Aug 24 2011

hetu alankara (हेतु)

1. Dandin: Kavyadarsa, Paricchedas 1 & 2 (6th-7th century)

 

हेतुश्च सूक्ष्मलेशौ च वाचां उत्तमभूषणम्

कारकज्ञापकौ हेतू तौ चानेकविधौ यथा   । । २.२३५  । ।

अयं आन्दोलितप्रौढचन्दनद्रुमपल्लवः

उत्पादयति सर्वस्य प्रीतिं मलयमारुतः   । । २.२३६  । ।

प्रीत्युत्पादनयोग्यस्य रूपस्यात्रोपबृंहणम्

अलंकारतयोद्दिष्टं निवृत्तावपि तत्समम्  । । २.२३७  । ।

चन्दनारण्यं आधूय स्पृष्ट्वा मलयनिर्झरान्

पथिकानां अभावाय पवनोऽयं उपस्थितः   । । २.२३८  । ।

अभावसाधनायालं एवंभूतो हि मारुतः

विरहज्वरसंभूतमनोज्ञारोचके  जने   । । २.२३९  । ।

निवर्त्ये च विकार्ये च हेतुत्वं तदपेक्षया

प्राप्ये तु कर्मणि प्रायः क्रियापेक्षैव हेतुता   । । २.२४०  । ।

हेतुर्निर्वर्तनीयस्य दर्शितः शेषयोर्द्वयोः

दत्त्वोदाहरणद्वन्द्वं ज्ञापको वर्णयिष्यते   । । २.२४१  । ।

उत्प्रवालाण्यरण्यानि वाप्यः संफुल्लपङ्कजाः

चन्द्रः पूर्णश्च कामेन पान्थदृष्टेर्विषं कृतम्  । । २.२४२  । ।

मानयोग्यां करोमीति प्रियस्थानस्थितां सखीम्

बाला भ्रूभङ्गजिह्माक्षी पश्यति स्फुरिताधरा   । । २.२४३  । ।

गतोऽस्तं अर्को भातीन्दुर्यान्ति वासाय पक्षिणः

इतीदं अपि साध्वेव कालावस्थानिवेदने   । । २.२४४  । ।

अवध्यैरिन्दुपादानां असाध्यैश्चन्दनाम्भसाम्

देहोष्मभिः सुबोधं ते सखि कामातुरं मनः   । । २.२४५  । ।

इति लक्ष्याः प्रयोगेषु  रम्या ज्ञापकहेतवः

अभावहेतवः के चिद्व्याह्रियन्ते  मनोहराः   । । २.२४६  । ।

अनभ्यासेन विद्यानां असंसर्गेण धीमताम्

अनिग्रहेण चाक्षाणांजायते व्यसनं नृणाम्  । । २.२४७  । ।

गतः कामकथोन्मादो गलितो यौवनज्वरः

क्षतो  मोहश्च्युता तृष्णा कृतं पुण्याश्रमे मनः   । । २.२४८  । ।

वनान्यमूनि न गृहाण्येता नद्यो न योषितः

मृगा इमे न दायादास्तन्मे नन्दति मानसम्  । । २.२४९  । ।

अत्यन्तं असदार्याणां अनलोचितचेष्टितम्

अतस्तेषां विवर्धन्ते सततं सर्वसंपदः   । । २.२५०  । ।

उद्यानसहकाराणां अनुद्भिन्ना न मञ्जरी

देयः पथिकनारीणां सतिलः सलिलाञ्जलिः   । । २.२५१  । ।

प्रागभावादिरूपस्य  हेतुत्वं इह वस्तुनः

भावाभावस्वरूपस्य कार्यस्योत्पादनं प्रति   । । २.२५२  । ।

दूरकार्यस्तत्सहजः कार्यानन्तरजस्तथा

अयुक्तयुक्तकार्यौ चेत्यसंख्याश्चित्रहेतवः    । । २.२५३  । ।

तेऽमी प्रयोगमार्गेषु गौणवृत्तिव्यपाश्रयाः

अत्यन्तसुन्दरा दृष्टास् तदुदाहृतयो यथा   । । २.२५४  । ।

त्वदपाङ्गाह्वयं जैत्रं अनङ्गास्त्रं यदङ्गने

