतयैव प्रतीयन्ते भूतभाविन इति प्रतीयमानोत्प्रेक्षा किं न स्यादित्यत आह-नापि भूतभाविनामिति  ।

तत्र हेतुः – तस्याभिमानेति  ।

अभिमानःसंभावना तद्रूपस्याध्यवसाय इति उत्प्रेक्षाया लक्षणं  ।

न ह्यत्राप्रत्यक्षं प्रत्यक्षतया संभाव्यते  ।

किं तर्हि? प्रत्यक्षं दृश्यते  ।

अतो नोत्प्रेक्षा  ।

अनुत्प्रेक्षात्वे गमकान्तरमाह-नापि वस्त्विति  ।

पदार्थगतो हि इवार्थः उपमायाः प्रयोजको नोत्प्रेक्षात्वे गमकान्तरमाह-नापि वस्त्विति  ।

पदार्थगतो हि इवार्थः उपमायाः प्रयोजको नोत्प्रेक्षायाः  ।

तत्र हेतुः-तस्या अभिमानेति  ।

उत्प्रेक्षा हि अभिमानरूपा प्रतिपत्तॄधर्मः  ।

तस्मादभिमानगोचर एव इवार्थं उत्प्रेक्षाप्रयोजक इति भावः  ।

अत्र संवादायाह-यदाहुरित्यादि  ।

सुखादिवज्ज्ञानधर्मेऽभिमानेऽध्यवसायोक्तिरित्यर्थः  ।

ननु प्रतिपत्तॄधर्मोऽध्यवसायस्तर्हि प्रयोक्तुः कवेः न स्यादित्यत आह-काव्यविषये चेति  ।

कविरपि खलु काव्ये सहृदय एव  ।

अतो नेयमुत्प्रेक्षा  ।

नन्वद्भुतदर्शनात्प्रत्यक्षत्वमिहेति काव्यलिङ्गमित्यत आह-नाप्यत्यद्भुतेति  ।

अत्यद्भुतपदार्थसाक्षात्कारो हि प्रत्यक्षायमाणत्वे हेतुः  ।

अकाव्यलिङ्गत्वे हेतुमाह-लिङ्गलिङ्गीति  ।

हेतुत्वे सत्यपि लिङ्गलिङ्गिभावेन नेह प्रतीतिः  ।

तथात्वे पारोक्ष्यं प्रसजेदिति भावः  ।

कथं तर्हि प्रतीतिरित्यत आह-योगिवदिति  ।

नन्वत्यद्भुतत्वहेतुका सचमत्कारप्रतीतिरिह पुरः स्फुरतीव  ।

अतोऽत्यद्भुतत्वहेतुको रसवदलङ्कार एव इत्यत आह-नाप्ययमिति  ।

तत्र हेतुः -रत्यादीति  ।

परिपाट्यापि सचमत्कारप्रतीतेः पुरः स्फुरणा साधारणी, अथापि न भाविकरसवतोरभेदः  ।

कुतः? रतिहासादिचित्तवृत्तीनां तदनुरञ्जितत्वेन विभावानुभावव्यभिचारिणां च यदा परमाद्वैतज्ञानिवत्ममैव शत्रोरेवेत्यादिविशेषपरिहारात्साधारण्येन हृदयसंवादिनी प्रतीतिः तदैव रसवतो भावः  ।

विभानादीन्रसवत्प्रस्तुतौ विवेचयिष्येन हृदयसंवादिनी प्रतीतिः तदैव रसवतो भावः  ।

विभावादीन्रसवत्प्रस्तुतौ विवेचयिष्यामः  ।

इह तुभूतभाविनां प्रतीतिर्न साधारण्येन अपितु प्रतिपत्तुः ताट्स्थ्येन  ।

स्फुटतया तादस्थ्यं हि भेदः  ।

यथा साङ्ख्यादिसिद्धानां भेदे न सर्वं जानतां प्रतीतिः  ।

ननु ताटस्थ्येन प्रतीतावतीतादिस्फुटत्वं हेतुः  ।

स्फुटप्रतीतिश्च प्रमुखे निष्पत्तौ तु साधारण्यप्रतीतिरेव  ।

अतः कथं भाविकमित्यत आह- स्फुटप्रतिपत्तीति  ।

स्फुटप्रतिपत्तिनिमित्तकस्फुटप्रतीत्युत्थापितभाविकहेतुक इत्यर्थः  ।

“मुनिर्जयति”त्यादौ हि कुम्भसम्भवादिवृत्तमादौ ताटस्थ्येन अतीतादिरूपतया प्रतीयते तदैव भाविकसिद्धिः  ।

