hetu alankara (हेतु)
1. Dandin: Kavyadarsa, Paricchedas 1 & 2 (6th-7th century)
हेतुश्च सूक्ष्मलेशौ च वाचां उत्तमभूषणम्
कारकज्ञापकौ हेतू तौ चानेकविधौ यथा । । २.२३५ । ।
अयं आन्दोलितप्रौढचन्दनद्रुमपल्लवः
उत्पादयति सर्वस्य प्रीतिं मलयमारुतः । । २.२३६ । ।
प्रीत्युत्पादनयोग्यस्य रूपस्यात्रोपबृंहणम्
अलंकारतयोद्दिष्टं निवृत्तावपि तत्समम् । । २.२३७ । ।
चन्दनारण्यं आधूय स्पृष्ट्वा मलयनिर्झरान्
पथिकानां अभावाय पवनोऽयं उपस्थितः । । २.२३८ । ।
अभावसाधनायालं एवंभूतो हि मारुतः
विरहज्वरसंभूतमनोज्ञारोचके जने । । २.२३९ । ।
निवर्त्ये च विकार्ये च हेतुत्वं तदपेक्षया
प्राप्ये तु कर्मणि प्रायः क्रियापेक्षैव हेतुता । । २.२४० । ।
हेतुर्निर्वर्तनीयस्य दर्शितः शेषयोर्द्वयोः
दत्त्वोदाहरणद्वन्द्वं ज्ञापको वर्णयिष्यते । । २.२४१ । ।
उत्प्रवालाण्यरण्यानि वाप्यः संफुल्लपङ्कजाः
चन्द्रः पूर्णश्च कामेन पान्थदृष्टेर्विषं कृतम् । । २.२४२ । ।
मानयोग्यां करोमीति प्रियस्थानस्थितां सखीम्
बाला भ्रूभङ्गजिह्माक्षी पश्यति स्फुरिताधरा । । २.२४३ । ।
गतोऽस्तं अर्को भातीन्दुर्यान्ति वासाय पक्षिणः
इतीदं अपि साध्वेव कालावस्थानिवेदने । । २.२४४ । ।
अवध्यैरिन्दुपादानां असाध्यैश्चन्दनाम्भसाम्
देहोष्मभिः सुबोधं ते सखि कामातुरं मनः । । २.२४५ । ।
इति लक्ष्याः प्रयोगेषु रम्या ज्ञापकहेतवः
अभावहेतवः के चिद्व्याह्रियन्ते मनोहराः । । २.२४६ । ।
अनभ्यासेन विद्यानां असंसर्गेण धीमताम्
अनिग्रहेण चाक्षाणांजायते व्यसनं नृणाम् । । २.२४७ । ।
गतः कामकथोन्मादो गलितो यौवनज्वरः
क्षतो मोहश्च्युता तृष्णा कृतं पुण्याश्रमे मनः । । २.२४८ । ।
वनान्यमूनि न गृहाण्येता नद्यो न योषितः
मृगा इमे न दायादास्तन्मे नन्दति मानसम् । । २.२४९ । ।
अत्यन्तं असदार्याणां अनलोचितचेष्टितम्
अतस्तेषां विवर्धन्ते सततं सर्वसंपदः । । २.२५० । ।
उद्यानसहकाराणां अनुद्भिन्ना न मञ्जरी
देयः पथिकनारीणां सतिलः सलिलाञ्जलिः । । २.२५१ । ।
प्रागभावादिरूपस्य हेतुत्वं इह वस्तुनः
भावाभावस्वरूपस्य कार्यस्योत्पादनं प्रति । । २.२५२ । ।
दूरकार्यस्तत्सहजः कार्यानन्तरजस्तथा
अयुक्तयुक्तकार्यौ चेत्यसंख्याश्चित्रहेतवः । । २.२५३ । ।
तेऽमी प्रयोगमार्गेषु गौणवृत्तिव्यपाश्रयाः
अत्यन्तसुन्दरा दृष्टास् तदुदाहृतयो यथा । । २.२५४ । ।
त्वदपाङ्गाह्वयं जैत्रं अनङ्गास्त्रं यदङ्गने