मुक्तं तदन्यतस्तेन सोऽप्यहं मनसि क्षतः   । । २.२५५  । ।

आविर्भवति नारीणां वयः  पर्यस्तशैशवम्

सहैव विविधैः पुंसां अङ्गजोन्मादविभ्रमैः   । । २.२५६  । ।

पश्चात्पर्यस्य किरणानुदीर्णं चन्द्रमण्डलम्

प्रागेव हरिणाक्षीणां उदीर्णो रागसागरः   । । २.२५७  । ।

राज्ञां हस्तारविन्दानि कुड्मलीकुरुते कुतः

देव त्वच्चरणद्वन्द्वरागबालातपः स्पृशन्  । । २.२५८  । ।

पाणिपद्मानि भूपानां संकोचयितुं ईशते

त्वत्पादनखचन्द्राणां अर्चिषः कुन्दनिर्मलाः    । । २.२५९  । ।

इति हेतुविकल्पानां दर्शिता गतिरीदृशी  । । इति हेतुचक्रम् । ।

 

2. Bhamaha: Kavyalamkara (7th century)

 

हेतुश्च सूक्ष्मो लेशोऽथ नालंकारतया मतः   ।

समुदायाभिधानस्य वक्रोक्त्यनभिधानतः   । । २.८६  । ।

गतोऽस्तमर्को भातीन्दुर्यान्ति वासाय पक्षिणः   ।

इत्येवमादि किं काव्यं वार्तामेनां प्रचक्षते   । । २.८७  । ।

 

3. Udbhata: Kavyalamkarasarasamgraha (c. 776-807 AD) and 4. Induraja’s Laghuvrtti

 

5. Anandavardhana: Dhvanyaloka (820-890)

 

6. Abhinavagupta’s Locana (950 – 1020) and 7. Ramasaraka’s Balapriya (modern published in 1940)

 

8. Kuntaka: Vakroktijivita, with auto-commentary (950-1050)

 

यथासंख्यमलङ्कारः पूर्वैराम्नातेव यः   ।

कारणद्वितयेनापि नालङ्कारः स संमतः   । । सूत्र ३.६३  । ।

 

“यथासंख्यमलङ्कारः पूर्वैराम्नातः” तुल्य (क्रमं) कैश्चित्स्वशब्देनाभिहितः स्वनाम्ना “स नालङ्कारः,कारणद्वितयेनापि” भूषणान्तरभावेन शोभाशून्यतया च   ।

तथा च तस्योदाहरणम्—

 

पद्मेन्दुभृङ्गमातङ्गपुंस्कोकिलकलापिनः   ।

वक्त्र कान्तीक्षणगतिस्वरकेशैस्त्वया जिता   । । टीका ३.२१५  । ।

 

अत्रात्मकृतलक्ष्ये भणितिवैचित्र्यविरहात्न काचित्कान्तिर्विद्यते   ।

सत्यामप्येतस्यां साम्यं व्यतिरेको वा जीवितमाम्नातं न पुनः समानसंख्यात्वम्  ।

(केवल) समानसंख्यात्वे “यथासंख्यमनुदेशः समानाम्” इति सूत्रोदाहरणन्यायात्संख्यातानुदेशात्न किञ्चिदतिरिच्यते   ।

केषाञ्चिदाशीः प्रभृतीनामलङ्कारतया मतानां भूषणत्वानुपपत्तेः   ।

आसिषस्तु लक्षणोदाहरणानि नेह पठ्यन्ते   ।

तेषु चाशंसनीयस्यैवार्थस्य मुख्यतया वर्णनीयत्वादलङ्कार्यत्वमिति प्रेयोलङ्कारोक्तानि दूषणान्यापतन्ति   ।

 

 

न प्रेयसो विरुद्धः स्यादलङ्कारान्तरे सति   ।

संसृष्टिसंकरौ स्यातामन्यत्रादर्शनादपि   । । टीका ३.२१६  । ।

 

(अन्तरश्लोकः)   ।

विशेषोक्तेरप्युक्तालङ्कारान्तर्भावेनालङ्कार्यतया च भूषणत्वानुपपत्तिः   ।

तथा चोदाहरणमेतस्याः—

 