अथोक्तरकालं प्रतिपत्तॄप्रतीतेः ताद्रूप्यापत्त्या विभावादीनां साधारण्ये रसवान्भाविकहेतुकःस्यात् ।

न चैतावता भाविकापलापःशक्यत इति यावत् ।

नन्विह सुन्दरवस्तुस्वभावश्चेन्न वर्ण्येत ततस्तदप्रत्यक्षायमाणता  ।

अतःस्वभावोक्तिरित्यत आह-नापीयमिति  ।

तत्र हेतुः – तस्यां लौकिकेति  ।

स्वभावोक्तेर्हि लौकिकानामेव वस्तूनां यःसूक्ष्मो धर्मः प्रेक्षावत्प्रतिभैक समधिगम्यस्तस्य वर्णने हृदयसंवादःसाधारण्येन  ।

इह पुनरत्यद्भुतत्वेनालौकिकानां वस्तूनां प्रतीतिः तटस्थतया  ।

अतो हृदयसंवादातिरिक्तानामंसानां वैलक्षण्यं  ।

ननु लौकिकवस्तुप्रतीतिसाधारण्ये स्वभावोक्तिः, अलौकिकवस्तुप्रतीतिस्फुटत्वेतु भाविकमिति व्यवस्था  ।

यदि लौकिकवस्तुप्रतीतेःस्पुटत्वं तदा किं स्यादित्यत आह-क्वचित्त्विति  ।

लौकिकवस्तुबलात्स्वभावोक्तिः  ।

स्फुटत्वप्रतीतिबलात्भाविकमतःसङ्करः  ।

हृदयसंवादसाधारण्यात्स्वाभावोक्तिरसवतोर्योऽयमभेदः प्रसङ्गात्प्रतीतस्तत्र विवेचयति-न च हृदयसंवादेति  ।

स्वभावोक्तौ रसवति च यद्यपि साधारण्येन हृदयसंवादःसचेतसां, तथापि नानयोरभेदः  ।

तत्र हेतुः – वस्तुस्वभावेति  ।

सत्यपि साधारण्ये वस्तुस्वभावस्य संवादः स्वभावोक्तौ रसवति तु चित्तवृत्तेः  ।

वस्तुस्वभावचित्तवृत्तिरूपत्वातनयोःसंपाते तु सङ्करः इत्याह-उभयसंवादेति  ।

समावेशःसङ्करः  ।

समावेशघटने लिङ्गमाह-यत्र वस्तुगतेति  ।

यत्र चित्तवृत्तिसंवादवति विषये वस्तुगतसूक्ष्मधर्मवर्णना स्यादित्यर्थः  ।

अन्यत्रत्विति  ।

सूक्ष्मवस्तुधर्मवर्णनाविरहिणि चित्तवृत्तिसंवादमात्रशालिनि विषये रसवानेव  ।

ननु व्यस्तसम्बन्धरहितसन्दर्भसमर्पितत्वमिह लक्षणं तथात्वे च प्रसादाख्यो गुण एवेत्यत आह-नाप्ययं शब्देत्यादि  ।

इह यद्यपि झटित्यर्थसमर्पणं शब्दानाकुलत्वहेतकः अथापि नायं प्रसादः  ।

तत्र हेतुः – तस्य हि स्फुटा स्फुटेत्यादि  ।

स्फुटोऽस्तु वाक्यार्थो अस्फुटो वा  ।

तदुभयगतत्वेन झटिति समर्पणं प्रसादस्वरूपं  ।

यदाह – शुष्केन्धनाग्निवत्स्वच्छ्रजलवत्सहसैव यत् ।

व्याप्नोत्यन्यत्प्रसादोऽसौ सर्वत्र विहितस्थितिः  । ।

इति  । ।

अत्र शुष्केन्धनाग्निवदित्यस्फुटं वाक्यार्थं प्रस्युपमोक्तिः स्वच्छ्रजलवदिति स्फुटं प्रति  ।

अतःसर्वत्र विहित स्थितित्वेन झटिति समर्पणं रूपं प्रसादस्य  ।

अस्य तु प्रसादे झटिति समर्पितस्य स्फुटत्वेन प्रतीतौ सत्यां समनन्तरं स्वरूपप्रतिलम्भः  ।