मुक्तं तदन्यतस्तेन सोऽप्यहं मनसि क्षतः । । २.२५५ । ।
आविर्भवति नारीणां वयः पर्यस्तशैशवम्
सहैव विविधैः पुंसां अङ्गजोन्मादविभ्रमैः । । २.२५६ । ।
पश्चात्पर्यस्य किरणानुदीर्णं चन्द्रमण्डलम्
प्रागेव हरिणाक्षीणां उदीर्णो रागसागरः । । २.२५७ । ।
राज्ञां हस्तारविन्दानि कुड्मलीकुरुते कुतः
देव त्वच्चरणद्वन्द्वरागबालातपः स्पृशन् । । २.२५८ । ।
पाणिपद्मानि भूपानां संकोचयितुं ईशते
त्वत्पादनखचन्द्राणां अर्चिषः कुन्दनिर्मलाः । । २.२५९ । ।
इति हेतुविकल्पानां दर्शिता गतिरीदृशी । । इति हेतुचक्रम् । ।
2. Bhamaha: Kavyalamkara (7th century)
हेतुश्च सूक्ष्मो लेशोऽथ नालंकारतया मतः ।
समुदायाभिधानस्य वक्रोक्त्यनभिधानतः । । २.८६ । ।
गतोऽस्तमर्को भातीन्दुर्यान्ति वासाय पक्षिणः ।
इत्येवमादि किं काव्यं वार्तामेनां प्रचक्षते । । २.८७ । ।
3. Udbhata: Kavyalamkarasarasamgraha (c. 776-807 AD) and 4. Induraja’s Laghuvrtti
5. Anandavardhana: Dhvanyaloka (820-890)
6. Abhinavagupta’s Locana (950 – 1020) and 7. Ramasaraka’s Balapriya (modern published in 1940)
8. Kuntaka: Vakroktijivita, with auto-commentary (950-1050)
यथासंख्यमलङ्कारः पूर्वैराम्नातेव यः ।
कारणद्वितयेनापि नालङ्कारः स संमतः । । सूत्र ३.६३ । ।
“यथासंख्यमलङ्कारः पूर्वैराम्नातः” तुल्य (क्रमं) कैश्चित्स्वशब्देनाभिहितः स्वनाम्ना “स नालङ्कारः,कारणद्वितयेनापि” भूषणान्तरभावेन शोभाशून्यतया च ।
तथा च तस्योदाहरणम्—
पद्मेन्दुभृङ्गमातङ्गपुंस्कोकिलकलापिनः ।
वक्त्र कान्तीक्षणगतिस्वरकेशैस्त्वया जिता । । टीका ३.२१५ । ।
अत्रात्मकृतलक्ष्ये भणितिवैचित्र्यविरहात्न काचित्कान्तिर्विद्यते ।
सत्यामप्येतस्यां साम्यं व्यतिरेको वा जीवितमाम्नातं न पुनः समानसंख्यात्वम् ।
(केवल) समानसंख्यात्वे “यथासंख्यमनुदेशः समानाम्” इति सूत्रोदाहरणन्यायात्संख्यातानुदेशात्न किञ्चिदतिरिच्यते ।
केषाञ्चिदाशीः प्रभृतीनामलङ्कारतया मतानां भूषणत्वानुपपत्तेः ।
आसिषस्तु लक्षणोदाहरणानि नेह पठ्यन्ते ।
तेषु चाशंसनीयस्यैवार्थस्य मुख्यतया वर्णनीयत्वादलङ्कार्यत्वमिति प्रेयोलङ्कारोक्तानि दूषणान्यापतन्ति ।
न प्रेयसो विरुद्धः स्यादलङ्कारान्तरे सति ।
संसृष्टिसंकरौ स्यातामन्यत्रादर्शनादपि । । टीका ३.२१६ । ।
(अन्तरश्लोकः) ।
विशेषोक्तेरप्युक्तालङ्कारान्तर्भावेनालङ्कार्यतया च भूषणत्वानुपपत्तिः ।
तथा चोदाहरणमेतस्याः—