स एकस्त्रीणि जयति जगन्ति कुसुमायुधः   ।

हरतापि तनुं यस्य शम्भुना न हृतं बलम्  । । टीका ३.२१७  । ।

 

अत्र सकललोकप्रसिद्धजयित्वव्यतिरेकिकन्दर्पस्वभावमात्रं लोकोत्तरत्वेन वाक्यार्थः   ।

(एवं) सूक्ष्मलेशहेतवः (नालङ्काराः   ।

तथा च) भामहः—

 

हेतुश्च सूक्ष्मो लेशोऽथ नालङ्कारतया मतः   ।

समुदायाभिधेयस्य वक्रोक्त्यनभिधानतः   । । टीका ३.२१८  । ।

 

तथा च सूक्ष्मस्योदाहरणम्—

 

संकेतकालमनसं विटं ज्ञात्वा विदग्धया   ।

हसन्नेत्रार्पिताकूतं लीलापद्मं निमीलितम्  । । टीका ३.२१९  । ।

 

अत्र वर्णनीयात्मा सूक्ष्मो न पुनरलङ्कारणम्, कस्मात्—साक्षादभिधया वक्तव्यार्थस्तथाविधया युक्त्या प्रतिपाद्यते   ।

लेशस्योदाहरणं यथा—

 

राजकन्यानुरक्तं मां रोमोद्भेदेन रक्षकाः   ।

अवगच्छेयुरा ज्ञातमहो शीतानिलं वनम्  । । टीका ३.२२०  । ।

 

अत्राप्येतदेव वक्तव्यं वस्तु कथं विभूषणतामर्हति ?   ।

“यत्परः शब्दः स शब्दार्थः” इति न्यायात् ।

हेतोरुदाहरणम्—

 

अयमान्दोलितप्रौढचन्दनद्रुमपल्लवः   ।

उत्पादयति सर्वस्य प्रीतिं मलयमारुतः   । । टीका ३.२२१  । ।

 

एवमुपमारूपकमपि नालङ्करणम्  ।

 

समग्रगगनायाममानदण्डो रथाङ्गिनः   ।

पादो जयति सिद्धस्त्रीमुखेन्दुनवदर्पणः   । । टीका ३.२२२  । ।

 

अत्र रसवदलङ्कार (वत्) वाच्यवाचकयोः संगतिरेव नास्ति   ।

तथा च उपमा च रूपकं चेति विग्रहे द्वन्द्वो वा विवक्षितः स्यात्, विशेषणसमासो वा   ।

तत्र द्वन्द्वपक्षे क्वचिद्वाक्यैकदेशे रूपकं क्वचिदुपमेति (द्वितिय) प्रणिबन्धनं न किञ्चिदेकस्मिन्  ।

तत्रापि प्रत्येकं परिस्पन्दतया स्वस्थाने समं विभातीति परस्परापेक्षां विना समुदायात्मकस्य विशेष्यस्यासंभवात्द्वन्द्वपक्षोऽनुपपन्नः   ।

विशेषणसमासेऽपि सर्वस्मिन्वाक्ये, एकदेशे वा द्वितयमपीति द्वयोरेकस्मिन्वस्तुनि युगपत्परस्परविरुद्धयोश्छायातपयोरिव समावेशानुपपत्तिः   ।

एकतरपक्षावलम्बिन्या वाचा प्रत्येकं वाच्यवाचकस्वरूपनिश्चितावपरस्यावकाशभङ्गोऽपि न सम्भवतीति परस्परापेक्षां विना समुदायात्मकविशेषणसमासोऽप्यकिचित्करः   ।

कथञ्चित्तत्रैकतरनिश्चये प्रमाणाभावादन्यतरकल्पनेन दोषायोगात्संकरव्यवहारः   ।

प्रस्तुते पुनरेवंविधस्वरूपनिष्पत्तावपि संसिद्धिविवक्षया यस्यात्मसिद्धऽवपि सन्देहदोलाधिरूढिस्तत्राप्यसम्भूताद्वस्तुतोऽव्यवस्थितैव कदाचिदस्तीति यत्किञ्चिदेव वाक्यसामर्थ्यादवसेयः   ।

प्रतीयमानप्रकारात्तृतीयं रमणीयमलङ्करणकलापमिति वाक्यवक्रतासर्वस्वं समाख्येयम्  ।

 

