bhAvika alankara(भाविक)
1. Dandin: Kavyadarsa, Paricchedas 1 & 2 (6th-7th century)
तद्भाविकं इति प्राहुः प्रबन्धविषयं गुणम्
भावः कवेरभिप्रायः काव्येष्वासिद्धि संस्थितः । । २.३६४ । ।
परस्परोपकारित्वं सर्वेषां वस्तुपर्वणाम्
विशेषाणां व्यर्थानां अक्रिया स्थानवर्णना । । २.३६५ । ।
व्यक्तिरुक्तिक्रमबलाद्गम्भीरस्यापि वस्तुनः
भावायत्तां इदं सर्वं इति तद्भाविकं विदुः । ।इति भाविकम् । । । । २.३६६ । ।
यच्च संध्यङ्गवृत्त्यङ्गलक्षणाद्यागमान्तरे
2. Bhamaha: Kavyalamkara (7th century)
भाविकत्वमिति प्राहुः प्रबन्धविषयं गुणम् ।
प्रत्यक्षा इव दृश्यन्ते यत्रार्था भूतभाविनः । । ३.५३ । ।
चित्रोदात्ताद्भुतार्थत्वं कथायाः स्वभिनीतता ।
शब्दानाकुलता चेति तस्य हेतून्प्रचक्षते । । ३.५४ । ।
3. Udbhata: Kavyalamkarasarasamgraha (c. 776-807 AD) and 4. Induraja’s Laghuvrtti
भाविकम्—–
#<प्रत्यक्षा इव यत्रार्था दृश्यन्ते भूतभाविनः ।
अत्यद्भुताः स्यात्तद्वाचामनाकुल्येन भाविकं । । ऊक्स्स्_६.६ । ।>#
सांप्रतिकेन प्रध्वंसाभावेनोपलक्ष्यमाणाः पदार्थाः भूताः, यथा इदानीं युधिष्ठिरादयः ।
ये तु साप्रतिकेन प्रागभावेन उपलक्ष्यन्ते ते भाविनः, यथा इदानीं भगवदवतारः कल्की भविष्णुयशाः ।
एवमनन्तरोपलक्षिताः भूता भाविनश्च येर्ऽथास्ते सांप्रतिकप्रध्वंसाभावप्रागभावविविक्ततया वर्तमानायमानाः प्रत्यक्षा इव यत्र दृश्यन्ते तद्भाविकं नामालङ्कारो भवेत् ।
अत्र हेतुर्वाचामनाकुलता अर्थानां चात्यद्भुतत्वं ।
तदुक्तम्—वाचामनाकुल्येनेति ।
अत्यद्भुता इति च ।
तत्र वाचामनाकुलता व्यस्तसंबन्धरहितलोकप्रसिद्धशब्दोपनिबन्धाज्झगित्यर्थप्रतीतिकारिता ।
तस्यां हि सत्यां कवेः संबन्धी यो भावः
आश्रयः शृङ्गारादिरससंवलितचतुर्वर्गोपायभूतविशिष्टार्थोल्लेखी स कविनैव सहृदयैः श्रोतृभिः स्वाभिप्रायेऽभेदेन तत्तत्काव्यप्रतिबिम्बितरूपतया साक्षात्क्रियते ।
श्रोतृणामपि हि तथाविधस्वच्छशब्दानुभवद्रावितान्तरात्मनां सहृदयानां स्वाभिप्रायप्रतिमुद्रा तत्र संक्रामति ।
अतः कवेर्योऽसावभिप्रायस्तद्गोचरीकृता भूता भाविनोऽपि पदार्थस्तत्र सहृदयैः श्रोतृभिः स्वाभिप्रायाभेदेन प्रत्यक्षा इव दृश्यन्ते ।
यथा चात्र शब्दगतमनाकुलत्वमनन्तरोक्तेन प्रकारेण हेतुस्तथार्थगतमपि चित्रोदात्तार्थोपनिबन्धहेतुकमत्यद्भुतत्वं द्रष्टव्यं ।
तदुक्तं भाविकमुपक्रम्य भामहेन—”चित्रोदात्ताद्भुतार्थत्वं कथायां स्वभिनीतता ।
शब्दानाकुलता चेति तस्य हेतून्प्रचक्षते”इति । ।
स्वभिनीततेत्यभिनयादिद्वारेण शृङ्गारादिरससंवलितत्वं चतुर्वर्गोपायस्योक्तं ।
तदेवमेवंविधहेतुनिबन्धनं कविश्रोतृभावद्वितयसंमीलनात्मकं भाविकं द्रष्टव्यं ।
अत एव चात्र कविसंबन्धिनो भावस्य श्रोतृभावाभेदाध्यवसितस्य पुरः–स्फुरद्रूपस्य विद्यमानत्वाद्भाविकव्यपदेशः भावोऽस्मिन्विद्यते इति भाविकं ।
तदाहुः—”रसोल्लासी कवेरात्मा स्वच्छे शब्दार्थदर्पणो ।
माधुर्यौजोयुतप्रौढे प्रतिविन्द्य प्रकाशते ।
संपीतस्वच्छशब्दार्थद्राविताभ्यन्तरस्ततः ।
श्रोता तत्साम्यतः पुष्टिं चतुर्वर्गे परां व्रजेत्”इति ।
स्वच्छ इति प्रसादगुणोऽभिहितः ।
प्रौढ चतुर्वर्गे परां व्रजेत्”इति ।
स्वच्छ इति प्रसादगुणोऽभिहितः ।
प्रौढ इति तु सालङ्कारता ।
संपीतौ सम्यगास्वादितौ ।
तत्साम्यत इति स्वभिप्रायाभेदेन कविगतस्याभिप्रायस्याध्यवसानादित्यर्थः ।
तस्योदाहरणम्—-
करोषि पीडां प्रीतिं च निरञ्जनविलोचना ।
मूर्त्यानया समुद्वीक्ष्य नानाभरणशोभया । । ऊक्स्स्_६.*७ । ।
अत्राभरणोचितमूर्तित्वेऽपि निरञ्जनविलोचनत्वोपलक्षितादाभरणत्यागात्पीडा ।