स एकस्त्रीणि जयति जगन्ति कुसुमायुधः ।
हरतापि तनुं यस्य शम्भुना न हृतं बलम् । । टीका ३.२१७ । ।
अत्र सकललोकप्रसिद्धजयित्वव्यतिरेकिकन्दर्पस्वभावमात्रं लोकोत्तरत्वेन वाक्यार्थः ।
(एवं) सूक्ष्मलेशहेतवः (नालङ्काराः ।
तथा च) भामहः—
हेतुश्च सूक्ष्मो लेशोऽथ नालङ्कारतया मतः ।
समुदायाभिधेयस्य वक्रोक्त्यनभिधानतः । । टीका ३.२१८ । ।
तथा च सूक्ष्मस्योदाहरणम्—
संकेतकालमनसं विटं ज्ञात्वा विदग्धया ।
हसन्नेत्रार्पिताकूतं लीलापद्मं निमीलितम् । । टीका ३.२१९ । ।
अत्र वर्णनीयात्मा सूक्ष्मो न पुनरलङ्कारणम्, कस्मात्—साक्षादभिधया वक्तव्यार्थस्तथाविधया युक्त्या प्रतिपाद्यते ।
लेशस्योदाहरणं यथा—
राजकन्यानुरक्तं मां रोमोद्भेदेन रक्षकाः ।
अवगच्छेयुरा ज्ञातमहो शीतानिलं वनम् । । टीका ३.२२० । ।
अत्राप्येतदेव वक्तव्यं वस्तु कथं विभूषणतामर्हति ? ।
“यत्परः शब्दः स शब्दार्थः” इति न्यायात् ।
हेतोरुदाहरणम्—
अयमान्दोलितप्रौढचन्दनद्रुमपल्लवः ।
उत्पादयति सर्वस्य प्रीतिं मलयमारुतः । । टीका ३.२२१ । ।
एवमुपमारूपकमपि नालङ्करणम् ।
समग्रगगनायाममानदण्डो रथाङ्गिनः ।
पादो जयति सिद्धस्त्रीमुखेन्दुनवदर्पणः । । टीका ३.२२२ । ।
अत्र रसवदलङ्कार (वत्) वाच्यवाचकयोः संगतिरेव नास्ति ।
तथा च उपमा च रूपकं चेति विग्रहे द्वन्द्वो वा विवक्षितः स्यात्, विशेषणसमासो वा ।
तत्र द्वन्द्वपक्षे क्वचिद्वाक्यैकदेशे रूपकं क्वचिदुपमेति (द्वितिय) प्रणिबन्धनं न किञ्चिदेकस्मिन् ।
तत्रापि प्रत्येकं परिस्पन्दतया स्वस्थाने समं विभातीति परस्परापेक्षां विना समुदायात्मकस्य विशेष्यस्यासंभवात्द्वन्द्वपक्षोऽनुपपन्नः ।
विशेषणसमासेऽपि सर्वस्मिन्वाक्ये, एकदेशे वा द्वितयमपीति द्वयोरेकस्मिन्वस्तुनि युगपत्परस्परविरुद्धयोश्छायातपयोरिव समावेशानुपपत्तिः ।
एकतरपक्षावलम्बिन्या वाचा प्रत्येकं वाच्यवाचकस्वरूपनिश्चितावपरस्यावकाशभङ्गोऽपि न सम्भवतीति परस्परापेक्षां विना समुदायात्मकविशेषणसमासोऽप्यकिचित्करः ।
कथञ्चित्तत्रैकतरनिश्चये प्रमाणाभावादन्यतरकल्पनेन दोषायोगात्संकरव्यवहारः ।
प्रस्तुते पुनरेवंविधस्वरूपनिष्पत्तावपि संसिद्धिविवक्षया यस्यात्मसिद्धऽवपि सन्देहदोलाधिरूढिस्तत्राप्यसम्भूताद्वस्तुतोऽव्यवस्थितैव कदाचिदस्तीति यत्किञ्चिदेव वाक्यसामर्थ्यादवसेयः ।
प्रतीयमानप्रकारात्तृतीयं रमणीयमलङ्करणकलापमिति वाक्यवक्रतासर्वस्वं समाख्येयम् ।
9. Mammata: Kavyaprakasa (11th century)