9. Mammata: Kavyaprakasa (11th century)

 

10. Mammata: Kavyaprakasa [Karikavali]

 

11. Vamanacarya Ramabhatta Jhalakikar’s Balabodhini commentary

 

12. Nagesh Bhatta: Udyota commentary on kavyaprakasha (18th century)

 

13. Govinda Thakkura: Pradipa commentary on kavyaprakasha (1400-1500)

 

14. Baidyanatha Tatsat: prabha commentary on kavyaprakasha

 

15. Bhimsena Dikshita – sudhasagar commentary on Kavyaprakasha

 

16. Rajasekhara: Kavyamimamsa (10th century)

 

17. Rudrabhatta: Srngaratilaka (1000 AD)

 

18. Ruyyaka [Rajanaka]: Alamkarasarvasva, Sutras 1-34 (1150)

 

19. Jayaratha’s Vimarsini ((1150-1200 AD)

 

20. Vidyacakravartin’s Samjivani

 

21. Jayadeva [alias Piyusavarsa]: Candraloka (1200 AD)

 

हेतुस्त्यक्त्वा बहून्पक्षान्युक्त्यैकस्यावधारणम्  ।

नेन्दुर्नार्कोऽयं और्वाग्निः सागरादुत्थितो दहन्  । । ३.४  । ।

 

22. Visvanatha kaviraja: Sahityadarpana ) (1384 AD)

 

23. Mahesvarabhatta’s Vijnapriya and 24. Anantadasa’s Locana (1400)

 

25. Visvesvara Kavicandra: Camatkaracandrika (1400)

 

#<अलमर्थानलङ्कर्तुं ये तदाश्रयशोभिनः  ।

ये तु जात्यादयः प्राज्ञैः तेर्ऽथालङ्कारसंज्ञया  । । ७.१  । ।

जातिर्विभावना हेतुरहेतुस्सूक्ष्ममुत्तरं  ।

विरोधः सम्भवोऽन्योन्यं परिवृत्तिर्निदर्शना  । । ७.२  । ।

भेदः समाहितं भ्रान्तिः वितर्को मीलितं स्मृतिः  ।

भावोऽनुमानार्थापत्ती इति ते विंशतिर्मताः  । । ७.३  । ।>#

 

तत्र जातिः

#<नानावस्थासु सिद्धानि यानि रूपाणि वस्तुनः  ।

साक्षाद्विदधती तानि जातिरित्यभिधीयते  । । ७.४  । ।>#

 

सेयं द्विधा निसर्गतत्कारभेदात् ।

 

आद्या यथा

असकृत्परिधूलवालधीन्मुहुराकम्पितबक्त्रकन्धरान् ।

रिपुभूभृदुपायनीकृतान्तुरगान्पश्यति सिङ्गभूपतिः  । । ७.*१  । ।

 

अत्र तुरगाणामय … … … … … …  ।

 

तात्कालिकी यथा

पूर्वाङ्गं ललितं निधाय मृदुले सिंहासनोपाश्रये पश्यन्बाणमृजूकृतं सवयसा स्मेरैरपाङ्गेक्षणैः  ।

कुर्वन्कर्णपुटीं सुधारसमयीं वाचं परीक्षावता- मास्थान्यामनवोतसिङ्गनृपतिः पुष्णाति नेत्रोत्सवं  । । ७.*२  । ।

 

अत्र राज्ञस्तात्कालिकस्वरूपावस्थानकथनात्तात्कालिकी जातिरियं  ।

 

#<प्रसिद्धहेतुव्यावृच्या यत्किञ्चित्कारणान्तरं  ।

विभाव्यते खभावो वा विज्ञेया सा विभावना  । । ७.५  । ।>#

 

अत्र कारणान्तरसंभावना यथा

तन्वन्न भारविनतिं फणिराजमूध्र्नां कुर्वन्न धौतशुचितां हरशाटिकानां  ।

बध्रन्ननम्बर वितानमजाण्डभागे श्रीसिङ्गभूप तव भाति यशोविलासः  । । ७.*३  । ।

 

अत्र विनतिशुचित्ववितानानां भारधावनांशुकानि हेतुतया प्रसिद्धानि तानि निर्वर्त्य यशसो धावल्यनैर्मल्यबाहुल्यान्यन्यानि कारणानि विभाव्यन्त इतीयं कारणान्तरविभावना  ।