सहजसौन्दर्यनिर्भरत्वेन तु आभरणसंपाद्यायाः शोभायाः परिदृश्यमानत्वात्प्रीतिः ।
तेनात्र सांप्रतिकप्रध्वंसाभावोपलक्षितत्वाद्भूषणसंबन्धो व्यतितोऽप्यद्भुतो योऽसौ वपुःप्रकर्षस्तद्वशेन प्रत्यत्र इव कविनोपनिबद्धः ।
तथैव चासौ सहृदयानां चमत्कारमावहति ।
संततमुत्कृष्टतया वैचित्र्येण ईक्षणीया आभरणशोभा यस्यामिति बहुव्रीहिः ।
5. Anandavardhana: Dhvanyaloka (820-890)
6. Abhinavagupta’s Locana (950 – 1020) and 7. Ramasaraka’s Balapriya (modern published in 1940)
8. Kuntaka: Vakroktijivita, with auto-commentary (950-1050)
9. Mammata: Kavyaprakasa (11th century)
#<प्रत्यक्षा इव यद्भावाः क्रियन्ते भूतभाविनः ।
तद्भाविकं … >#
भूताश्च भाविनश्चेति द्वन्द्वः । भावः कवेरभिप्रायोऽत्रास्तीति भाविकं । उदाहरणं —-
{आसीदञ्जनमत्रेति पश्यामि तव लोचने ।
भाविभूषणसंभारां साक्षात्कुर्वे तवाकृतिं । ।५०० । ।}
%<(भल्लटशतक ६९)>%
आद्ये भूतस्य द्वितीये भाविनो दर्शनं । ।
10. Mammata: Kavyaprakasa [Karikavali]
#<प्रत्यक्षा इव यद्भावाः क्रियन्ते भूतभाविनः ।
तद्भाविकं … >#
11. Vamanacarya Ramabhatta Jhalakikar’s Balabodhini commentary
#<प्रत्यक्षा इव यद्भावाः क्रियन्ते भूतभाविनः ।
तद्भाविकम्>#
भूताश्व भाविनश्वेति द्वन्द्वः ।
भावः कवेरभिप्रायोऽत्रास्तीति भाविकं ।
उदाहरणम्– आसीदञ्जनमत्रेति पश्यामि तव लोचने ।
भाविभूषणसंभारां साक्षात्कुर्वे तवाकृतिं । । ५०० । ।
आद्ये भूतस्य द्वितीये भाविनो दर्शनं । ।
12. Nagesh Bhatta: Udyota commentary on kavyaprakasha (18th century)
13. Govinda Thakkura: Pradipa commentary on kavyaprakasha (1400-1500)
14. Baidyanatha Tatsat: prabha commentary on kavyaprakasha
15. Bhimsena Dikshita – sudhasagar commentary on Kavyaprakasha
16. Rajasekhara: Kavyamimamsa (10th century)
17. Rudrabhatta: Srngaratilaka (1000 AD)
18. Ruyyaka [Rajanaka]: Alamkarasarvasva, Sutras 1-34 (1150)
#<अतीतानागतयोः प्रत्यक्षायमाणत्वं भाविकं । । ऱुआस्स्_७९ । ।>#
19. Jayaratha’s Vimarsini ((1150-1200 AD)
20. Vidyacakravartin’s Samjivani
भाविकं दूरदुर्लक्षं व्यक्तं व्याक्रियतेतमां । ।
तत्र सूत्रम्-
#<अतीतानागतयोः प्रत्यक्षायमाणत्वं भाविकं । । ऱुआस्स्_७९ । ।>#
भूतभाविनोः अर्थयोः अत्यद्भुतत्वादनाकुलसम्बन्धशब्दसमर्पितत्वाच्च प्रत्यक्षायमाणात्वं भाविकं ।
व्याचष्टे-अतीतेत्यादि ।
कविगतेति ।
कविभावस्य श्रोतरि प्रतिबिम्बतापत्तिर्भाविकमित्यर्थः ।
भावो वेति ।
भावि भाविकस्य भावनैकप्राणत्वात् ।
निरुक्त्यन्तरं, सोऽत्रा(स्ती०)ति ।
भाविकमित्यनुषङ्गः ।
ननु मुनिर्जयतीत्युदाहरिष्यमाणे भूतभाविनोः प्रत्यक्षता भ्रान्तिः किं नेष्यत इत्यत आह-न चेयमिति ।
भूतभाविनोर्भूतभावित्वेनैव प्रत्यक्षीभावे का भ्रान्तिरिति भावः ।
ननु भूतभाविनोर्भूतभावित्वेन प्रकाशने वस्तुवृत्तमात्रमित्यत आह-नापि रामोऽभूदित्यादि ।
रामोऽभूदिति वस्तुवृत्तान्तमात्रे हि न प्रत्यक्षायमाणता ।
इह तु स्फुटस्य प्रत्यक्षत्वस्य उपलम्भः ।
न हि प्रत्यक्षत्वेन अध्यवसायादतिशयोक्तिरित्यत आह-नापीयमिति ।
तत्र हेतुः ।
अन्यस्यान्यतयेति ।
अतिशयोक्तौ हि अन्यदन्यतया अध्यवसीयते इह तु न तथा ।
भूते भाविनि प्रत्यक्षत्वेच अन्यत्वाधायवसायाभावः ।
एतदुपदर्शयति-न हि भूतभावीति ।
भूतं अभूतत्वेन भाविन अभावित्वेन ना ध्यवसीयते ।
एतद्विपर्ययोऽपि नास्तीत्याह-अभूतभाविवेति ।
यञ्चात्र प्रत्यक्षत्वं तदप्यन्यथा अध्यवसीयते इत्याह-न चापीति ।
विपर्ययोऽपि नास्तीत्याह-अप्रत्यक्षं वेति ।