10. Mammata: Kavyaprakasa [Karikavali]
11. Vamanacarya Ramabhatta Jhalakikar’s Balabodhini commentary
12. Nagesh Bhatta: Udyota commentary on kavyaprakasha (18th century)
13. Govinda Thakkura: Pradipa commentary on kavyaprakasha (1400-1500)
14. Baidyanatha Tatsat: prabha commentary on kavyaprakasha
15. Bhimsena Dikshita – sudhasagar commentary on Kavyaprakasha
16. Rajasekhara: Kavyamimamsa (10th century)
17. Rudrabhatta: Srngaratilaka (1000 AD)
18. Ruyyaka [Rajanaka]: Alamkarasarvasva, Sutras 1-34 (1150)
19. Jayaratha’s Vimarsini ((1150-1200 AD)
20. Vidyacakravartin’s Samjivani
21. Jayadeva [alias Piyusavarsa]: Candraloka (1200 AD)
हेतुस्त्यक्त्वा बहून्पक्षान्युक्त्यैकस्यावधारणम् ।
नेन्दुर्नार्कोऽयं और्वाग्निः सागरादुत्थितो दहन् । । ३.४ । ।
22. Visvanatha kaviraja: Sahityadarpana ) (1384 AD)
23. Mahesvarabhatta’s Vijnapriya and 24. Anantadasa’s Locana (1400)
25. Visvesvara Kavicandra: Camatkaracandrika (1400)
#<अलमर्थानलङ्कर्तुं ये तदाश्रयशोभिनः ।
ये तु जात्यादयः प्राज्ञैः तेर्ऽथालङ्कारसंज्ञया । । ७.१ । ।
जातिर्विभावना हेतुरहेतुस्सूक्ष्ममुत्तरं ।
विरोधः सम्भवोऽन्योन्यं परिवृत्तिर्निदर्शना । । ७.२ । ।
भेदः समाहितं भ्रान्तिः वितर्को मीलितं स्मृतिः ।
भावोऽनुमानार्थापत्ती इति ते विंशतिर्मताः । । ७.३ । ।>#
तत्र जातिः
#<नानावस्थासु सिद्धानि यानि रूपाणि वस्तुनः ।
साक्षाद्विदधती तानि जातिरित्यभिधीयते । । ७.४ । ।>#
सेयं द्विधा निसर्गतत्कारभेदात् ।
आद्या यथा
असकृत्परिधूलवालधीन्मुहुराकम्पितबक्त्रकन्धरान् ।
रिपुभूभृदुपायनीकृतान्तुरगान्पश्यति सिङ्गभूपतिः । । ७.*१ । ।
अत्र तुरगाणामय … … … … … … ।
तात्कालिकी यथा
पूर्वाङ्गं ललितं निधाय मृदुले सिंहासनोपाश्रये पश्यन्बाणमृजूकृतं सवयसा स्मेरैरपाङ्गेक्षणैः ।
कुर्वन्कर्णपुटीं सुधारसमयीं वाचं परीक्षावता- मास्थान्यामनवोतसिङ्गनृपतिः पुष्णाति नेत्रोत्सवं । । ७.*२ । ।
अत्र राज्ञस्तात्कालिकस्वरूपावस्थानकथनात्तात्कालिकी जातिरियं ।
#<प्रसिद्धहेतुव्यावृच्या यत्किञ्चित्कारणान्तरं ।
विभाव्यते खभावो वा विज्ञेया सा विभावना । । ७.५ । ।>#
अत्र कारणान्तरसंभावना यथा
तन्वन्न भारविनतिं फणिराजमूध्र्नां कुर्वन्न धौतशुचितां हरशाटिकानां ।