 

स्वभावविभावना यथा

अनुल्लिखिततीक्ष्णाग्रा प्रज्ञा श्रीसिङ्गभूपते  ।

अवासितसुगन्धईनि यशांसि तव सन्ततं  । । ७.*४  । ।

 

अत्र तीक्ष्णत्वसुगन्धित्वयोर्लोके उल्लेखनवासने प्रसिद्धभूते इति निर्वर्त्य प्रज्ञायशसोः स्वभावोऽपि विभाव्यत इतीयं स्वभावविभावना  ।

 

#<क्रियायाः कारणं हेतुः मुख्यो गौण इति द्विधा  ।

मुख्यहेतुर्द्विधा तत्र कारकज्ञापकक्रमात् । । ७.६  । ।

प्रवृत्तेश्च निवृत्तेश्च प्रयुक्तेश्च त्रिधादिमः  । । ७.७  । ।>#

 

अत्र प्रवर्तकक्रियाविशिष्टकारकहेतुर्यथा

पापक्रियापटलखण्डनपण्डितानि पुण्यक्रियापुनरुदीरणपूरणानि  ।

संपादयन्ति सततं प्रमदं जनानां श्रीसिङ्गभूपचरितानि महाद्भुतानि  । । ७.*५  । ।

 

अत्र नायकचरितान्येवं भूतानि प्रचानां प्रागसतः सन्तोषस्य प्रवर्तनक्रियायामाविष्टानीति क्रियाविष्टोऽयं प्रवर्तकः कारकहेतुः  ।

 

स एवानाविष्टो यथा

अवितुरकृतभङ्गुं सिङ्गभूपालमौलेस्त्रिभुवनमपि सिद्धं कीर्तिकल्लोलिनीभिः  ।

विषमविषमचक्षुर्जूटकोटीरशृङ्ग- स्खलनवलितफेनस्वर्धुनीस्पधिनीभिः  । । ७.*६  । ।

 

अत्र भुवनविशदभावे कीर्तावनाविष्टां हेतौ तृतीयां प्रयोजयति  ।

न तु कर्तरीति क्रियानाविष्टोऽयं प्रवर्तकः कारकहेतुः  ।

 

निवर्तकक्रियाविष्टः कारकहेतुर्यथा

प्रध्वंसाय प्रभवतितरामुग्रसङ्ग्रामरङ्ग- प्रामोदाग्रे प्रतिभटचमूचक्र दुर्विक्रमाणां  ।

सिङ्गक्षोणीपतिरभिवहन्घोरदंभोलिपाली- जृम्बारम्भप्रकटनधुरा बन्धुरां खड्गधारां  । । ७.*७  । ।

 

अत्र करवालैकसहायस्य नायकस्य प्रतिभटविक्रमध्वंसनक्रियाकर्तृत्वेनावेशादाविष्टोऽयं निवर्तकः कारकहेतुः  ।

 

स एवानाविष्टो तथा

श्रीसिङ्गभूपकोदण्डादत्यारूढ गुणध्वनेः  ।

भजन्ति निर्गुणीभावं वैरस्त्रीकण्ठभूमयः  । । ७.*८  । ।

 

अत्र वैरिकुलपालिकाकण्ठसूत्रनिवर्तनक्रियामनाविशन्नायककोदण्डदण्डो हेतौ पञ्चमीं प्रयोजयतीति क्रियानाविष्टोऽयं निवर्तकः कारकहेतुः  ।

 

क्रियाविष्टप्रयोजकहेतुः यथा

कुमारे श्रीसिङ्गे जलधिरशनां शासति मही- ममर्यादाध्वस्ताः पतनपरिणाहप्रतिभुवः  ।

अधर्मा निर्मूला नरकपरिपाकप्रणिधयो विनष्टा दुश्चेष्टाः कलि कलुषपेशीपरिधयः  । । ७.*९  । ।

 

अत्र मर्यादाध्वंसादिषु क्रियासु सप्तमीवाच्यनैमित्तिकाधिकरणकारकभावेन नायकोऽयमाविशन्प्रयोजको भवतीति यथोक्तः  ।

 