ननुभूतभाविनोः अप्रत्यक्षयोः प्रत्यक्षायमाणत्वं अन्यथाध्यवसाय इत्यत आह-न हि प्रत्यक्षत्वमिति ।
यदि प्रत्यक्षत्वं केवलवलस्तुधर्मः तदा भूतभाविनोरप्रत्यक्षता ।
वर्तमानस्य तु प्रत्यक्षत्वं इति भवेद्व्यवस्था ।
न हि प्रत्यक्षत्वं केवलवस्तुधर्मः ।
किं तर्हि? प्रतिपत्त्रपेक्षयैव प्रत्यक्षस्येति वस्तुधर्मता ।
न हि प्रतिपत्तारमनपेक्ष्य वस्तुनि प्रत्यक्षता नाम काचित् ।
अत्र प्रामाणिकसंवादायाह-यचदाहुरित्यादि ।
यो ह्यर्थः स्वग्रहकप्रतिपत्तुः ज्ञानप्रकाशं स्वान्वयव्यतिरेकावनुकारयति ।
स्वयमस्ति चेत्ज्ञानप्रतिभासोऽस्ति, नास्तिचेन्नास्तीति व्यवस्थापयति ।
स प्रत्यक्ष इत्यर्थः ।
अतः प्रत्यक्षत्वं न केवलं वस्तुधर्मः प्रतिपत्तुस्तु सामग्री तत्र उपयुज्यत इत्याह-केव्रलमिति ।
असामग्रीके प्रतिपत्तरि न वस्तु प्रत्यक्षीभवतीत्येतावद्वक्तुं शक्यते ।
न तु प्रतिपत्त्रन पेक्षेति भावः ।
तां सामग्रीं विवेचयति- सा चेति ।
लोकयात्रायां लौकिकार्थं प्रत्यक्षीकरणे देशकालादिव्यवधानादतीन्द्रियेर्ऽथे योगिनां ऐकाग्षात्मकभावनारूपा ।
साक्षात्करणसामग्री काव्यवस्तुगतमत्यद्भुतत्धं योजयति-(सा चेति । ) अत्यद्भुतानि हि वस्तूनि आदरप्रत्ययेन हृदि सन्धार्यमाणानि तथा भावनां प्रयोजयन्ति ।
इत्थं च सतिलिकयात्रायां वर्तमानार्थसाक्षात्करणसामग्री चक्षुरादिर्योगिनां काव्यतत्त्वविदां चातीतानागतार्थसाक्षात्करणभावना ।
अतो योगिवत्काव्यतत्त्वविदामतीतार्थसाक्षात्कारो नान्यथाध्यवसाय इति नातिशयोक्तिः शङ्क्या ।
ननु प्रत्यक्षतयैव प्रतीयन्ते भूतभाविन इति प्रतीयमानोत्प्रेक्षा किं न स्यादित्यत आह-नापि भूतभाविनामिति ।
तत्र हेतुः – तस्याभिमानेति ।
अभिमानःसंभावना तद्रूपस्याध्यवसाय इति उत्प्रेक्षाया लक्षणं ।
न ह्यत्राप्रत्यक्षं प्रत्यक्षतया संभाव्यते ।
किं तर्हि? प्रत्यक्षं दृश्यते ।
अतो नोत्प्रेक्षा ।
अनुत्प्रेक्षात्वे गमकान्तरमाह-नापि वस्त्विति ।
पदार्थगतो हि इवार्थः उपमायाः प्रयोजको नोत्प्रेक्षात्वे गमकान्तरमाह-नापि वस्त्विति ।
पदार्थगतो हि इवार्थः उपमायाः प्रयोजको नोत्प्रेक्षायाः ।
तत्र हेतुः-तस्या अभिमानेति ।
उत्प्रेक्षा हि अभिमानरूपा प्रतिपत्तॄधर्मः ।
तस्मादभिमानगोचर एव इवार्थं उत्प्रेक्षाप्रयोजक इति भावः ।
अत्र संवादायाह-यदाहुरित्यादि ।
सुखादिवज्ज्ञानधर्मेऽभिमानेऽध्यवसायोक्तिरित्यर्थः ।
ननु प्रतिपत्तॄधर्मोऽध्यवसायस्तर्हि प्रयोक्तुः कवेः न स्यादित्यत आह-काव्यविषये चेति ।
कविरपि खलु काव्ये सहृदय एव ।
अतो नेयमुत्प्रेक्षा ।
नन्वद्भुतदर्शनात्प्रत्यक्षत्वमिहेति काव्यलिङ्गमित्यत आह-नाप्यत्यद्भुतेति ।
अत्यद्भुतपदार्थसाक्षात्कारो हि प्रत्यक्षायमाणत्वे हेतुः ।
अकाव्यलिङ्गत्वे हेतुमाह-लिङ्गलिङ्गीति ।
हेतुत्वे सत्यपि लिङ्गलिङ्गिभावेन नेह प्रतीतिः ।
तथात्वे पारोक्ष्यं प्रसजेदिति भावः ।
कथं तर्हि प्रतीतिरित्यत आह-योगिवदिति ।
नन्वत्यद्भुतत्वहेतुका सचमत्कारप्रतीतिरिह पुरः स्फुरतीव ।
अतोऽत्यद्भुतत्वहेतुको रसवदलङ्कार एव इत्यत आह-नाप्ययमिति ।
तत्र हेतुः -रत्यादीति ।
परिपाट्यापि सचमत्कारप्रतीतेः पुरः स्फुरणा साधारणी, अथापि न भाविकरसवतोरभेदः ।
कुतः? रतिहासादिचित्तवृत्तीनां तदनुरञ्जितत्वेन विभावानुभावव्यभिचारिणां च यदा परमाद्वैतज्ञानिवत्ममैव शत्रोरेवेत्यादिविशेषपरिहारात्साधारण्येन हृदयसंवादिनी प्रतीतिः तदैव रसवतो भावः ।
विभानादीन्रसवत्प्रस्तुतौ विवेचयिष्येन हृदयसंवादिनी प्रतीतिः तदैव रसवतो भावः ।
विभावादीन्रसवत्प्रस्तुतौ विवेचयिष्यामः ।
इह तुभूतभाविनां प्रतीतिर्न साधारण्येन अपितु प्रतिपत्तुः ताट्स्थ्येन ।