बध्रन्ननम्बर वितानमजाण्डभागे श्रीसिङ्गभूप तव भाति यशोविलासः । । ७.*३ । ।
अत्र विनतिशुचित्ववितानानां भारधावनांशुकानि हेतुतया प्रसिद्धानि तानि निर्वर्त्य यशसो धावल्यनैर्मल्यबाहुल्यान्यन्यानि कारणानि विभाव्यन्त इतीयं कारणान्तरविभावना ।
स्वभावविभावना यथा
अनुल्लिखिततीक्ष्णाग्रा प्रज्ञा श्रीसिङ्गभूपते ।
अवासितसुगन्धईनि यशांसि तव सन्ततं । । ७.*४ । ।
अत्र तीक्ष्णत्वसुगन्धित्वयोर्लोके उल्लेखनवासने प्रसिद्धभूते इति निर्वर्त्य प्रज्ञायशसोः स्वभावोऽपि विभाव्यत इतीयं स्वभावविभावना ।
#<क्रियायाः कारणं हेतुः मुख्यो गौण इति द्विधा ।
मुख्यहेतुर्द्विधा तत्र कारकज्ञापकक्रमात् । । ७.६ । ।
प्रवृत्तेश्च निवृत्तेश्च प्रयुक्तेश्च त्रिधादिमः । । ७.७ । ।>#
अत्र प्रवर्तकक्रियाविशिष्टकारकहेतुर्यथा
पापक्रियापटलखण्डनपण्डितानि पुण्यक्रियापुनरुदीरणपूरणानि ।
संपादयन्ति सततं प्रमदं जनानां श्रीसिङ्गभूपचरितानि महाद्भुतानि । । ७.*५ । ।
अत्र नायकचरितान्येवं भूतानि प्रचानां प्रागसतः सन्तोषस्य प्रवर्तनक्रियायामाविष्टानीति क्रियाविष्टोऽयं प्रवर्तकः कारकहेतुः ।
स एवानाविष्टो यथा
अवितुरकृतभङ्गुं सिङ्गभूपालमौलेस्त्रिभुवनमपि सिद्धं कीर्तिकल्लोलिनीभिः ।
विषमविषमचक्षुर्जूटकोटीरशृङ्ग- स्खलनवलितफेनस्वर्धुनीस्पधिनीभिः । । ७.*६ । ।
अत्र भुवनविशदभावे कीर्तावनाविष्टां हेतौ तृतीयां प्रयोजयति ।
न तु कर्तरीति क्रियानाविष्टोऽयं प्रवर्तकः कारकहेतुः ।
निवर्तकक्रियाविष्टः कारकहेतुर्यथा
प्रध्वंसाय प्रभवतितरामुग्रसङ्ग्रामरङ्ग- प्रामोदाग्रे प्रतिभटचमूचक्र दुर्विक्रमाणां ।
सिङ्गक्षोणीपतिरभिवहन्घोरदंभोलिपाली- जृम्बारम्भप्रकटनधुरा बन्धुरां खड्गधारां । । ७.*७ । ।
अत्र करवालैकसहायस्य नायकस्य प्रतिभटविक्रमध्वंसनक्रियाकर्तृत्वेनावेशादाविष्टोऽयं निवर्तकः कारकहेतुः ।
स एवानाविष्टो तथा
श्रीसिङ्गभूपकोदण्डादत्यारूढ गुणध्वनेः ।
भजन्ति निर्गुणीभावं वैरस्त्रीकण्ठभूमयः । । ७.*८ । ।
अत्र वैरिकुलपालिकाकण्ठसूत्रनिवर्तनक्रियामनाविशन्नायककोदण्डदण्डो हेतौ पञ्चमीं प्रयोजयतीति क्रियानाविष्टोऽयं निवर्तकः कारकहेतुः ।
क्रियाविष्टप्रयोजकहेतुः यथा
कुमारे श्रीसिङ्गे जलधिरशनां शासति मही- ममर्यादाध्वस्ताः पतनपरिणाहप्रतिभुवः ।
अधर्मा निर्मूला नरकपरिपाकप्रणिधयो विनष्टा दुश्चेष्टाः कलि कलुषपेशीपरिधयः । । ७.*९ । ।
अत्र मर्यादाध्वंसादिषु क्रियासु सप्तमीवाच्यनैमित्तिकाधिकरणकारकभावेन नायकोऽयमाविशन्प्रयोजको भवतीति यथोक्तः ।