स एवानाविष्टो यथा

श्रीसिङ्गक्षितिनाथपार्श्वमयतामज्ञातपूर्वं हि नः तत्सेवाभ्यसनं विधेयमिति ते प्रत्यर्थिपृथ्वीभूजः  ।

वृद्धामात्यजनानुपांशु विनयात्सिंहासने स्थापितान्संबद्धाञ्जलयो भजन्ति महिता स्तोत्रैकचित्रोक्तयः  । । ७.*१०  । ।

 

अत्र नीचैरवस्थानाञ्जलिबन्धनस्तोत्रकरणादिरूपायां सेवाभ्यसनक्रियायामात्मन्येवात्मनः समावेशो न संभवतीति क्रियानाविष्टोऽयमिति शब्दाबिधेयप्रयोजको नाम कारकहेतुः  ।

 

#<द्वितीया च तृतीया च चतुर्थई सप्तमी च यं  ।

क्रियानाविष्टमाचष्टे लक्षको ज्ञापकश्च सः  । । ७.८  । ।>#

 

तत्र द्वितीयावाच्यो लक्षकहेतुर्यथा

श्रीसिङ्गभूपतिं प्रति शीतकरकरवालखण्डितारातिं  ।

सङ्गरसीमनि विविधाः कातरचेष्टा भवन्ति विमतानां  । । ७.*११  । ।

 

अत्र क्रियानाविष्टेनैव नायकेनन विमतानां भयजनककातरचेष्टा लभ्यन्ते विशेष्यन्त इति सोऽयं लक्षणहेतुः  ।

प्रतिना योगे द्वितीयामुत्पादयतीति द्वितीयावाच्योऽयं  ।

 

तद्वत्तृतीयावाच्यो यथा

साधारणाश्रययुजे युधि बन्धुतायां पश्यन्ति राजाचलराजधान्यां  ।

राजानमाज्ञासहजेन पौराः प्रफुल्लसौगन्धिकशेखरेण  । । ७.*१२  । ।

 

अत्र सौगन्धिकशेखरं दर्शनक्रियायामनाविशदेव राजानं ज्ञापयतीतीत्थंभावलक्षणतृतीयया वाज्योऽयं ज्ञापकहेतुः  ।

 

चतुर्थी वाच्यो यथा

श्रीसिङ्गधरणीपालपादसेवा पराङ्मुखः  ।

अकाण्डे शेमुषी राज्ञां राज्यभ्रंशाय वैरिणां  । । ७.*१३  । ।

 

अत्रोत्पातभूतया राज्ञामकाण्डतो नायकसेवापराङ्मुखीभावबुद्ध्या तेषां राज्यभ्रंशो ज्ञाप्यते  ।

तेनायमुत्पातेन ज्ञाप्यमान इति चतुर्थ्या वाच्यो ज्ञापकहेतुः  ।

 

सप्तमीवाच्यो यथा

मा भूत प्रतिराजकात्प्रतिमुखाः कीर्ति विहायाधुना प्राणेभ्यः क्व नुयात धूतमतयो भोः पश्यतास्मानिति  ।

शासत्सु स्वपताकिनी रधिकृतेष्वारूढमन्दस्मितः श्रीसिङ्गक्षितिपो रिपूनभिमुखो बध्नाति दोस्सम्पदः  । । ७.*१४  । ।

 

अत्र सेनाधिपतीनां बलानुशासनक्रियया नायकस्य प्रकाशनक्रिया लक्ष्यते  ।

 

#<हेतुर्गौण इति प्रोक्तो गौणवृत्तिव्यपाश्रयात् ।

वैचित्रीकारणत्वेन चित्रहेतुश्च सत्कृतः  । । ७.९  । ।

समकालो विपर्यस्तो युक्तायुक्तावसंगतः  ।

इति तस्य समासेन पञ्च भेदाः प्रकीर्तिताः  । । ७.१०  । ।>#

 

तत्र कार्येणैव समुत्पन्नो हेतुः समकालः  ।

 

यथा

श्रीसिङ्गभूपः कविताभिषङ्गो रणाङ्गणे वीरगुरुर्निषङ्गात् ।

बाणान्समाकर्षति शातकोणान्प्राणैररीणां समकालमेव  । । ७.*१५  । ।

 