स्वरूपं हि अस्यश्रोतरि कविगतभावप्रतिबिम्बनं पौनःपुन्येन चेतसि विनिवेशस्वभावभावनात्मकं वा  ।

तथाविधस्य तु प्रतिबम्बनं स्फुटप्रतीत्युत्तरकालमेव  ।

अतः प्रसादोऽस्याङ्गत्वेन प्राक्सिद्धिकः  ।

अयं तु तदुपकृत(स)मनन्तर(स्व)सिद्धिकः  ।

ततोऽन्य एव  ।

अदो न कुत्रचिदन्तर्भीव इति निगमयति-तस्मादयमिति  ।

सर्वोत्तीर्णः भ्रान्त्यादिषु प्रसादगुणान्तरशङ्कितेष्वेकत्रापि नान्तर्भावयितुं शक्य इत्यर्थः  ।

इत्थं लक्षणतोऽस्यनानुपपत्तिः काचित् ।

लक्ष्यतोऽपि प्राचुर्यमित्याह-लक्ष्ये चायमिति  ।

मुनिर्जयतीति  ।

मननात्मुनिः  ।

योगीन्द्रत्वान्महात्मा  ।

स्वयं तु कुम्भसंभवः  ।

तथाविधेन येन एकस्मिन्नेव चुलुके पिपासोद्धृतनिरवशेषार्णवार्भ्भसि प्रसृतिगर्ते दिव्यौ अमानुषानुभावातिशयौ विष्णोर्दशावतारेषु प्रसिद्धापदानौ मत्स्यकच्छ्रपौ यदृच्छ्रया चुलुकान्तर्भावात्पर्याकुलं लुठन्तौ दृष्टौ  ।

अत्रातीतवृत्तोऽपि मुनिः अलौकिकत्वेनात्यद्भुतःसन्नादर प्रत्ययेन हृदि सन्धार्यमाणत्वातनाकुलसन्दर्भसमर्पितत्वाच्चप्रत्यक्षायमाणः तथाविधं कविभावं प्रतिपत्तॄषु प्रतिबिम्बयति पौनःपुन्येन चेतसि भावनां विनिवेशयतीति भावकत्वं  ।

प्राचुर्यार्थमुदाहरणान्तराणि-यथा वा हर्षचरितेत्यादिना  ।

हर्षचरितप्रारंभे हि देवीं सरस्वतीं अभिशत्पवते क्रोधमुनये क्रुद्धानां वेदानां स्वरूपं उपवर्णितं  ।

यथा – “रोषविमुक्तवेत्रासनैरोङ्कारमुखरमुखैरुत्क्षेपडोलायमानजटाभारभरि तदिग्भिः परिकरबन्धभ्रमितकृष्णाजिनपटच्छ्रायाश्यामायमानदिवसैरमर्षनि ः श्वासडोलाप्रेङ्खोलितब्रह्मयोकैः सोमरसमिवस्वेदविसरव्याजेन स्त्रवद्भिः अग्रिहोत्रपवित्रभास्मस्मेरललाटपट्टकुशतन्तुचीवरीभिराषाढिभिः प्रहरणीकृतदण्डकमण्डलुमण्डलैः मूर्तैः चतुर्वेदैरिति”  ।

योजनायाह-अत्र हि प्रत्यक्षमिवेति  ।

ननु वर्णानावशात्प्रत्यक्षायमाणत्वं किं भाविकविषयः आहोस्विदनुभावविशेषात्प्रत्यक्षायमाणस्य सतो वर्णनमित्यत आह-अयं त्वत्रेत्यादि  ।

लेश इत्यल्पावशिष्टता आह-वर्णानावशादिति  ।

भणितिमाहात्म्यमाविष्करोति – प्रत्तयक्षायमाणस्यैवेति  ।

भणितिमाहात्म्यनैरपेक्ष्येण निजानुभावविशेषादेव प्रत्यक्षायमाणत्वमनुसन्धत्ते  ।

अनातपत्रोऽपीति  ।

अत्र अनातपत्रोऽपि सितातपत्रैरिव वृतत्वमचामरस्यापि बालव्यजनेनैवोपलक्षितत्वं  ।

अनुभावविशेषादेव प्रत्यक्षायमाणत्वं वर्ण्यते न तु वर्णनावशात्प्रत्यक्षायमाणता  ।

इत्थं विषयद्वये अवस्थिते भाविकं एकत्रैवेत्याह-अत्र प्रथमप्रकारेति  ।

न प्रकारान्तरगोचर इति यदुक्तं तत्र हेतुः – कविसमर्पितानामिति  ।

ये हि कविना प्रतिभया समर्प्यन्ते मुखादौ चन्द्रत्वकमलत्वादयो धर्मास्तेषामेवाङ्कलारत्वं  ।