स एवानाविष्टो यथा
श्रीसिङ्गक्षितिनाथपार्श्वमयतामज्ञातपूर्वं हि नः तत्सेवाभ्यसनं विधेयमिति ते प्रत्यर्थिपृथ्वीभूजः ।
वृद्धामात्यजनानुपांशु विनयात्सिंहासने स्थापितान्संबद्धाञ्जलयो भजन्ति महिता स्तोत्रैकचित्रोक्तयः । । ७.*१० । ।
अत्र नीचैरवस्थानाञ्जलिबन्धनस्तोत्रकरणादिरूपायां सेवाभ्यसनक्रियायामात्मन्येवात्मनः समावेशो न संभवतीति क्रियानाविष्टोऽयमिति शब्दाबिधेयप्रयोजको नाम कारकहेतुः ।
#<द्वितीया च तृतीया च चतुर्थई सप्तमी च यं ।
क्रियानाविष्टमाचष्टे लक्षको ज्ञापकश्च सः । । ७.८ । ।>#
तत्र द्वितीयावाच्यो लक्षकहेतुर्यथा
श्रीसिङ्गभूपतिं प्रति शीतकरकरवालखण्डितारातिं ।
सङ्गरसीमनि विविधाः कातरचेष्टा भवन्ति विमतानां । । ७.*११ । ।
अत्र क्रियानाविष्टेनैव नायकेनन विमतानां भयजनककातरचेष्टा लभ्यन्ते विशेष्यन्त इति सोऽयं लक्षणहेतुः ।
प्रतिना योगे द्वितीयामुत्पादयतीति द्वितीयावाच्योऽयं ।
तद्वत्तृतीयावाच्यो यथा
साधारणाश्रययुजे युधि बन्धुतायां पश्यन्ति राजाचलराजधान्यां ।
राजानमाज्ञासहजेन पौराः प्रफुल्लसौगन्धिकशेखरेण । । ७.*१२ । ।
अत्र सौगन्धिकशेखरं दर्शनक्रियायामनाविशदेव राजानं ज्ञापयतीतीत्थंभावलक्षणतृतीयया वाज्योऽयं ज्ञापकहेतुः ।
चतुर्थी वाच्यो यथा
श्रीसिङ्गधरणीपालपादसेवा पराङ्मुखः ।
अकाण्डे शेमुषी राज्ञां राज्यभ्रंशाय वैरिणां । । ७.*१३ । ।
अत्रोत्पातभूतया राज्ञामकाण्डतो नायकसेवापराङ्मुखीभावबुद्ध्या तेषां राज्यभ्रंशो ज्ञाप्यते ।
तेनायमुत्पातेन ज्ञाप्यमान इति चतुर्थ्या वाच्यो ज्ञापकहेतुः ।
सप्तमीवाच्यो यथा
मा भूत प्रतिराजकात्प्रतिमुखाः कीर्ति विहायाधुना प्राणेभ्यः क्व नुयात धूतमतयो भोः पश्यतास्मानिति ।
शासत्सु स्वपताकिनी रधिकृतेष्वारूढमन्दस्मितः श्रीसिङ्गक्षितिपो रिपूनभिमुखो बध्नाति दोस्सम्पदः । । ७.*१४ । ।
अत्र सेनाधिपतीनां बलानुशासनक्रियया नायकस्य प्रकाशनक्रिया लक्ष्यते ।
#<हेतुर्गौण इति प्रोक्तो गौणवृत्तिव्यपाश्रयात् ।
वैचित्रीकारणत्वेन चित्रहेतुश्च सत्कृतः । । ७.९ । ।
समकालो विपर्यस्तो युक्तायुक्तावसंगतः ।
इति तस्य समासेन पञ्च भेदाः प्रकीर्तिताः । । ७.१० । ।>#
तत्र कार्येणैव समुत्पन्नो हेतुः समकालः ।
यथा
श्रीसिङ्गभूपः कविताभिषङ्गो रणाङ्गणे वीरगुरुर्निषङ्गात् ।
बाणान्समाकर्षति शातकोणान्प्राणैररीणां समकालमेव । । ७.*१५ । ।