स्फुटतया तादस्थ्यं हि भेदः ।
यथा साङ्ख्यादिसिद्धानां भेदे न सर्वं जानतां प्रतीतिः ।
ननु ताटस्थ्येन प्रतीतावतीतादिस्फुटत्वं हेतुः ।
स्फुटप्रतीतिश्च प्रमुखे निष्पत्तौ तु साधारण्यप्रतीतिरेव ।
अतः कथं भाविकमित्यत आह- स्फुटप्रतिपत्तीति ।
स्फुटप्रतिपत्तिनिमित्तकस्फुटप्रतीत्युत्थापितभाविकहेतुक इत्यर्थः ।
“मुनिर्जयति”त्यादौ हि कुम्भसम्भवादिवृत्तमादौ ताटस्थ्येन अतीतादिरूपतया प्रतीयते तदैव भाविकसिद्धिः ।
अथोक्तरकालं प्रतिपत्तॄप्रतीतेः ताद्रूप्यापत्त्या विभावादीनां साधारण्ये रसवान्भाविकहेतुकःस्यात् ।
न चैतावता भाविकापलापःशक्यत इति यावत् ।
नन्विह सुन्दरवस्तुस्वभावश्चेन्न वर्ण्येत ततस्तदप्रत्यक्षायमाणता ।
अतःस्वभावोक्तिरित्यत आह-नापीयमिति ।
तत्र हेतुः – तस्यां लौकिकेति ।
स्वभावोक्तेर्हि लौकिकानामेव वस्तूनां यःसूक्ष्मो धर्मः प्रेक्षावत्प्रतिभैक समधिगम्यस्तस्य वर्णने हृदयसंवादःसाधारण्येन ।
इह पुनरत्यद्भुतत्वेनालौकिकानां वस्तूनां प्रतीतिः तटस्थतया ।
अतो हृदयसंवादातिरिक्तानामंसानां वैलक्षण्यं ।
ननु लौकिकवस्तुप्रतीतिसाधारण्ये स्वभावोक्तिः, अलौकिकवस्तुप्रतीतिस्फुटत्वेतु भाविकमिति व्यवस्था ।
यदि लौकिकवस्तुप्रतीतेःस्पुटत्वं तदा किं स्यादित्यत आह-क्वचित्त्विति ।
लौकिकवस्तुबलात्स्वभावोक्तिः ।
स्फुटत्वप्रतीतिबलात्भाविकमतःसङ्करः ।
हृदयसंवादसाधारण्यात्स्वाभावोक्तिरसवतोर्योऽयमभेदः प्रसङ्गात्प्रतीतस्तत्र विवेचयति-न च हृदयसंवादेति ।
स्वभावोक्तौ रसवति च यद्यपि साधारण्येन हृदयसंवादःसचेतसां, तथापि नानयोरभेदः ।
तत्र हेतुः – वस्तुस्वभावेति ।
सत्यपि साधारण्ये वस्तुस्वभावस्य संवादः स्वभावोक्तौ रसवति तु चित्तवृत्तेः ।
वस्तुस्वभावचित्तवृत्तिरूपत्वातनयोःसंपाते तु सङ्करः इत्याह-उभयसंवादेति ।
समावेशःसङ्करः ।
समावेशघटने लिङ्गमाह-यत्र वस्तुगतेति ।
यत्र चित्तवृत्तिसंवादवति विषये वस्तुगतसूक्ष्मधर्मवर्णना स्यादित्यर्थः ।
अन्यत्रत्विति ।
सूक्ष्मवस्तुधर्मवर्णनाविरहिणि चित्तवृत्तिसंवादमात्रशालिनि विषये रसवानेव ।
ननु व्यस्तसम्बन्धरहितसन्दर्भसमर्पितत्वमिह लक्षणं तथात्वे च प्रसादाख्यो गुण एवेत्यत आह-नाप्ययं शब्देत्यादि ।
इह यद्यपि झटित्यर्थसमर्पणं शब्दानाकुलत्वहेतकः अथापि नायं प्रसादः ।
तत्र हेतुः – तस्य हि स्फुटा स्फुटेत्यादि ।
स्फुटोऽस्तु वाक्यार्थो अस्फुटो वा ।
तदुभयगतत्वेन झटिति समर्पणं प्रसादस्वरूपं ।
यदाह – शुष्केन्धनाग्निवत्स्वच्छ्रजलवत्सहसैव यत् ।
व्याप्नोत्यन्यत्प्रसादोऽसौ सर्वत्र विहितस्थितिः । ।
इति । ।
अत्र शुष्केन्धनाग्निवदित्यस्फुटं वाक्यार्थं प्रस्युपमोक्तिः स्वच्छ्रजलवदिति स्फुटं प्रति ।
अतःसर्वत्र विहित स्थितित्वेन झटिति समर्पणं रूपं प्रसादस्य ।
अस्य तु प्रसादे झटिति समर्पितस्य स्फुटत्वेन प्रतीतौ सत्यां समनन्तरं स्वरूपप्रतिलम्भः ।
स्वरूपं हि अस्यश्रोतरि कविगतभावप्रतिबिम्बनं पौनःपुन्येन चेतसि विनिवेशस्वभावभावनात्मकं वा ।
तथाविधस्य तु प्रतिबम्बनं स्फुटप्रतीत्युत्तरकालमेव ।
अतः प्रसादोऽस्याङ्गत्वेन प्राक्सिद्धिकः ।
अयं तु तदुपकृत(स)मनन्तर(स्व)सिद्धिकः ।
ततोऽन्य एव ।
अदो न कुत्रचिदन्तर्भीव इति निगमयति-तस्मादयमिति ।
सर्वोत्तीर्णः भ्रान्त्यादिषु प्रसादगुणान्तरशङ्कितेष्वेकत्रापि नान्तर्भावयितुं शक्य इत्यर्थः ।
इत्थं लक्षणतोऽस्यनानुपपत्तिः काचित् ।
लक्ष्यतोऽपि प्राचुर्यमित्याह-लक्ष्ये चायमिति ।
मुनिर्जयतीति ।
मननात्मुनिः ।
योगीन्द्रत्वान्महात्मा ।
स्वयं तु कुम्भसंभवः ।