न तु परमार्थतःसन्निविशिष्टानां हिमांशुलावण्यादीनां  ।

अतो द्वितीयप्रकारे प्रत्यक्षायमाणत्वं वस्तुसन्निवेशीति न भाविकालङ्कारः  ।

युक्त्यन्तरेणापि द्रढयितुमाह-अपि च शब्दानाकुलतेत्यादि  ।

चकारादभूतभावित्वादयः शब्दानाकुलता चेति हेतवो भामहानुशासने उद्भटलक्षणे च अनाकुलत्वरूपं यदेतद्व्यस्तसम्बन्धरहितशब्दसमर्पितत्वं प्रत्यक्षायमाणात्वप्रतिपादकमुक्तं तत्कथं प्रयोजकीभवेत् ।

वस्तुमन्निवेशिधर्मगतत्वेनापि भाविकसंभवे निष्प्र योजनमेव स्यात् ।

अतो न द्वितीयप्रकारे भाविकमिति निगमयति-तस्माद्वास्तवमेवेत्यादि  ।

अत्र उत्तरे प्रकारे ननु वास्तवेऽपि सौन्दर्ये लौकिकतया मा भूद्विच्छित्तिः  ।

कवेः ककविनिबन्धस्य वा वक्तुः निबन्धवशादस्त्येव सकलव्यवहर्तृगोचरीभातता दुरपह्नवाविच्छित्तिः  ।

तत्र कुतो न भाविकमित्यत आह-यदि तु वास्तवमपीत्यादिना  ।

यदि वस्तुसन्निवेश्यपि सौन्दर्यनिबन्धवशात्सविच्छित्तिकं प्राञ्च आचार्याः स्वभावोक्तिवदलङ्कारतया वर्णयेयुः तदा अयमपि वास्तवसौन्दर्यविषयतया समाशङ्कितो भाविकप्रकारो नातीव दुःश्लिष्ट एव सत्यां सामग्यां  ।

अयमिहाशयः-यथा हि स्वभावोक्तिः वास्तवसौन्दर्यावलम्बिनी वस्तुस्वभावसौक्ष्म्यात्साधारण्येन सचोतनसंवादाच्च विच्छित्तिमती वर्णिता तथैव वास्तवसौन्दर्यावलम्बितया निबन्धा द्विच्छित्ति विशेषोऽयमलङ्कारतया वर्णनीय एव  ।

तथा च सतिभूतभावित्वादि सामग्रीसद्भावेऽन्यकल्पनागौरवादयमपि भाविकप्रकार इति उन्मीलनं योग्यतया सुशकमेव  ।

उन्मीलिता श्चोल्लेखभावोदयसन्धिशबलतादय अतिप्रथन स्वातन्त्र्येऽपि चिरन्तनसमयव्यतिक्रमः स्यादिति  ।

अमुमेवाशयमाविश्चिकीर्षुः अभियुक्तसंवादायाह-अतैवेत्यादि  ।

भूतभाविनः प्रत्यक्षा इव यत्र क्रियन्ते इत्येतावदेव भाविकलक्षणमकारि यैः खलु तैरशब्दानाकुलत्वादिव लक्षणत्वेनोक्तं  ।

नापि वा वस्तुसन्निवेशिनः  ।

सौन्द्रर्यस्यनिबन्धाद्विच्छित्तिः स्वभावोक्तितुल्यनयशालिनी अलङ्कारत्वेन प्रसिञ्जिता  ।

अतो भूतभाविप्रत्यक्षवद्भाविकलक्षणस्य भाविकस्य शब्दानाकुलत्ववास्तव सौन्दर्यावलम्बेनापि भाविकप्रभेदोऽभ्यनुज्ञायते  ।

यत इत्थं स्वभावोक्तिप्रतियोगितया मीमांसा प्रवर्तयितव्या, अतः सम्प्रति सङ्गतिमाह–स्वभावोक्त्या किञ्चिदिति  ।

वास्तवसौन्दर्यत्वं सादृश्यं  ।

तच्च लौकिकत्वसूक्ष्मत्वस्फुटत्वसाधारण्यताटस्थ्यप्रतीत्तयादिभिः वैधर्म्यप्राचुर्यातल्पकमित्यभिसन्धायोक्तं-किञ्चिदिति  ।