अत्र कार्यपूर्वक्षण वर्ति कारणमित्येतदुल्लङ्ध्य कारणभूतस्य बाणाकर्षणस्य तत्कार्यभूतस्य विमतप्राणाकर्षणस्य च समकालमेवोत्पत्तिकथनात्समकालो नामायं गौणहेतुः ।
कार्यादनन्तरमुत्पन्नो हेतुर्विपर्यस्तः ।
यथा
पश्चान्मुञ्चति ते शङ्गः कोशं श्रीसिङ्गभूपते ।
कोशं मुञ्चन्ति पौरस्त्याः पुरस्तादेव भूभुजः । । ७.*१६ । ।
अत्र पूर्वदिक्पार्थिवभाण्डागारत्यागलक्षणस्य कार्यस्योत्पत्तेरनन्तरत्वात्कारणभूतस्य नायकखड्गमोक्षस्योत्पत्तिकथनादियं विपर्यस्तो नाम चित्रहेतुः ।
युक्तकार्यकारी हेतुर्युक्तः ।
तद्विपरीतो हेनुरयुक्तः ।
तौ यथा
कृपाणभोगी तव सिङ्गभूपते करोत्वरिप्राणसमीरपारणां ।
भवत्प्रतापातपवैभवात्कथं विरोधिनां शोकतमिस्रमेधते । । ७.*१७ । ।
अत्र प्रथमार्धे यत्सर्पाणामुचितं पवनपारणकार्यं तदेव कृतमित्ययं युक्तो नाम गौणहेतुः ।
उत्तरार्धे तेजसो यदुक्तं तमोवर्धनं तदेवकृतमित्यत्युक्तोऽयं गौणहेतुः ।
अधिकरणहेतुरसङ्गतः ।
यथा
भूभारस्तव दक्ष बाहुशिखरे मूध्र्ना नताः पार्थिवाः प्रागल्भ्यं त्वयि सिङ्गभूवर परं वीतत्रपा वैरिणः ।
औन्नत्यं त्वयि गर्विताः प्रतिभट व्याप्तान्तरिक्षान्तराश्चित्रं कारणमेकतः परिगतः कार्योदयस्त्वन्यतः । । ७.*१८ । ।
अत्र नायकगतानां भूभरणादिकारणानां प्रतिनायकगतानां नम्रत्वादिकार्याणां वैयधिकरण्येनासंबद्धत्वादसङ्गतो नामायं गौणहेतुः ।
#<इति हेतुविकल्पानां दर्शिता गतिरीदृशी ।
अभावहेतवोऽप्येवं खयमूह्या विचक्षणैः । । ७.११ । ।
वस्तुस्वभावादन्येन हेतुना वा पराहतः ।
नोत्पादयति यः कार्यं सोऽहेतुरिति गीयते । । ७.१२ । ।>#
वस्तुस्वभावपराहतोऽहेतुर्यथा
रूक्षाहंकृतयो न सन्ति ललिते भेदं गते न भ्रुवौ दृक्कोणोऽपि न रागमेति हसितं मन्दं च नान्तर्हितं ।
दृष्ट्वापि प्रतिगर्जतां क्षितिभुजां संरंभगर्भक्रिया मूर्तिर्दारुणचेष्टयाप्यविकृता श्रीसिङ्गपृथ्वीपते । । ७.*१९ । ।
अत्रातिसंरंभप्रतिनायकचेष्टाविकरण समर्थस्यापि सतताकार्य (?) नायक मूर्तिस्वभावप्रभावपराहता हुंकारादिकालुष्यरूपं कार्यं नोत्पादयतीति सोऽयं तथोक्तः ।
द्वितीयो यथा
दोस्सारं समरेषु सिङ्गनृपतेः प्रायेण जानन्नपि क्ष्मापालेषु भवादृशेष्वपि चिरात्तत्पादसंसेविषु ।
श्रुण्वन्नाप्तजनोद्धतां गिरमपि प्राणेश धीमान्भवान्तत्सेवां न चिकीर्षतीति यदिदं तहैव दुश्चेष्टितात् । । ७.*२० । ।
अत्र नायकदोस्सारज्ञानादिकारणानां प्रतिनायकगिरा लक्षणकार्यकरणसामर्थ्येऽपि भवितव्यतापराहतशक्तित्वकथनात्कारणान्तरपराहतोऽयमहेतुः ।