तथाविधेन येन एकस्मिन्नेव चुलुके पिपासोद्धृतनिरवशेषार्णवार्भ्भसि प्रसृतिगर्ते दिव्यौ अमानुषानुभावातिशयौ विष्णोर्दशावतारेषु प्रसिद्धापदानौ मत्स्यकच्छ्रपौ यदृच्छ्रया चुलुकान्तर्भावात्पर्याकुलं लुठन्तौ दृष्टौ ।
अत्रातीतवृत्तोऽपि मुनिः अलौकिकत्वेनात्यद्भुतःसन्नादर प्रत्ययेन हृदि सन्धार्यमाणत्वातनाकुलसन्दर्भसमर्पितत्वाच्चप्रत्यक्षायमाणः तथाविधं कविभावं प्रतिपत्तॄषु प्रतिबिम्बयति पौनःपुन्येन चेतसि भावनां विनिवेशयतीति भावकत्वं ।
प्राचुर्यार्थमुदाहरणान्तराणि-यथा वा हर्षचरितेत्यादिना ।
हर्षचरितप्रारंभे हि देवीं सरस्वतीं अभिशत्पवते क्रोधमुनये क्रुद्धानां वेदानां स्वरूपं उपवर्णितं ।
यथा – “रोषविमुक्तवेत्रासनैरोङ्कारमुखरमुखैरुत्क्षेपडोलायमानजटाभारभरि तदिग्भिः परिकरबन्धभ्रमितकृष्णाजिनपटच्छ्रायाश्यामायमानदिवसैरमर्षनि ः श्वासडोलाप्रेङ्खोलितब्रह्मयोकैः सोमरसमिवस्वेदविसरव्याजेन स्त्रवद्भिः अग्रिहोत्रपवित्रभास्मस्मेरललाटपट्टकुशतन्तुचीवरीभिराषाढिभिः प्रहरणीकृतदण्डकमण्डलुमण्डलैः मूर्तैः चतुर्वेदैरिति” ।
योजनायाह-अत्र हि प्रत्यक्षमिवेति ।
ननु वर्णानावशात्प्रत्यक्षायमाणत्वं किं भाविकविषयः आहोस्विदनुभावविशेषात्प्रत्यक्षायमाणस्य सतो वर्णनमित्यत आह-अयं त्वत्रेत्यादि ।
लेश इत्यल्पावशिष्टता आह-वर्णानावशादिति ।
भणितिमाहात्म्यमाविष्करोति – प्रत्तयक्षायमाणस्यैवेति ।
भणितिमाहात्म्यनैरपेक्ष्येण निजानुभावविशेषादेव प्रत्यक्षायमाणत्वमनुसन्धत्ते ।
अनातपत्रोऽपीति ।
अत्र अनातपत्रोऽपि सितातपत्रैरिव वृतत्वमचामरस्यापि बालव्यजनेनैवोपलक्षितत्वं ।
अनुभावविशेषादेव प्रत्यक्षायमाणत्वं वर्ण्यते न तु वर्णनावशात्प्रत्यक्षायमाणता ।
इत्थं विषयद्वये अवस्थिते भाविकं एकत्रैवेत्याह-अत्र प्रथमप्रकारेति ।
न प्रकारान्तरगोचर इति यदुक्तं तत्र हेतुः – कविसमर्पितानामिति ।
ये हि कविना प्रतिभया समर्प्यन्ते मुखादौ चन्द्रत्वकमलत्वादयो धर्मास्तेषामेवाङ्कलारत्वं ।
न तु परमार्थतःसन्निविशिष्टानां हिमांशुलावण्यादीनां ।
अतो द्वितीयप्रकारे प्रत्यक्षायमाणत्वं वस्तुसन्निवेशीति न भाविकालङ्कारः ।
युक्त्यन्तरेणापि द्रढयितुमाह-अपि च शब्दानाकुलतेत्यादि ।
चकारादभूतभावित्वादयः शब्दानाकुलता चेति हेतवो भामहानुशासने उद्भटलक्षणे च अनाकुलत्वरूपं यदेतद्व्यस्तसम्बन्धरहितशब्दसमर्पितत्वं प्रत्यक्षायमाणात्वप्रतिपादकमुक्तं तत्कथं प्रयोजकीभवेत् ।
वस्तुमन्निवेशिधर्मगतत्वेनापि भाविकसंभवे निष्प्र योजनमेव स्यात् ।
अतो न द्वितीयप्रकारे भाविकमिति निगमयति-तस्माद्वास्तवमेवेत्यादि ।
अत्र उत्तरे प्रकारे ननु वास्तवेऽपि सौन्दर्ये लौकिकतया मा भूद्विच्छित्तिः ।
कवेः ककविनिबन्धस्य वा वक्तुः निबन्धवशादस्त्येव सकलव्यवहर्तृगोचरीभातता दुरपह्नवाविच्छित्तिः ।
तत्र कुतो न भाविकमित्यत आह-यदि तु वास्तवमपीत्यादिना ।
यदि वस्तुसन्निवेश्यपि सौन्दर्यनिबन्धवशात्सविच्छित्तिकं प्राञ्च आचार्याः स्वभावोक्तिवदलङ्कारतया वर्णयेयुः तदा अयमपि वास्तवसौन्दर्यविषयतया समाशङ्कितो भाविकप्रकारो नातीव दुःश्लिष्ट एव सत्यां सामग्यां ।
अयमिहाशयः-यथा हि स्वभावोक्तिः वास्तवसौन्दर्यावलम्बिनी वस्तुस्वभावसौक्ष्म्यात्साधारण्येन सचोतनसंवादाच्च विच्छित्तिमती वर्णिता तथैव वास्तवसौन्दर्यावलम्बितया निबन्धा द्विच्छित्ति विशेषोऽयमलङ्कारतया वर्णनीय एव ।
तथा च सतिभूतभावित्वादि सामग्रीसद्भावेऽन्यकल्पनागौरवादयमपि भाविकप्रकार इति उन्मीलनं योग्यतया सुशकमेव ।
उन्मीलिता श्चोल्लेखभावोदयसन्धिशबलतादय अतिप्रथन स्वातन्त्र्येऽपि चिरन्तनसमयव्यतिक्रमः स्यादिति ।
अमुमेवाशयमाविश्चिकीर्षुः अभियुक्तसंवादायाह-अतैवेत्यादि ।