अत्र कार्यपूर्वक्षण वर्ति कारणमित्येतदुल्लङ्ध्य कारणभूतस्य बाणाकर्षणस्य तत्कार्यभूतस्य विमतप्राणाकर्षणस्य च समकालमेवोत्पत्तिकथनात्समकालो नामायं गौणहेतुः  ।

कार्यादनन्तरमुत्पन्नो हेतुर्विपर्यस्तः  ।

 

यथा

पश्चान्मुञ्चति ते शङ्गः कोशं श्रीसिङ्गभूपते  ।

कोशं मुञ्चन्ति पौरस्त्याः पुरस्तादेव भूभुजः  । । ७.*१६  । ।

 

अत्र पूर्वदिक्पार्थिवभाण्डागारत्यागलक्षणस्य कार्यस्योत्पत्तेरनन्तरत्वात्कारणभूतस्य नायकखड्गमोक्षस्योत्पत्तिकथनादियं विपर्यस्तो नाम चित्रहेतुः  ।

युक्तकार्यकारी हेतुर्युक्तः  ।

तद्विपरीतो हेनुरयुक्तः  ।

 

तौ यथा

कृपाणभोगी तव सिङ्गभूपते करोत्वरिप्राणसमीरपारणां  ।

भवत्प्रतापातपवैभवात्कथं विरोधिनां शोकतमिस्रमेधते  । । ७.*१७  । ।

 

अत्र प्रथमार्धे यत्सर्पाणामुचितं पवनपारणकार्यं तदेव कृतमित्ययं युक्तो नाम गौणहेतुः  ।

उत्तरार्धे तेजसो यदुक्तं तमोवर्धनं तदेवकृतमित्यत्युक्तोऽयं गौणहेतुः  ।

अधिकरणहेतुरसङ्गतः  ।

यथा

भूभारस्तव दक्ष बाहुशिखरे मूध्र्ना नताः पार्थिवाः प्रागल्भ्यं त्वयि सिङ्गभूवर परं वीतत्रपा वैरिणः  ।

औन्नत्यं त्वयि गर्विताः प्रतिभट व्याप्तान्तरिक्षान्तराश्चित्रं कारणमेकतः परिगतः कार्योदयस्त्वन्यतः  । । ७.*१८  । ।

 

अत्र नायकगतानां भूभरणादिकारणानां प्रतिनायकगतानां नम्रत्वादिकार्याणां वैयधिकरण्येनासंबद्धत्वादसङ्गतो नामायं गौणहेतुः  ।

 

#<इति हेतुविकल्पानां दर्शिता गतिरीदृशी  ।

अभावहेतवोऽप्येवं खयमूह्या विचक्षणैः  । । ७.११  । ।

वस्तुस्वभावादन्येन हेतुना वा पराहतः  ।

नोत्पादयति यः कार्यं सोऽहेतुरिति गीयते  । । ७.१२  । ।>#

 

वस्तुस्वभावपराहतोऽहेतुर्यथा

रूक्षाहंकृतयो न सन्ति ललिते भेदं गते न भ्रुवौ दृक्कोणोऽपि न रागमेति हसितं मन्दं च नान्तर्हितं  ।

दृष्ट्वापि प्रतिगर्जतां क्षितिभुजां संरंभगर्भक्रिया मूर्तिर्दारुणचेष्टयाप्यविकृता श्रीसिङ्गपृथ्वीपते  । । ७.*१९  । ।

 

अत्रातिसंरंभप्रतिनायकचेष्टाविकरण समर्थस्यापि सतताकार्य (?) नायक मूर्तिस्वभावप्रभावपराहता हुंकारादिकालुष्यरूपं कार्यं नोत्पादयतीति सोऽयं तथोक्तः  ।

 

द्वितीयो यथा

दोस्सारं समरेषु सिङ्गनृपतेः प्रायेण जानन्नपि क्ष्मापालेषु भवादृशेष्वपि चिरात्तत्पादसंसेविषु  ।

श्रुण्वन्नाप्तजनोद्धतां गिरमपि प्राणेश धीमान्भवान्तत्सेवां न चिकीर्षतीति यदिदं तहैव दुश्चेष्टितात् । । ७.*२०  । ।

 

