pratiSedha alankara (प्रतिषेध)
1. Dandin: Kavyadarsa, Paricchedas 1 & 2 (6th-7th century)
न जातु शक्तिरिन्दोस्ते मुखेन प्रतिगर्जितुम्
कलङ्किनो जडस्येति प्रतिषेधोपमैव सा । । २.३४ । ।
प्रतिषेधोक्तिराक्षेपस्त्रैकाल्यापेक्षया त्रिधा
अथास्य पुनराक्षेप्यभेदानन्त्यादनन्तता । । २.१२० । ।
अनङ्गः पञ्चभिः पुष्पैर्विश्वं व्यजयतेषुभिः
इत्यसंभाव्यं अथवा विचित्रा वस्तुशक्तयः । । २.१२१ । ।
2. Bhamaha: Kavyalamkara (7th century)
प्रतिषेध इवेष्टस्य यो विशेषाभिधित्सया ।
आक्षेप इति तं सन्तः शंसन्ति द्विविधं यथा । । २.६८ । ।
अहं त्वां यदि नेक्षेय क्षणमप्युत्सुका ततः ।
इयदेवास्त्वतोऽन्येन किमुक्तेनाप्रियेण ते । । २.६९ । ।
स्वविक्रमाक्रान्तभुवश्चित्रं यन्न तवोद्धतिः ।
को वा हेतुरलं सिन्धोर्विकारकरणं प्रति । । २.७० । ।
3. Udbhata: Kavyalamkarasarasamgraha (c. 776-807 AD) and 4. Induraja’s Laghuvrtti
#<प्रतिषेध इवेष्टस्य यो विशेषाभिधित्सया ।
आक्षेप इति तं सन्तः शंसन्ति कवयः सदा । । ऊक्स्स्_२.२ । ।>#
इह काचिद्वक्रभणितिस्तथाविधा संभवति यस्यां विधित्सितोर्ऽथो निषेधव्याजेन संस्क्रियते, न तु निषिध्यते ।
तत्र विधित्सितस्यार्थस्य यः प्रतिषेधः क्रियते स प्रतिषेध इव भवति, न तु प्रतिषेध एव ।
अवान्तरवाक्यार्थत्वेन तत्र वाक्यस्यापर्यवसानात् ।
अवान्तरवाक्यार्थता च तत्र निषेधस्य विधित्सितार्थविरोधाद्भवति ।
तत्र हि विधित्सितोर्ऽथः पूर्वोपक्रान्तत्वेन स्थेम्नावतिष्ठमानः स्वविरूद्धत्वेन निषेधं निषेधतात्पर्यात्प्रच्याव्यस्वगतविसेषाभिधानायावान्तरवाक्यार्थीकरोति ।
अतोऽनन्तरोक्तेन प्रकारेणेष्टस्यार्थस्य विशेषमभिधातुं यत्र निषेध इव न तु निषेध एव, असाविष्टार्थनिराकरणस्य लेशेन संभवदाक्षेपसंज्ञकोऽलङ्कारः सत्कविभिरभिधीयते ।
सन्तः कवय इति संबन्धः ।
5. Anandavardhana: Dhvanyaloka (820-890)
6. Abhinavagupta’s Locana (950 – 1020) and 7. Ramasaraka’s Balapriya (modern published in 1940)
8. Kuntaka: Vakroktijivita, with auto-commentary (950-1050)
9. Mammata: Kavyaprakasa (11th century)
10. Mammata: Kavyaprakasa [Karikavali]
11. Vamanacarya Ramabhatta Jhalakikar’s Balabodhini commentary
12. Nagesh Bhatta: Udyota commentary on kavyaprakasha (18th century)
13. Govinda Thakkura: Pradipa commentary on kavyaprakasha (1400-1500)
14. Baidyanatha Tatsat: prabha commentary on kavyaprakasha
15. Bhimsena Dikshita – sudhasagar commentary on Kavyaprakasha
16. Rajasekhara: Kavyamimamsa (10th century)
17. Rudrabhatta: Srngaratilaka (1000 AD)
18. Ruyyaka [Rajanaka]: Alamkarasarvasva, Sutras 1-34 (1150)
19. Jayaratha’s Vimarsini ((1150-1200 AD)
20. Vidyacakravartin’s Samjivani
21. Jayadeva [alias Piyusavarsa]: Candraloka (1200 AD)
प्रतिषेधः प्रसिद्धानां कारणानां अनादरः ।
न युद्धेन भ्रुवोः स्पन्देनैव वीरा निपातिताः । । ३.५ । ।
22. Visvanatha kaviraja: Sahityadarpana ) (1384 AD)
#<ईप्सितार्थप्रतीघातः प्रतिषेध इतीष्यते । । सूत्र ६.१०५ । ।>#
यथा मम प्रभावत्यां विदूषकं प्रति प्रद्युम्नः—सखे ! कथमिह त्वमेकाकी वर्त्तसे ? क्व नु पुनः प्रियसखीजनानुगम्यमाना प्रियतमा मे प्रभावती ? विदूषकः- असुर वैणा आआरिअ कहिं वि णीदा ।
प्रद्युम्नः—(दीर्घं निश्वस्य ) हा पूर्णचन्द्रमुखि ! मत्तचकोरनेत्रे ! मामानताङ्गि ! परिहाय कुतो गतासि ?” ।
गच्छ त्वमद्य ननु जीवित ! तूर्णमेव दैवं कदर्थनपरं कृतकृत्यमस्तु । ।
23. Mahesvarabhatta’s Vijnapriya and 24. Anantadasa’s Locana (1400)