निरूढे साहित्ये सरसहृदयानन्दसदने वदान्ये श्रीसिङ्गक्षितिपतिलके तिष्ठति पुरः ।
कृतार्थः सर्वार्थे भवति भुवि यः कश्चन न चेल्ललाटे दुर्लंघा दुरितलिपिरस्यैव महती । । ७.*२१ । ।
अत्र विद्यापक्षपातव्रत नायकौदार्यस्य सकलार्थि कृतार्थीकरणसामर्थ्येऽपि यत्र कुत्र चित्कार्यस्यानुत्पादकत्वे तदर्थिलालाटिक दुर्लिपिपराहतत्वकथनादन्यपराहतोऽयमहेतुः ।
#<यस्तु कारणमालेति हेतुसन्तान उच्यते ।
पृथक्पृथगसामर्य्थात्सोऽप्यहेतुर्मतो मम । । ७.१३ । ।>#
यथा
प्राज्ञैः प्राक्तनवासनापरिकरैर्विद्वज्जवोपासनं तेनापि प्रतिभा तथा मधुरया साहित्यसाक्षात्क्रिया ।
तत्प्रोढीरनवोतसिङ्गनृपतेस्स्मेराः कटाभक्रमाः ते लक्ष्मीरधिकां तथा कृतधियां सिद्ध्येत्त्रिवर्गोदयः । । ७.*२२ । ।
अत्र विद्वज्जनोपासनादीनामुत्तरोत्तरहेतुभूतानामपि त्रिवर्गोदये पूर्वपूर्वव्यपेक्षया समुचितनामेव कारणत्वमिति पृथक्पृथगसामर्थ्यात्कारणमालाप्यहेतुरेव ।
26. Vidyadhara: ekavali (14th century) and 27. Mallinatha Suri: Tarala commentary on Vidyadhara’s Ekavali (1350-1450 CE.)
28. Simhabhupala: Rasarnavasudhakara (1400-1500)
29. Vamana: Kavyalamkarasutra, with Vrtti (1400-1500)
30. Rupa Gosvamin: Natakacandrika (1489–1564)
31. Rupa Gosvamin: Ujjvalanilamani (1489–1564)
32. Apayya dikshit: kuvalayananda (1535)
33. Kavi Karnapura: Alankarakaustubha (around 1550)
34. BAladeva VidyabhuShaNa: kavyakaustubha (around 1550)
35. Jagannatha Panditaraja: Rasagangadhara, Anana 1 (17th century)
36. Krishna brahmatantra Parakala Swami: Alankaramanihara (1917)
37. Vagbhatalankara
38. Alankarashekhara
39. Alankara adhyaya agni purana
सिषाधयिषितार्थस्य हेतुर्भवति साधकम् ।
कारको ज्ञापक इति द्विधा सोऽप्युपजायते ॥२७॥
प्रवर्तते कारकाख्यं प्राक्पश्चात्कार्यजन्मनम् ।
पूर्वशेष इति ख्यातस्तयोरेव विशेषयोम् ॥२८॥
कार्यकारणभावाद्वा स्वभावाद्वा नियामकात।
अविनाभावनियमो ह्यविनाभावदर्शनात।
ज्ञापकाख्यस्य भेदोऽस्ति नदीपूरादिदर्शनात॥२९॥
40. Bharata – nATyashAstra
बहूनां भाषमाणानामेकस्यार्थविनिर्णयात् ।
सिद्धोपमानवचनं हेतुरित्यभिसंज्ञितः । । १६.१५ । ।
यत्प्रयोजनसामर्थ्यात्वाक्यमिष्टार्थसाधकम् ।
समासोक्तं मनोग्राहि स हेतुरिति संज्ञितः । । १६.१४० । ।
41. Bhatti – rAvaNavadham