सत्यपि सादृश्यं किञ्चिन्मात्रं अथापि न्यायसञ्चारायेहास्माभिः लक्षणमस्य कृतं  ।

योऽयं प्रत्यक्षवद्भावस्त्वतीतानागतार्थयोः  ।

तद्भावबिम्बनाच्चित्ते विनिवेशाच्चभाविकं  । ।

नाविपर्ययतो भ्रान्तिः साक्षात्त्वान्नेतिवृत्तकं  ।

अन्यत्वानध्यवसितेर्नचात्रातिशयोक्तिता  । ।

न परं वर्तमानार्थं धर्मः प्रत्यक्षतेष्यते  ।

प्रतिपत्र्तनपे क्षायां प्रत्यक्षत्वपरिक्षयात् । ।

प्रत्यक्षत्वे च सामग्री भावनाद्भुतवस्तुजा  ।

प्रत्तयक्षत्वं न संभाव्यमिह नोत्प्रेक्षणं ततः  । ।

अलिङ्गलिङ्गभावाच्च काव्यलिङ्गं न चेष्यते  ।

ताटस्थ्यात्स्फुटसंवित्तेः न तदा रसवद्भ्रमः  । ।

पश्चात्साधारणीभावे रसवांस्तन्निमित्तकः  ।

स्फुटत्वान्नर स्वभावोक्तिर्लोकोत्तीर्णस्य वस्तुनः  । ।

स्वभावोक्तेः रसवतो भेदःसंवादभेदतः  ।

न प्रसादगुणश्चैतद्यस्यादौत्तरकालिकं  । ।

वास्तवेऽपि हि सौन्दर्ये योग्यत्वादस्य सम्भवः  ।

चिरन्तनानुरोधात्तु तथा व्यक्तं न कीर्तितं  । ।

भाविके बुद्धिसंवादो मया स्याद्यदि कस्यतचित् ।

व्याख्याशिल्पस्य निकषः स मे धीमान्भविष्यति  । ।

 

21. Jayadeva [alias Piyusavarsa]: Candraloka (1200 AD)

 

स्वभावोक्तिः स्वभावस्य जात्यादिषु च वर्णनम्  ।

कुरङ्गैरुत्तरङ्गाक्षि स्तब्धकर्णैरुदीक्ष्यते   । । ५.१११  । ।

 

22. Visvanatha kaviraja: Sahityadarpana ) (1384 AD)

 

#<स्वभावोक्तिर्दुरूहार्थस्वक्रियारूपवर्णनं  । । सूत्र १०.९२  । ।>#

 

दुरूहयोः कविमात्रवेद्ययोः अर्थस्य डिम्भादेः स्वयोस्तदेकाश्रययोश्चेष्टास्वरूपयोः  ।

यथा मम–

“लाङ्गूलेनाभिहत्य क्षितितलमसकृद्दारयन्नग्रपद्भ्या- मात्मन्येवावलीय द्रुतमथ गगनं प्रोत्पतन्विक्रमेण  ।

स्फूर्जद्धुङ्कारधोषः प्रतिदिशमखिलान्द्रावयन्नेष जन्तून कोपाविष्टः प्रविष्टः प्रतिवनमरुणोच्छूनचक्षूस्तरक्षुः”  । ।

 

 

23. Mahesvarabhatta’s Vijnapriya and 24. Anantadasa’s Locana (1400)

 

#<स्वभावोक्तिर्दुरूहार्थस्वक्रियारूपवर्णनं  । । साहित्यदर्पण १०.९२  । ।>#

 

दुरूहयोः कविमात्रवेद्ययोः अर्थस्य डिम्भादेः स्वयोस्तदेकाश्रययोश्चेष्टास्वरूपयोः  ।

 

 

************* टीका *************

 

#<विज्ञप्रियाः>#

 

(वि, ष) स्वभावोक्त्यलङ्कारमाह—स्वभावोक्तिरिति  ।

दुरूहार्थेत्यस्यात्यन्तदुरूहस्यार्थस्येति नार्थः  ।

किन्त्वर्थस्य दुरूहा क्रिया इत्येवमन्वयः  ।

अर्थश्च डिम्भादिरित्येवमेव व्याचष्टे—दुरूहयोरिति  ।

दुरूहयोः स्वयोरित्यन्वयः  ।

दुरूहपदार्थमाह—कविमात्रेति  ।

कविभिन्नावेद्ययोरित्यर्थः  ।

अर्थपदं डिम्भादिपरतया व्याचष्टे—अर्थस्येति  ।

डिम्भः शिशुः  ।

आदिपदादप्रकृष्टज्ञानमात्रपरिग्रहः  ।

तदे काश्रययोस्तन्मात्रनिष्ठयोः  ।

 