भूतभाविनः प्रत्यक्षा इव यत्र क्रियन्ते इत्येतावदेव भाविकलक्षणमकारि यैः खलु तैरशब्दानाकुलत्वादिव लक्षणत्वेनोक्तं ।
नापि वा वस्तुसन्निवेशिनः ।
सौन्द्रर्यस्यनिबन्धाद्विच्छित्तिः स्वभावोक्तितुल्यनयशालिनी अलङ्कारत्वेन प्रसिञ्जिता ।
अतो भूतभाविप्रत्यक्षवद्भाविकलक्षणस्य भाविकस्य शब्दानाकुलत्ववास्तव सौन्दर्यावलम्बेनापि भाविकप्रभेदोऽभ्यनुज्ञायते ।
यत इत्थं स्वभावोक्तिप्रतियोगितया मीमांसा प्रवर्तयितव्या, अतः सम्प्रति सङ्गतिमाह–स्वभावोक्त्या किञ्चिदिति ।
वास्तवसौन्दर्यत्वं सादृश्यं ।
तच्च लौकिकत्वसूक्ष्मत्वस्फुटत्वसाधारण्यताटस्थ्यप्रतीत्तयादिभिः वैधर्म्यप्राचुर्यातल्पकमित्यभिसन्धायोक्तं-किञ्चिदिति ।
सत्यपि सादृश्यं किञ्चिन्मात्रं अथापि न्यायसञ्चारायेहास्माभिः लक्षणमस्य कृतं ।
योऽयं प्रत्यक्षवद्भावस्त्वतीतानागतार्थयोः ।
तद्भावबिम्बनाच्चित्ते विनिवेशाच्चभाविकं । ।
नाविपर्ययतो भ्रान्तिः साक्षात्त्वान्नेतिवृत्तकं ।
अन्यत्वानध्यवसितेर्नचात्रातिशयोक्तिता । ।
न परं वर्तमानार्थं धर्मः प्रत्यक्षतेष्यते ।
प्रतिपत्र्तनपे क्षायां प्रत्यक्षत्वपरिक्षयात् । ।
प्रत्यक्षत्वे च सामग्री भावनाद्भुतवस्तुजा ।
प्रत्तयक्षत्वं न संभाव्यमिह नोत्प्रेक्षणं ततः । ।
अलिङ्गलिङ्गभावाच्च काव्यलिङ्गं न चेष्यते ।
ताटस्थ्यात्स्फुटसंवित्तेः न तदा रसवद्भ्रमः । ।
पश्चात्साधारणीभावे रसवांस्तन्निमित्तकः ।
स्फुटत्वान्नर स्वभावोक्तिर्लोकोत्तीर्णस्य वस्तुनः । ।
स्वभावोक्तेः रसवतो भेदःसंवादभेदतः ।
न प्रसादगुणश्चैतद्यस्यादौत्तरकालिकं । ।
वास्तवेऽपि हि सौन्दर्ये योग्यत्वादस्य सम्भवः ।
चिरन्तनानुरोधात्तु तथा व्यक्तं न कीर्तितं । ।
भाविके बुद्धिसंवादो मया स्याद्यदि कस्यतचित् ।
व्याख्याशिल्पस्य निकषः स मे धीमान्भविष्यति । ।
21. Jayadeva [alias Piyusavarsa]: Candraloka (1200 AD)
भाविकं भूतभाव्यर्थ-साक्षाद्दर्शनवर्णनम् ।
अलं विलोकयाद्यापि युद्ध्यन्तेऽत्र सुरासुराः । । ५.११२ । ।
22. Visvanatha kaviraja: Sahityadarpana ) (1384 AD)
#<अद्भुतस्य पदार्थस्य भूतस्याथ भविष्यतः ।
यत्प्रत्यक्षायमाणत्वं तद्भाविकमुदाहृतं । । सूत्र १०.९३ । ।>#
यथा–
“मुनिर्जयति योगीन्द्रो महात्मा कुम्भसम्भवः ।
येनैकचुलुके दृष्टौ दिव्यौ तौ मत्स्यकच्छपौ” । ।
यथा वा–
“आसीदञ्जनमत्रेति पश्यामि तव लोचने ।
भाविभूषणसम्भारां साक्षात्कुर्वे तवाकृतिम्” । ।
न चायं प्रसादाख्यो गुणः, भूतभाविनोः प्रत्यक्षायमाणत्वे तस्याहेतुत्वात् ।
न चाद्भुतो रसः, विस्मयं प्रत्यस्य हेतुत्वात् ।
न चातिशयोक्तिरलङ्कारः, अध्यवसायाभावात् ।
न च भ्रान्तिमान्, भूतभाविनोर्भूतभावितयैव प्रकाशनात् ।
न च स्वभावोक्तिः, तस्य लौकिकवस्तुगतसूक्ष्मधर्मस्वभावस्यैव यथावद्वर्णनं स्वरूपम्; अस्य तु वस्तुनः प्रत्यक्षायमाणस्वरूपो विच्छित्तिविशेषोऽस्तीति ।
यदि पुनर्वस्तुनः क्वचित्स्वभावोक्तावप्यस्या विच्छित्तेः सम्भवस्तदोभयोः सङ्करः ।
“अनातपत्त्रोऽप्ययमत्र लक्ष्यते सितातपत्त्रैरिव सर्वतो वतः ।
अचामरोऽप्येष सदैव वीज्यते विलासबालव्यजनेन कोऽप्ययम्” । ।
अत्र प्रत्यक्षायमाणस्यैव वर्णनान्नायमलङ्कारः, वर्णनावशेन प्रत्यक्षायमाणत्वस्यैव स्वरूपत्वात् ।
यत्पुनरप्रत्यक्षायमाणस्यापि वर्णने प्रत्यक्षायमाणत्वं तत्रायमलङ्कारो भवितुं युक्तः, यथोदाहृते “आसीदञ्जनम्ऽ–इत्यादौ ।
23. Mahesvarabhatta’s Vijnapriya and 24. Anantadasa’s Locana (1400)
#<अद्भुतस्य पदार्थस्य भूतस्याथ भविष्यतः ।
यत्प्रत्यक्षायमाणत्वं तद्भाविकमुदाहृतं । । साहित्यदर्पण १०.९३ । ।>#
************* टीका *************
#<विज्ञप्रियाः>#
(वि, ह) भाविकालङ्कारमाह—अद्भुतस्येति ।