अत्र नायकदोस्सारज्ञानादिकारणानां प्रतिनायकगिरा लक्षणकार्यकरणसामर्थ्येऽपि भवितव्यतापराहतशक्तित्वकथनात्कारणान्तरपराहतोऽयमहेतुः  ।

 

निरूढे साहित्ये सरसहृदयानन्दसदने वदान्ये श्रीसिङ्गक्षितिपतिलके तिष्ठति पुरः  ।

कृतार्थः सर्वार्थे भवति भुवि यः कश्चन न चेल्ललाटे दुर्लंघा दुरितलिपिरस्यैव महती  । । ७.*२१  । ।

 

अत्र विद्यापक्षपातव्रत नायकौदार्यस्य सकलार्थि कृतार्थीकरणसामर्थ्येऽपि यत्र कुत्र चित्कार्यस्यानुत्पादकत्वे तदर्थिलालाटिक दुर्लिपिपराहतत्वकथनादन्यपराहतोऽयमहेतुः  ।

 

#<यस्तु कारणमालेति हेतुसन्तान उच्यते  ।

पृथक्पृथगसामर्य्थात्सोऽप्यहेतुर्मतो मम  । । ७.१३  । ।>#

 

यथा

प्राज्ञैः प्राक्तनवासनापरिकरैर्विद्वज्जवोपासनं तेनापि प्रतिभा तथा मधुरया साहित्यसाक्षात्क्रिया  ।

तत्प्रोढीरनवोतसिङ्गनृपतेस्स्मेराः कटाभक्रमाः ते लक्ष्मीरधिकां तथा कृतधियां सिद्ध्येत्त्रिवर्गोदयः  । । ७.*२२  । ।

 

अत्र विद्वज्जनोपासनादीनामुत्तरोत्तरहेतुभूतानामपि त्रिवर्गोदये पूर्वपूर्वव्यपेक्षया समुचितनामेव कारणत्वमिति पृथक्पृथगसामर्थ्यात्कारणमालाप्यहेतुरेव  ।

 

26. Vidyadhara: ekavali (14th century) and 27. Mallinatha Suri: Tarala commentary on Vidyadhara’s Ekavali (1350-1450 CE.)

 

28. Simhabhupala: Rasarnavasudhakara (1400-1500)

 

29. Vamana: Kavyalamkarasutra, with Vrtti (1400-1500)

 

30. Rupa Gosvamin: Natakacandrika (1489–1564)

 

31. Rupa Gosvamin: Ujjvalanilamani (1489–1564)

 

32. Apayya dikshit: kuvalayananda (1535)

 

33. Kavi Karnapura: Alankarakaustubha (around 1550)

 

34. BAladeva VidyabhuShaNa: kavyakaustubha (around 1550)

 

35. Jagannatha Panditaraja: Rasagangadhara, Anana 1 (17th century)

 

36. Krishna brahmatantra Parakala Swami: Alankaramanihara (1917)

 

37. Vagbhatalankara

 

38. Alankarashekhara

 

39. Alankara adhyaya agni purana

 

सिषाधयिषितार्थस्य हेतुर्भवति साधकम् ।

कारको ज्ञापक इति द्विधा सोऽप्युपजायते ॥२७॥

प्रवर्तते कारकाख्यं प्राक्पश्चात्कार्यजन्मनम् ।

पूर्वशेष इति ख्यातस्तयोरेव विशेषयोम् ॥२८॥

कार्यकारणभावाद्वा स्वभावाद्वा नियामकात।

अविनाभावनियमो ह्यविनाभावदर्शनात।

ज्ञापकाख्यस्य भेदोऽस्ति नदीपूरादिदर्शनात॥२९॥

 

40. Bharata – nATyashAstra

 

बहूनां भाषमाणानामेकस्यार्थविनिर्णयात् ।

सिद्धोपमानवचनं हेतुरित्यभिसंज्ञितः   । । १६.१५  । ।

यत्प्रयोजनसामर्थ्यात्वाक्यमिष्टार्थसाधकम्  ।

समासोक्तं मनोग्राहि स हेतुरिति संज्ञितः   । । १६.१४०  । ।

 

41. Bhatti – rAvaNavadham

 

 

 

No Comments

No comments yet.

RSS feed for comments on this post. TrackBack URI

Leave a comment

*
Powered By Indic IME