********** टीका संपूर्णा **********

 

 

यथा मम–

“लाङ्गूलेनाभिहत्य क्षितितलमसकृद्दारयन्नग्रपद्भ्या- मात्मन्येवावलीय द्रुतमथ गगनं प्रोत्पतन्विक्रमेण  ।

स्फूर्जद्धुङ्कारधोषः प्रतिदिशमखिलान्द्रावयन्नेष जन्तून कोपाविष्टः प्रविष्टः प्रतिवनमरुणोच्छूनचक्षूस्तरक्षुः”  । ।

 

 

************* टीका *************

 

#<विज्ञप्रियाः>#

 

(वि, स) लाङ्गूलेनेति  ।

अरुणे उच्छूने स्फारिते चक्षुषी यस्या तादृशः एष तरक्षुः व्याघ्रः प्रतिबलं प्रतिपक्षसमूहं प्रविष्टः  ।

कीदृशः क्षितितलमसकृद्लाङ्गूलेनाभिहत्य अग्रपद्भ्यां दाहयन्विलिखन् ।

अथानन्तरं आत्मन्येवावलीय कुञ्चिताङ्गो भूत्वा द्रुतं गगनं विक्रमेण च प्रोत्पतन्तथा स्फूर्जता विस्फुरता फूत्कारेण घोरः तथास्विलान्जन्तून्प्रतिदिशं द्रावयन्तथा कोपाविष्टोऽरुणोत्फुल्लचक्षुश्च  ।

अत्रारुणेत्यादे रूपस्य क्रियाणां च वर्णनं  ।

 

********** टीका संपूर्णा **********

 

25. Visvesvara Kavicandra: Camatkaracandrika (1400)

 

चिरं जीवतु वक्रोक्तिः स्वभावोक्तिश्च तिष्ठतां  ।

रसोक्तेरेव काव्यानि ग्राहीणीति (ग्राह्याणीति?) मतिर्मम  । । ५.९  । ।

 

26. Vidyadhara: ekavali (14th century) and 27. Mallinatha Suri: Tarala commentary on Vidyadhara’s Ekavali (1350-1450 CE.)

 

28. Simhabhupala: Rasarnavasudhakara (1400-1500)

 

29. Vamana: Kavyalamkarasutra, with Vrtti (1400-1500)

 

30. Rupa Gosvamin: Natakacandrika (1489–1564)

 

31. Rupa Gosvamin: Ujjvalanilamani (1489–1564)

 

32. Apayya dikshit: kuvalayananda (1535)

 

33. Kavi Karnapura: Alankarakaustubha (around 1550)

 

॥ कारिका २७६ ॥

 

स्वभावोक्तिं स्वभावस्य वर्णनं यत्.   .   .   .   ॥

 

यथा—”आराज्जानुकरोपसर्पणपर” इत्यादि (५.१०)

 

जृम्भस्व तात मुखमाकलयामि दन्ताम्

कत्युद्गतास्तव त इत्युदिते जनन्या ।

मित्वा विकाशितमुखस्य हरेर्जयन्ति

द्रोणप्रसूनकलिका इव केऽपि दन्ताम् ॥८.११४॥

 

यथा वा,

स्वभावसुन्दरं कृष्णो राधा सहजसुन्दरी ।

अन्योन्यमनयों प्रीतिरखिलोत्सवकारिणी ॥८.११५॥

 

34. BAladeva VidyabhuShaNa: kavyakaustubha (around 1550)

 

35. Jagannatha Panditaraja: Rasagangadhara, Anana 1 (17th century)

 

36. Krishna brahmatantra Parakala Swami: Alankaramanihara (1917)

 

37. Vagbhatalankara

 

38. Alankarashekhara

 

39. Alankara adhyaya agni purana

 

40. Bharata – nATyashAstra

 

41. Bhatti – rAvaNavadham

 

 

 

No Comments

No comments yet.

RSS feed for comments on this post. TrackBack URI

Leave a comment

*
Powered By Indic IME