#<ईप्सितार्थप्रतीघातः प्रतिषेध इतीष्यते । । साहित्यदर्पण ६.१०५ । ।>#
यथा मम प्रभावत्यां विदूषकं प्रति प्रद्युम्नः—सखे ! कथमिह त्वमेकाकी वर्त्तसे ? क्व नु पुनः प्रियसखीजनानुगम्यमाना प्रियतमा मे प्रभावती ? विदूषकः- असुर वैणा आआरिअ कहिं वि णीदा ।
प्रद्युम्नः—(दीर्घं निश्वस्य ) हा पूर्णचन्द्रमुखि ! मत्तचकोरनेत्रे ! मामानताङ्गि ! परिहाय कुतो गतासि ?” ।
गच्छ त्वमद्य ननु जीवित ! तूर्णमेव दैवं कदर्थनपरं कृतकृत्यमस्तु । ।
************* टीका *************
#<विज्ञप्रियाः>#
(वि, च) प्रतिषेधरूपमङ्गमाह—ईप्सितेति ।
असुरवैणेति—असुरपतिना आकृष्य कुत्रापि नीता इति संस्कृतं ।
हा पूर्णचन्द्र इति पूर्वार्धे प्रियां सम्बोध्य शोचित्वापरार्द्धे जीवितं सम्बोध्य आह गच्छ त्वमद्यति ।
तत्र एव कदर्थनपरं दैवं कृतकृत्यमस्तु इत्यर्थः ।
अत्रेप्सितस्य प्रभावतीसमागमस्य प्रतिघातः ।
********** टीका संपूर्णा **********
25. Visvesvara Kavicandra: Camatkaracandrika (1400)
#<प्रतिषेधोक्रिराक्षेपो विधेर्वाथ निषेधतः । । ८.४८ । ।>#
विधिनाक्षेपो यथा
कान्तारक्षितिवासखिन्नमनसा कान्त त्वया सेवितुं श्रीसिङ्गक्षितिनाथमन्ध्रनगरी गम्येति चेद्गम्यतां ।
पन्थानः प्रभवन्तु ते शिवतमाः सीता (भूयात्?) प्रसन्नो नृपो (?) यं देशं प्रदधाति ते सुकृतधीस्तत्रैव जन्मास्तु मे । । ८.*९१ । ।
अत्र गम्यतामिति कथितस्य विधिवाक्यस्यैवानुकूलयैव जन्मान्तराशिषा मरणसूचनानिषेधः क्रियत इति सोऽयं विध्याक्षेपः ।
निषेधाक्षेपो यथा
न हि वयं कवयः कवयस्तु ये नगरिगुणानसतोऽपि विवृण्वते ।
निगदितुं न हि सिङ्गवसुन्धराभुजि सन्तोऽपि गुणान्वयमीश्महे । । ८.*९२ । ।
अत्र नेश्महे इति निषेधेन कवित्वलक्षणस्यारोपितगुणवर्णनस्य निषेधः धर्मत इति सोऽयं विध्याक्षेपः (निषेधाक्षेपः?) ।
26. Vidyadhara: ekavali (14th century) and 27. Mallinatha Suri: Tarala commentary on Vidyadhara’s Ekavali (1350-1450 CE.)
28. Simhabhupala: Rasarnavasudhakara (1400-1500)
29. Vamana: Kavyalamkarasutra, with Vrtti (1400-1500)
#<संभाव्यनिषेधनिवर्तने द्वौ प्रतिषेधौ । । सूत्र ५,१.९ । ।>#
सम्भाव्यस्य निषेधस्य निवर्तने स्वौ प्रतिषेधौ प्रयोक्तव्यौ यथा —-
%<समरमूर्धनि येन तरस्विना न न जितो विजयी त्रिदशेश्वरः ।
स खलु तापसबाणपरम्पराकवलितक्षतजः क्षितिमाश्रितः । ।>%
। ।९ । ।
30. Rupa Gosvamin: Natakacandrika (1489–1564)
अथ प्रतिषेधः
ईप्सितार्थप्रतीघातः प्रतिषेध इतीर्यते । । १०५ । ।
यथा तत्रैव
राधा (समीक्ष्य सखेदं आत्मगतम्) कहं इंदीअरेण रहंगीए
संगमिट्ठं अहिणंदिदे मच्छरा कलहंसी मिलिदा । [कथं इन्दीवरेण
रहङ्ग्या सङ्गमितुं अभिनन्दिते मत्सरा कलहंसी मिलिता ।
अत्र देव्यागमनात्कृष्णसङ्गप्रतीघातः ।
31. Rupa Gosvamin: Ujjvalanilamani (1489–1564)
32. Apayya dikshit: kuvalayananda (1535)
33. Kavi Karnapura: Alankarakaustubha (around 1550)
34. BAladeva VidyabhuShaNa: kavyakaustubha (around 1550)
35. Jagannatha Panditaraja: Rasagangadhara, Anana 1 (17th century)
36. Krishna brahmatantra Parakala Swami: Alankaramanihara (1917)
37. Vagbhatalankara
38. Alankarashekhara
39. Alankara adhyaya agni purana
प्रतिषेध इवेष्टस्य यो विशेषाभिधित्सया ।
तमाक्षेपं ब्रुवन्त्यप्रस्तुतस्तोत्रमिदं पुनम् ।
अधिकारादपेतस्य वस्तुनोऽन्यस्य या स्तुतिम् ॥१२॥
40. Bharata – nATyashAstra
कार्येषु विपरीतेषु यदि किञ्चित्प्रवर्तते ।
निवार्यते च कार्यज्ज्ञैः प्रतिषेधः प्रकीर्तितः । । १६.२४ । ।
ईप्सितार्थप्रतीघातः प्रतिषेधः प्रकीर्तितः ।
कार्यात्ययोपगमनं विरोधनमिति स्मृतम् । । १९.९३ । ।
41. Bhatti – rAvaNavadham