अथेतिवेत्यर्थः ।
भूतस्य भविष्यतो वा अद्भुतस्य पदार्थस्य यत्प्रत्यक्षायमाणत्वं प्रत्यक्षेण दृश्यमानत्वं वर्णितं तदित्यर्थः ।
********** टीका संपूर्णा **********
यथा–
“मुनिर्जयति योगीन्द्रो महात्मा कुम्भसम्भवः ।
येनैकचुलुके दृष्टौ दिव्यौ तौ मत्स्यकच्छपौ” । ।
************* टीका *************
#<विज्ञप्रियाः>#
(वि, क) मुनिरिति ।
एकचलुके पीयमानसमुद्ररूपे गण्डुषे मत्स्यकच्छपावीश्वारावतारौ भूतभाविनौ योगबलेन दृष्टौ ।
एतदर्थमेव योगीन्द्रपदोपदानं ।
********** टीका संपूर्णा **********
यथा वा–
“आसीदञ्जनमत्रेति पश्यामि तव लोचने ।
भाविभूषणसम्भारां साक्षात्कुर्वे तवाकृतिम्” । ।
************* टीका *************
#<विज्ञप्रियाः>#
(वि, ख) आसीदिति ।
यौवनेऽञ्जनाभावेऽपि अञ्जनशोभासत्त्वादासीदिति ।
भूषणेन भविष्यन्त्याः शोभाया तद्विनापि दर्शनाद्भाविभूषणेति ।
********** टीका संपूर्णा **********
न चायं प्रसादाख्यो गुणः, भूतभाविनोः प्रत्यक्षायमाणत्वे तस्याहेतुत्वात् ।
************* टीका *************
#<विज्ञप्रियाः>#
(वि, ग) ननु भूतभाविनोः प्रत्यक्षायोग्ययोरपि प्रत्यक्षायमाणत्वं शीघ्रप्रतीतिविषयत्वात् ।
तथाचेदृशार्थस्य विषयत्वेन शब्दबोधितोपि सोर्थो विशद एव ।
तथा चार्थवैमल्यं प्रसादो यः परोक्तः प्रसादगुणः स एवायं तद्भिन्नवैचित्र्यविशेषाभावाद्भाविकनामालङ्कारो नास्तीत्याशङ्कते—न चायमिति ।
समाधत्ते—भूतभाविनोरिति ।
तयोः प्रत्यक्षायमाणत्वे ग्राह्ये तस्य प्रत्यक्षायमाणत्वस्याहेतुकत्वादहेतुकत्वस्फुरणादित्यर्थः ।
तथा चाहेतुकत्वस्फुरणवैशिष्ट्यरूपवैचित्र्यमेव भाविकालङ्कार इत्युक्तं ।
********** टीका संपूर्णा **********
न चाद्भुतो रसः, विस्मयं प्रत्यस्य हेतुत्वात् ।
************* टीका *************
#<विज्ञप्रियाः>#
(वि, घ) नन्वहेतुकत्वेन हेत्वनुसन्धानं विस्मय एव, तथा चाद्भुतरस एवायमित्याशङ्कते—नचाद्भुत इति ।
समाधत्ते—विस्मयं प्रतीति ।
अहेतुकत्वज्ञानविशिष्टं भाविभूतवस्तुप्रत्यक्षायमाणत्वमेवायमलङ्कारः ।
तस्य विस्मयं प्रति हेतुत्वादेव, नतु विस्मयरूपत्वादित्यर्थः ।
तथा नचात्र रसोऽद्भुतोलङ्कारस्तु भाविकमिति भावः ।
********** टीका संपूर्णा **********
न चातिशयोक्तिरलङ्कारः, अध्यवसायाभावात् ।
न च भ्रान्तिमान्, भूतभाविनोर्भूतभावितयैव प्रकाशनात् ।
************* टीका *************
#<विज्ञप्रियाः>#
(वि, ङ) नायिकायाः रूपातिशयप्रतीत्या उक्तचतुर्विधातिशयोक्तितोऽतिरिक्तप्रकारातिशयोक्तिरेवेयं स्यादित्याशङ्कते—नचातिशयेति ।
समाधत्ते—अध्यवसायेति ।
सर्वविधातिशयोक्तय एवाध्यवसायघटिताः ।
अत्र तदभावात्तद्रूपातिशयबोधमात्रेण तदीयप्रकारान्तरकल्पनानौचित्यादिति भावः ।
भूते भाविनि रूपे भूतभावित्वेन ज्ञापनात्भ्रान्तिमत्त्वमाशङ्कते–न च भ्रान्तीति ।
समाधत्ते—भूतेति ।
प्रकृतस्यान्यतादात्म्यभ्रम एव भ्रान्तिमान्न चात्राभूतभाविपदार्थाः प्रकृतास्तत्र भूतभाविताविभ्रमः ।
किन्तु भूतभाविपदार्थं प्रकृत्य तत्रैव तथात्वप्रकाशनादित्यर्थः ।
रूपविशेषवन्नायिकामात्रधर्मयोरत्र नयनाकृत्योर्वर्णितत्वात् ।
********** टीका संपूर्णा **********
न च स्वभावोक्तिः, तस्य लौकिकवस्तुगतसूक्ष्मधर्मस्वभावस्यैव यथावद्वर्णनं स्वरूपम्; अस्य तु वस्तुनः प्रत्यक्षायमाणस्वरूपो विच्छित्तिविशेषोऽस्तीति ।
यदि पुनर्वस्तुनः क्वचित्स्वभावोक्तावप्यस्या विच्छित्तेः सम्भवस्तदोभयोः सङ्करः ।
************* टीका *************
#<विज्ञप्रियाः>#
(वि, च) स्वभावोक्तिमाशङ्कते—नचेति ।
समाधत्ते—तस्या इति ।
लौकिकं वस्तु डिम्भव्याघ्रादि तद्गतस्य सूक्ष्मधर्मात्मकस्वभावस्य कविभिन्नजनावेद्यतन्मात्रवृत्तिधर्मरूपस्य तत्र यथा वर्णितं तस्य स्वरूपमित्यर्थः ।
अत्र नूतनतेत्याह—अस्यत्विति ।
तदपेक्षया अत्रविलक्षणभङ्गिरस्तीत्यर्थः ।
ननु “अस्फुटाक्षरवागासीदेष बालो विलोक्यते ।
दरदन्ताङ्कुरश्रीकहासो भावी च दृश्यते” । ।
इत्यत्र डिम्भमात्रक्रियादेर्भाविभूतस्य कोऽलङ्कारः स्यादिति मनसिकृत्य समाधत्ते–यदि पुनरिति ।
संकरः स्वातन्त्र्येणैकत्र स्थितिरूपः ।
********** टीका संपूर्णा **********
“अनातपत्त्रोऽप्ययमत्र लक्ष्यते सितातपत्त्रैरिव सर्वतो वतः ।
अचामरोऽप्येष सदैव वीज्यते विलासबालव्यजनेन कोऽप्ययम्” । ।
************* टीका *************
#<विज्ञप्रियाः>#
(वि, छ) यत्र भूतभाविवस्तुनोर्न प्रत्यक्षायमाणत्वं किन्तु तद्वस्तुन एव प्रत्यक्षायमाणत्वं वर्णित तत्र नायमलङ्कार इत्युदाहृत्य दर्शयति—अनातपत्रोऽपीति ।
आतपत्ररहितोप्ययं राजा सर्वदिक्षु सितातपत्रैः सर्वतो वेष्टित इव लक्ष्यते, विलासहेतुकव्यजनेन वीज्यमान इव लक्ष्यते इति पूर्वतोऽनुषङ्गः, शीतलाङ्कत्वात ।
********** टीका संपूर्णा **********
अत्र प्रत्यक्षायमाणस्यैव वर्णनान्नायमलङ्कारः, वर्णनावशेन प्रत्यक्षायमाणत्वस्यैव स्वरूपत्वात् ।
यत्पुनरप्रत्यक्षायमाणस्यापि वर्णने प्रत्यक्षायमाणत्वं तत्रायमलङ्कारो भवितुं युक्तः, यथोदाहृते “आसीदञ्जनम्ऽ–इत्यादौ ।
************* टीका *************
#<विज्ञप्रियाः>#
(वि, ज) अत्रेति ।
प्रत्यक्षायमाणस्यैवेत्यत्रातत्रवृतत्वस्य वीज्यमानत्वस्य चेत्यर्थः ।
एवकाराद्भूतभाविवियवच्छेदान्नतु भूतभाविपदार्थस्य प्रत्यक्षायमाणत्वमित्यर्थः ।
अत्र श्लोके तथात्वाभावं विशदयित्वा दर्शयति—वर्णनावशेनेति ।
अत्र स्वरूपत्वात्, एतत्श्लोकार्थस्वरूपत्वात्, ननु भूतभाविपदार्थस्य प्रत्यक्षायमाणत्वमित्यर्थः ।
भाविकालङ्कारे तु भूतभावित्वघटनावशाद्विशेषान्तरमप्यस्तीत्याह—यत्र पुनरिति ।
प्रत्यक्षायमाणत्वं पर्यवस्यतीत्यर्थः ।
अनातपत्रोपीत्यत्र तु तेजाविशेषाच्छत्रत्वाद्यारोपोऽनुमानमेवेति भेदैत्यर्थः ।
तथा चात्र विरोधालङ्कार एव इति बोध्यं ।
********** टीका संपूर्णा **********
25. Visvesvara Kavicandra: Camatkaracandrika (1400)
26. Vidyadhara: ekavali (14th century) and 27. Mallinatha Suri: Tarala commentary on Vidyadhara’s Ekavali (1350-1450 CE.)
28. Simhabhupala: Rasarnavasudhakara (1400-1500)
29. Vamana: Kavyalamkarasutra, with Vrtti (1400-1500)
30. Rupa Gosvamin: Natakacandrika (1489–1564)
31. Rupa Gosvamin: Ujjvalanilamani (1489–1564)
32. Apayya dikshit: kuvalayananda (1535)
33. Kavi Karnapura: Alankarakaustubha (around 1550)
३२. भाविक
॥ कारिका २८१ ॥
अतीतानागतार्थानां साक्षात्त्वमिव भाविकम् ॥
भाविकनामालङ्कारम् । क्रमेणोदाहरणम्—
प्रातं सखीनां पुरतं शुकीभिं
कथा तथा वल्लभयोरुदारा ।
व्यधायि तौ सा च निशा तयों सा
केलिश्च साक्षादभवन्यथासाम् ॥८.१२५॥
इदानीमेव राधाया भ्रूर्यथा गुणवत्यभूत।
तथा मन्ये स्मरस्येयं स्वं चापं त्याजयिष्यति ॥८.१२६॥
34. BAladeva VidyabhuShaNa: kavyakaustubha (around 1550)
35. Jagannatha Panditaraja: Rasagangadhara, Anana 1 (17th century)
36. Krishna brahmatantra Parakala Swami: Alankaramanihara (1917)
37. Vagbhatalankara
38. Alankarashekhara
39. Alankara adhyaya agni purana
40. Bharata – nATyashAstra
दृष्ट्वा स्वप्ने प्रियं यत्र मदनानलतापिता ।
करोतिविविधान्भावांस्तद्वै भाविकमुच्यते । । १९.१३७ । ।
41. Bhatti – rAvaNavadham